०६१ रामेण कुम्भकर्णबलश्रवणम्

ततो रामो भहातेजा धनुरादाय वीर्यवान्।
किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ 6.61.1 ॥
क्रममाणमिवाकाशं पुरा नारायणं प्रभुम्।
सतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् ॥ 6.61.2 ॥
दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥ 6.61.3 ॥
विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम्।
सविस्मयमिदं रामो विभीषणमुवाच ह ॥ 6.61.4 ॥
कोऽसौ पर्वतसङ्काशः किरीटी हरिलोचनः।
लङ्कायां दृश्यते वीर सविद्युदिव तोयदः ॥ 6.61.5 ॥
पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते।
यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥ 6.61.6 ॥
आचक्ष्व मे महान् कोऽसौ रक्षो वा यदि वाऽसुरः।
न मयैवंविधं भूतं दृष्टपूर्वं कदाचन ॥ 6.61.7 ॥
स पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा।
विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥ 6.61.8 ॥
सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान्।
अस्य प्रमाणात् सदृशो राक्षसोऽन्यो न विद्यते ॥ 6.61.9 ॥
एतेन देवा युधि दानवाश्च यक्षा भुजङ्गाः पिशिताशनाश्च।
गन्धर्वविद्याधरकिन्नराश्च सहस्रशो राघव सम्प्रभग्राः ॥ 6.61.10 ॥
शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम्।
हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥ 6.61.11 ॥
प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः।
अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥ 6.61.12 ॥
एतेन जातमात्रेण क्षुधार्तेन महात्मना।
भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ॥ 6.61.13 ॥
तेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः।
यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥ 6.61.14 ॥
स कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री।
स शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ॥ 6.61.15 ॥
तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः।
श्रुत्वाऽतिनादं वित्रस्ता भूयो भूमिर्वितत्रसे ॥ 6.61.16 ॥
तत्र कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः।
विकृष्यैरावताद्दन्तं जघानोरसि वासवम् ॥ 6.61.17 ॥
कुम्भकर्णप्रहारार्तो विजज्वाल स वासवः।
ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ॥ 6.61.18 ॥
प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः।
कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ॥ 6.61.19 ॥
प्रजानां भक्षणं चापि देवानां चापि धर्षणम्।
आश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ॥ 6.61.20 ॥
एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः।
अचिरेणैव कालेन शून्यो लोको भविष्यति ॥ 6.61.21 ॥
वासवस्य वचः श्रुत्वा सर्वलोकपितामहः।
रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ॥ 6.61.22 ॥
कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः।
दृष्ट्वा विश्वास्य चैवेदं स्वयम्भूरिदमब्रवीत् ॥ 6.61.23 ॥
ध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः।
तस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ॥ 6.61.24 ॥
ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः।
ततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ॥ 6.61.25 ॥
विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते।
न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ॥ 6.61.26 ॥
न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः।
कालस्तु क्रियतामस्य शयने जागरे तथा ॥ 6.61.27 ॥
रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ॥ 6.61.28 ॥
एकेनाह्ना त्वसौ वीरश्चरन् भूमिं बुभुक्षितः।
व्यात्तास्यो भक्षयेल्लोकान् सक्रुद्ध इव पावकः ॥ 6.61.29 ॥
सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत्।
त्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ॥ 6.61.30 ॥
स एष निर्गतो वीरः शिबिराद्भीमविक्रमः।
वानरान् भृशसङ्क्रुद्धो भक्षयन् परिधावति ॥ 6.61.31 ॥
कुम्भकर्णं समीक्ष्यैव हरयोऽद्य प्रविद्रुताः।
कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥ 6.61.32 ॥
उच्यन्तां वानराः सर्वे यन्त्रमेतत् समुच्छ्रितम्।
इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥ 6.61.33 ॥
विभीषणवचः श्रुत्वा हेतुमत् सुमुखेरितम्।
उवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥ 6.61.34 ॥
गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके।
द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ सङ्क्रमान् ॥ 6.61.35 ॥
शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहर।
तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ॥ 6.61.36 ॥
राघवेण समादिष्टो नीलो हरिचमूपतिः।
शशास वानरानीकं यथावत् कपिकुञ्जरः ॥ 6.61.37 ॥
ततो गवाक्षः शरभो हनुमानङ्गदस्तथा।
शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥ 6.61.38 ॥
रामवाक्यमुपश्रुत्य हरयो जितकाशिनः।
पादपैरर्दयन् वीरा वानराः परवाहिनीम् ॥ 6.61.39 ॥
ततो हरीणां तदनीकमुग्रं रराज शैलोद्यतदीप्तहस्तम्।
गिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ॥ 6.61.40 ॥