स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः।
भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ॥ 6.60.1 ॥
मातङ्ग इव सिंहेन गरुडेनेव पन्नगः।
अभिभूतोऽभवद्राजा राघवेण महात्मना ॥ 6.60.2 ॥
ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम्।
स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः ॥ 6.60.3 ॥
स काञ्चनमयं दिव्यमाश्रित्य परमासनम्।
विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ॥ 6.60.4 ॥
सर्वं तत् खलु मे मोघं यत्तप्तं परमं तपः।
यत् समानो महेन्द्रेण मानुषेणास्मि निर्जितः ॥ 6.60.5 ॥
इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम्।
मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ॥ 6.60.6 ॥
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः।
अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ॥ 6.60.7 ॥
विदितं मानुषं मन्ये रामं दशरथात्मजम्।
इक्ष्वाकुकुलनाथेन अनरण्येन यत्पुरा ॥ 6.60.8 ॥
यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम्।
निहनिष्यति सङ्ग्रामे त्वां कुलाधम दुर्मते ॥ 6.60.9 ॥
शप्तोऽहं वेदवत्या च यदा सा धर्षिता पुरा।
सेयं सीता महाभागा जाता जनकनन्दिनी ॥ 6.60.10 ॥
उमा नन्दीश्वरश्चापि रम्भा वरुणकन्यका।
यथोक्तास्तपसा प्राप्तं न मिथ्या ऋषिभाषितम् ॥ 6.60.11 ॥
एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ।
राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्द्धसु ॥ 6.60.12 ॥
स चाप्रतिमगाम्भीरो देवदानवदर्पहा।
ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम् ॥ 6.60.13 ॥
स पराजितमात्मानं प्रहस्तं च निषूदितम्।
ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः ॥ 6.60.14 ॥
द्वारेषु यत्नः क्रियतां प्राकारश्चाधिरुह्यताम्।
निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम् ॥ 6.60.15 ॥
सुखं स्वपिति निश्चिन्तः कालोपहतचेतनः।
नव षट् सप्त चाष्टौ च मासान् स्वपिति राक्षसः ॥ 6.60.16 ॥
मन्त्रयित्वा प्रसुप्तोऽयमितस्तु नवमेऽहनि।
तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम् ॥ 6.60.17 ॥
स तु सङ्ख्ये महाबाहुः ककुदः सर्वरक्षसाम्।
वानरान् राजपुत्रौ च क्षिप्रमेव वधिष्यति ॥ 6.60.18 ॥
एष केतुः परः सङ्ख्ये मुख्यो वै सर्वरक्षसाम्।
कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः ॥ 6.60.19 ॥
रामेण हि निरस्तस्य सङ्ग्रामेऽस्मिन् सुदारुणे।
भविष्यति न मे शोकः कुम्भकर्णे विबोधिते ॥ 6.60.20 ॥
किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि।
ईद्दशे व्यसने प्राप्ते यो न साह्याय कल्पते ॥ 6.60.21 ॥
ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः।
जग्मुः परमसम्भ्रान्ताः कुम्भकर्णनिवेशनम् ॥ 6.60.22 ॥
ते रावणसमादिष्टा मांसशोणितभोजनाः।
गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः ॥ 6.60.23 ॥
तां प्रविश्य महाद्वारां सर्वतो योजनायताम्।
कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम् ॥ 6.60.24 ॥
कुम्भकर्णस्य निश्वासादवधूता महाबलाः।
प्रतिष्ठमानाः कृच्छ्रेण यत्नात् प्रविविशुर्गुहाम् ॥ 6.60.25 ॥
तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम्।
ददृशुर्नैर्ऋतव्याघ्रं शयानं भीमदर्शनम् ॥ 6.60.26 ॥
ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम्।
कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन् ॥ 6.60.27 ॥
ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम्।
त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम् ॥ 6.60.28 ॥
भीमनासापुटं तं तु पातालविपुलाननम्।
शय्यायां न्यस्तसर्वाङ्गं मेदोरुधिरगन्धिनम् ॥ 6.60.29 ॥
काञ्चनाङ्गदनद्धाङ्गं किरीटिनमरिन्दमम्।
ददृशुर्नैर्ऋतव्याघ्रं कुम्भकर्णं महाबलम् ॥ 6.60.30 ॥
ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा।
मांसानां मेरुसङ्काशं राशिं परमतर्पणम् ॥ 6.60.31 ॥
मृगाणां महिषाणां च वराहाणां च सञ्चयान्।
चकुर्नैर्ऋतशार्दूला राशिमन्नस्य चाद्भुतम् ॥ 6.60.32 ॥
ततः शोणितकुम्भांश्च मद्यानि विविधानि च ॥ 6.60.33 ॥
पुरस्तात् कुम्भकर्णस्य चकुस्त्रिदशशत्रवः।
लिलिपुश्च परार्ध्येन चन्दनेन परन्तपम् ॥ 6.60.34 ॥
दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः।
धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परन्तपम् ॥ 6.60.35 ॥
शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान्।
तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः ॥ 6.60.36 ॥
नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः।
कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम् ॥ 6.60.37 ॥
सशङ्खभेरीपणवप्रणादमास्फोटितक्ष्वेलितसिंहनादम्।
दिशो द्रवन्तस्त्रिदिवं किरन्तः श्रुत्वा विहङ्गाः सहसा निपेतुः ॥ 6.60.38 ॥
यदा भृशार्तैर्निनदैर्महात्मा न कुम्भकर्णो बुबुधे प्रसुप्तः।
ततो मुसुण्ठीर्मुसलानि सर्वे रक्षोगणास्ते जगृहुर्गदाश्च ॥ 6.60.39 ॥
तं शैलशृङ्गैर्मुसलैर्गदाभिर्वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च।
सुखप्रसुप्तं भुवि कुम्भकर्णं रक्षांस्युदग्राणि तदा निजघ्नुः ॥ 6.60.40 ॥
तस्य निःश्वासवातेन कुम्भकर्णस्य रक्षसः।
राक्षसा बलवन्तोऽपि स्थातुं नाशक्नुवन् पुरः ॥ 6.60.41 ॥
ततः परिहिता गाढं राक्षसा भीमविक्रमाः ॥ 6.60.42 ॥
मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस्तदा।
दशराक्षससाहस्रा युगपत् पर्यवादयन् ॥ 6.60.43 ॥
नीलाञ्जनचयाकारास्ते तु तं प्रत्यबोधयन्।
अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः ॥ 6.60.44 ॥
यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा।
ततो गुरुतरं यत्नं दारुणं समुपाक्रमन् ॥ 6.60.45 ॥
अश्वानुष्ट्रान् खरान्नागान् जघ्नुर्दण्डकशाङ्कुशैः।
भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन् ॥ 6.60.46 ॥
निजघ्नुश्चास्य गात्राणि महाकाष्ठकटङ्करैः।
मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः ॥ 6.60.47 ॥
तेन शब्देन महता लङ्का समभिपूरिता।
सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते ॥ 6.60.48 ॥
ततः सहस्रं भेरीणां युगपत् समहन्यत।
मृष्टकाञ्चनकोणानामासक्तानां समन्ततः ॥ 6.60.49 ॥
शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः।
महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः ॥ 6.60.50 ॥
तद्रक्षो बोधयिष्यन्तश्चक्रुरन्ये पराक्रमम् ॥ 6.60.51 ॥
अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम्।
केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च ॥ 6.60.52 ॥
उदकुम्भशतान्यन्ये समसिञ्चन्त कर्णयोः।
न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः ॥ 6.60.53 ॥
अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः।
मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान् ॥ 6.60.54 ॥
रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः।
वध्यमानो महाकायो न प्राबुध्यत राक्षसः ॥ 6.60.55 ॥
वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम्।
कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत ॥ 6.60.56 ॥
स पात्यमानैर्गिरिशृङ्गवृक्षैरचिन्तयंस्तान् विपुलान् प्रहारान्।
निद्राक्षयात् क्षुद्भयपीडितश्च विजृम्भमाणः सहसोत्पपात ॥ 6.60.57 ॥
स नागभोगाचलशृङ्गकल्पौ विक्षिप्य बाहू गिरिशृङ्गसारौ।
विवृत्य वक्त्रं वडवामुखाभं निशाचरोऽसौ विकृतं जजृम्भे ॥ 6.60.58 ॥
तस्य जाजृम्भमाणस्य वक्त्रं पातालसन्निभम्।
ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः ॥ 6.60.59 ॥
स जृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरः।
निःश्वासश्चास्य सञ्जज्ञे पर्वतादिव मारुतः ॥ 6.60.60 ॥
रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ।
तपान्ते सबलाकस्य मेघस्येव विवर्षतः ॥ 6.60.61 ॥
तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी।
ददृशाते महानेत्रे दीप्ताविव महाग्रहौ ॥ 6.60.62 ॥
ततस्त्वदर्शयन् सर्वान् भक्ष्यांश्च विविधान् बहून्।
वराहान् महिषांश्चैव स बभक्ष महाबलः ॥ 6.60.63 ॥
अदन् बुभुक्षितो मांसं शोणितं तृषितः पिबन्।
मेदःकुम्भांश्च मद्यं च पपौ शक्ररिपुस्तदा ॥ 6.60.64 ॥
ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः।
शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन् ॥ 6.60.65 ॥
निद्राविशऽदनेत्रस्तु कलुषीकृतलोचनः।
चारयन् सर्वतो दृष्टिं तान् ददर्श निशाचरान् ॥ 6.60.66 ॥
स सर्वान् सान्त्वयामास नैर्ऋतान्नैर्ऋतर्षभः।
बोधनाद् विस्मितश्चापि राक्षसानिदमब्रवीत् ॥ 6.60.67 ॥
किमर्थमहमादृत्य भवद्भिः प्रतिबोधितः।
कच्चित् सुकुशलं राज्ञो भयवानेष वा न किम् ॥ 6.60.68 ॥
अथवा ध्रुवमन्येभ्यो भयं परमुपस्थितम्।
यदर्थमेवं त्वरितैर्भवद्भिः प्रतिबोधितः ॥ 6.60.69 ॥
अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम्।
पातयिष्ये महेन्द्रं वा शातयिष्ये तथाऽनलम् ॥ 6.60.70 ॥
न ह्यल्पकारणे सुप्तं बोधयिष्यति मां गुरुः।
तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम् ॥ 6.60.71 ॥
एवं ब्रुवाणं संरब्धं कुम्भकर्णं महाबलम्।
यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह ॥ 6.60.72 ॥
न नो दैवकृतं किञ्चिद्भयमस्ति कदाचन।
मानुषान्नो भयं राजंस्तुमुलं सम्प्रबाधते ॥ 6.60.73 ॥
न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम्।
यादृशं मानुषं राजन् भयमस्मानुपस्थितम् ॥ 6.60.74 ॥
वानरैः पर्वताकारैर्लङ्केयं परिवारिता।
सीताहरणसन्तप्ताद्रामान्नस्तुमुलं भयम् ॥ 6.60.75 ॥
एकेन वानरेणेयं पूर्वं दग्धा महापुरी।
कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः ॥ 6.60.76 ॥
स्वयं रक्षोधिपश्चापि पौलस्त्यो देवकण्टकः।
मृतेति संयुगे मुक्तो रामेणादित्यतेजसा ॥ 6.60.77 ॥
यन्न दैवैः कृतो राजा नापि दैत्यैर्न दानवैः।
कृतः स इह रामेण विमुक्तः प्राणसंशयात् ॥ 6.60.78 ॥
स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम्।
कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत् ॥ 6.60.79 ॥
सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम्।
राघवं च रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम् ॥ 6.60.80 ॥
राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः।
रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम् ॥ 6.60.81 ॥
तत्तस्य वाक्यं ब्रुवतो निशम्य सगर्वितं रोषविवृद्धदोषम्।
महोदरो नैर्ऋतयोधमुख्यः कृताञ्जलिर्वाक्यमिदं बभाषे ॥ 6.60.82 ॥
रावणस्य वचः श्रुत्वा गुणदोषौ विमृश्य च।
पश्चादपि महाबाहो शत्रून् युधि विजेष्यसि ॥ 6.60.83 ॥
महोदरवचः श्रुत्वा राक्षसैः परिवारितः।
कुम्भकर्णो महातेजाः सम्प्रतस्थे महाबलः ॥ 6.60.84 ॥
तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम्।
राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम् ॥ 6.60.85 ॥
ततो गत्वा दशग्रीवमासीनं परमासने।
ऊचुर्बद्धाञ्जलिपुटाः सर्वे एव निशाचराः ॥ 6.60.86 ॥
प्रबुद्धः कुम्भकर्णोऽयं भ्राता ते राक्षसर्षभ।
कथं तत्रैव निर्यातु द्रक्ष्यस्येनमिहागतम् ॥ 6.60.87 ॥
रावणस्त्वब्रवीद्धृष्टो राक्षसांस्तानुपस्थितान्।
द्रष्टुमेनमिहेच्छामि यथान्यायं च पूज्यताम् ॥ 6.60.88 ॥
तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः।
कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः ॥ 6.60.89 ॥
द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुङ्गवः।
गमने क्रियतां बुद्धिर्भ्रातरं सम्प्रहर्षय ॥ 6.60.90 ॥
कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम्।
तथेत्युक्त्वा महाबाहुः शयनादुत्पपात ह ॥ 6.60.91 ॥
प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः।
पिपासुस्त्वरयामास पानं बलसमीरणम् ॥ 6.60.92 ॥
ततस्ते त्वरितास्तस्य राक्षसा रावणाज्ञया।
मद्यकुम्भांश्च विविधान् क्षिप्रमेवोपहारयन् ॥ 6.60.93 ॥
ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः।
कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः ॥ 6.60.94 ॥
भ्रातुः स भवनं गच्छन् रक्षोगणसमन्वितः।
कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ 6.60.95 ॥
स राजमार्गं वपुषा प्रकाशयन् सहस्ररश्मिर्धरणीमिवांशुभिः।
जगाम तत्राञ्जलिमालया वृतः शतक्रतुर्गेहमिव स्वयम्भुवः ॥ 6.60.96 ॥
तं राजमार्गस्थममित्रघातिनं वनौकसस्ते सहसा बहिः स्थिताः।
दृष्ट्वाऽप्रमेयं गिरिशृङ्गकल्पं वितत्रसुस्ते हरियूथपालाः ॥ 6.60.97 ॥
केचिच्छरण्यं शरणं स्म रामं व्रजन्ति केचिद्व्यथिताः पतन्ति।
केचिद्दिशः स्म व्यथिताः प्रयान्ति केचिद्भयार्ता भुवि शेरते स्म ॥ 6.60.98 ॥
तमद्रिशृङ्गप्रतिमं किरीटिनं स्पृशन्तमादित्यमिवात्मतेजसा।
वनौकसः प्रेक्ष्य विवृद्धमद्भुतं भयार्दिता दुद्रुविरे ततस्ततः ॥ 6.60.99 ॥