स तु राक्षसशार्दूलो निद्रामदसमाकुलः।
राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥ 6.62.1 ॥
राक्षसानां सहस्रैश्च वृतः परमदुर्जयः।
गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥ 6.62.2 ॥
स हेमजालिविततं भानुभास्वरदर्शनम्।
ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥ 6.62.3 ॥
स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोधिपतेर्निवेशम्।
ददर्श दूरेऽग्रजमासनस्थं स्वयम्भुवं शक्र इवासनस्थम् ॥ 6.62.4 ॥
भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितम्।
कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ 6.62.5 ॥
सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च।
ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ॥ 6.62.6 ॥
अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम्।
तूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ॥ 6.62.7 ॥
अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः।
भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ॥ 6.62.8 ॥
उत्पत्य चैनं मुदितो रावणः परिषस्वजे।
स भ्रात्रा सम्परिष्वक्तो यथावच्छाभिनन्दितः ॥ 6.62.9 ॥
स तदासनमाश्रित्य कुम्भकर्णो महाबलः।
संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ॥ 6.62.10 ॥
किमर्थमहमादृत्य त्वया राजन् विबोधितः।
शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति ॥ 6.62.11 ॥
भ्रातरं रावणः कुद्धं कुम्भकर्णमवस्थितम्।
ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ॥ 6.62.12 ॥
अद्य ते सुमहान् कालः शयानस्य महाबल।
सुखितस्त्वं न जानीषे मम रामकृतं भयम् ॥ 6.62.13 ॥
एष दाशरथी रामः सुग्रीवसहितो बली।
समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ॥ 6.62.14 ॥
हन्त पश्यस्व लङ्कायां वनान्युपवनानि च।
सेतुना सुखमागम्य वानरैकार्णवीकृतम् ॥ 6.62.15 ॥
ये रक्षसां मुख्यतमा हतास्ते वानरैर्युधि।
वानराणां क्षयं युद्धे न पश्यामि कदाचन ॥ 6.62.16 ॥
न चापि वानरा युद्धे जितपूर्वाः कदाचन ॥ 6.62.17 ॥
तदेतद्भयमुत्पन्नं त्रायस्वेमां महाबल।
नाशय त्वमिमानद्य तदर्थं बोधितो भवान् ॥ 6.62.18 ॥
सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम्।
त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ॥ 6.62.19 ॥
भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम्।
मयैवं नोक्तपूर्वो हि कच्चिद् भ्रातः परन्तप ॥ 6.62.20 ॥
दैवासुरेषु युद्धेषु बहुशो राक्षसर्षभ।
त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि ॥ 6.62.21 ॥
तदेतत् सर्वमातिष्ठ वीर्यं भीमपराक्रम।
न हि ते सर्वभूतेषु दृश्यते सदृशो बली ॥ 6.62.22 ॥
कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरणबान्धवप्रिय।
स्वतेजसा विधम सपत्नवाहिनीं शरद्घनं पवन इवोद्यतो महान् ॥ 6.62.23 ॥