०५९ रावणेन युद्धभूमिप्रवेशः

तस्मिन् हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे।
भीमायुधं सागरतुल्यवेगं विदुद्रुवे राक्षसराजसैन्यम् ॥ 6.59.1 ॥
गत्वाऽथ रक्षोधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम्।
तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम ॥ 6.59.2 ॥
सङ्ख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः।
उवाच तान्नैर्ऋतयोधमुख्यानिन्द्रो यथा चामरयोधमुख्यान् ॥ 6.59.3 ॥
नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः।
सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ 6.59.4 ॥
सोऽहं रिपुविनाशाय विजयायाविचारयन्।
स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ॥ 6.59.5 ॥
अद्य तद्वानरानीकं रामं च सहलक्ष्मणम्।
निर्दहिष्यामि वाणौघैर्वनं दीप्तैरिवाग्निभिः ॥ 6.59.6 ॥
स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजयुक्तम्।
प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ॥ 6.59.7 ॥
स शङ्खभैरीपणवप्रणादैरास्फोटितक्ष्वेलितसिंहनादैः।
पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ॥ 6.59.8 ॥
स शैलजीमूतनिकाशरूपैर्मांसादनैः पावकदीप्तनेत्रेः।
बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र इवासुरेशः ॥ 6.59.9 ॥
ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम्।
महार्णवाभ्रस्तनितं ददर्शं समुद्यतं पादपशैलहस्तम् ॥ 6.59.10 ॥
तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः।
विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ॥ 6.59.11 ॥
नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम्।
सैन्यं गजेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ॥ 6.59.12 ॥
ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः।
शशंस रामस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ॥ 6.59.13 ॥
योऽसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्त्रः।
प्रकम्पयन्नागशिरोऽभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन् ॥ 6.59.14 ॥
योऽसौ रथस्थो मृगराजकेतुर्धून्वन् धनुः शक्रधनुःप्रकाशम्।
करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ॥ 6.59.15 ॥
यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोऽतिरथोऽतिवीरः।
विस्फारयंश्चापमतुल्यमानं नाम्नाऽतिकायोऽतिविवृद्धकायः ॥ 6.59.16 ॥
योऽसौ नवार्कोदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम्।
गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ॥ 6.59.17 ॥
योऽसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम्।
प्रासं समुद्यम्य मरीचिनद्धं पिशाच एषोऽशनितुल्यवेगः ॥ 6.59.18 ॥
यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किङ्करवज्रवेगम्।
वृषेन्द्रमास्थाय गिरिप्रकाशमायाति योऽसौ त्रिशिरा यशस्वी ॥ 6.59.19 ॥
असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः।
समाहितः पन्नगराजकेतुर्विस्फारयन् भाति धनुर्विधून्वन् ॥ 6.59.20 ॥
यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य।
आयाति रक्षोबलकेतुभूतस्त्वसौ निकुम्भोऽद्भुतघोरकर्मा ॥ 6.59.21 ॥
यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम्।
रथं समास्थाय विभात्युदग्रो नरान्तकोऽसौ नगशृङ्गयोधी ॥ 6.59.22 ॥
यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्त्रैः।
भूतैर्वृतो भाति विवृत्तनेत्रैः सोऽसौ सुराणामपि दर्पहन्ता ॥ 6.59.23 ॥
यत्रैतदिन्दुप्रतिमं विभाति च्छत्रं सितं सूक्ष्मशलाकमग्र्यम्।
अत्रैष रक्षोधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ॥ 6.59.24 ॥
असौ किरीटी चलुकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः।
महेन्द्रवैवस्वतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति ॥ 6.59.25 ॥
प्रत्युवाच ततो रामो विभीषणमरिन्दमम्।
अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ॥ 6.59.26 ॥
आदित्य इव दुष्प्रेक्षो रश्मिभिर्भाति रावणः।
सुव्यक्तं लक्षये ह्यस्य रूपं तेजस्समावृतम् ॥ 6.59.27 ॥
देवदानववीराणां वपुर्नैवंविधं भवेत्।
यादृशं राक्षसेन्द्रस्य वपुरेतत् प्रकाशते ॥ 6.59.28 ॥
सर्वे पर्वतसङ्काशाः सर्वे पर्वतयोधिनः।
सर्वे दीप्तायुधधरा योधाश्चास्य महौजसः ॥ 6.59.29 ॥
भाति राक्षसराजोऽसौ प्रदीप्तैर्भीमविक्रमैः।
भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ॥ 6.59.30 ॥
दिष्ट्याऽयमद्य पापात्मा मम दृष्टिपथं गतः।
अद्य क्रोधं विमोक्ष्यामि सीताहरणसम्भवम् ॥ 6.59.31 ॥
एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान्।
लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ॥ 6.59.32 ॥
ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि।
द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ॥ 6.59.33 ॥
इहागतं मां सहितं भवद्भिर्वनौकसश्छिद्रमिदं विदित्वा।
शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रधर्षयेयुः सहसा समेताः ॥ 6.59.34 ॥
विसर्जयित्वा सहितांस्ततस्तान् गतेषु रक्षस्सु यथानियोगम्।
व्यदारयद्वानरसागरौघं महाझषः पूर्णमिवार्णवौघम् ॥ 6.59.35 ॥
तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम्।
महत् समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपतिं हरीशः ॥ 6.59.36 ॥
तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय।
तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः ॥ 6.59.37 ॥
तस्मिन् प्रवृद्धोत्तमसानुवृक्षे शृङ्गे विकीर्णे पतिते पृथिव्याम्।
महाहिकल्पं शरमन्तकाभं समाददे राक्षसलोकनाथः ॥ 6.59.38 ॥
स तं गृहीत्वाऽनिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम्।
बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ॥ 6.59.39 ॥
स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शिताग्रः।
सुग्रीवमासाद्य बिभेद वेगाद् गुहेरिता क्रौञ्चमिवोग्रशक्तिः ॥ 6.59.40 ॥
स सायकार्तो विपरीतचेताः कूजन् पृथिव्यां निपपात वीरः।
तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ॥ 6.59.41 ॥
ततो गवाक्षो गवयः सुदंष्ट्रस्तथर्षभो ज्योतिमुखो नभश्च।
शैलान् समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ॥ 6.59.42 ॥
तेषां प्रहारान् स चकार मोघान् रक्षोधिपो बाणगणैः शिताग्रैः।
तान् वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ॥ 6.59.43 ॥
ते वानरेन्द्रास्त्रिदशारिबाणैर्भिन्ना विपेतुर्भुवि भीमकायाः।
ततस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ॥ 6.59.44 ॥
ते वध्यमानाः पतिताः प्रवीरा नानद्यमाना भयशल्यविद्धाः।
शाखामृगा रावणसायकार्ता जग्मुः शरण्यं शरणं स्म रामम् ॥ 6.59.45 ॥
ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम।
तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम् ॥ 6.59.46 ॥
काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः।
विधमिष्याम्यहं नीचमनुजानीहि मां प्रभो ॥ 6.59.47 ॥
तमब्रवीन्महतेजा रामः सत्यपराक्रमः ॥ 6.59.48 ॥
रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः।
त्रैलोक्येनापि सङ्क्रुद्धो दुष्प्रसह्यो न संशयः ॥ 6.59.49 ॥
तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय।
चक्षुषा धनुषा यत्नाद्रक्षात्मानं समाहितः ॥ 6.59.50 ॥
राघवस्य वचः श्रुत्वा परिष्वज्याभिपूज्य च।
अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ॥ 6.59.51 ॥
स रावणं वारणहस्तबाहुर्ददर्श दीप्तोद्यतभीमचापम्।
प्रच्छादयन्तं शरवृष्टिजालैस्तान् वानरान् भिन्नविकीर्णदेहान् ॥ 6.59.52 ॥
तमालोक्य महातेजा हनुमान् मारुतात्मजः।
निवार्य शरजालानि प्रदुर्द्राव स रावणम् ॥ 6.59.53 ॥
रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम्।
त्रासयन् रावणं धीमान् हनुमान् वाक्यमब्रवीत् ॥ 6.59.54 ॥
देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः।
अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ॥ 6.59.55 ॥
एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः।
विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् ॥ 6.59.56 ॥
श्रुत्वा हनुमतो वाक्यं रावणो भीमविक्रमः।
संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ॥ 6.59.57 ॥
क्षिप्रं प्रहर निश्शङ्कं स्थिरां कीर्तिमवाप्नुहि।
ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ॥ 6.59.58 ॥
रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत्।
प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव ॥ 6.59.59 ॥
एवमुक्तो महातेजा रावणो राक्षसेश्वरः।
आजघानानिलसुतं तलेनोरसि वीर्यवान् ॥ 6.59.60 ॥
स्थित्वा मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः।
आजघानाभिसङ्क्रुद्धस्तलेनैवामरद्विषम् ॥ 6.59.61 ॥
ततस्तलेनाभिहतो वानरेण महात्मना।
दशग्रीवः समाधूतो यथा भूमिचलेऽचलः ॥ 6.59.62 ॥
सङ्ग्रामे तं तथा दृष्ट्वा रावणं तलताडितम्।
ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः ॥ 6.59.63 ॥
अथाश्वास्य महातेजा रावणो वाक्यमब्रवीत् ॥ 6.59.64 ॥
साधु वानर वीर्येण श्लाघनीयोऽसि मे रिपुः।
रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ॥ 6.59.65 ॥
सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे।
ततस्त्वां मामिका मुष्टिर्नयिष्यति यमक्षयम् ॥ 6.59.66 ॥
ततो मारुतिवाक्येन क्रोदस्तस्य तदाऽज्वलत् ॥ 6.59.67 ॥
संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम्।
पातयामास वेगेन वानरोरसि वीर्यवान् ॥ 6.59.68 ॥
हनुमान् वक्षसि व्यूढे सञ्चचाल पुनःपुनः ॥ 6.59.69 ॥
विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम्।
रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् ॥ 6.59.70 ॥
पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः।
शरैरादीपयामास नीलं हरिचमूपतिम् ॥ 6.59.71 ॥
स शरौघसमायस्तो नीलः कपिचमूपतिः।
करेणैकेन शेलाग्रं रक्षोधिपतयेऽसृजत् ॥ 6.59.72 ॥
हनुमानपि तेजस्वी समाश्वस्तो महामनाः।
विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ॥ 6.59.73 ॥
नीलेन सह संयुक्तं रावणं राक्षसेश्वरम्।
अन्येन युद्ध्यमानस्य न युक्तमभिधावनम् ॥ 6.59.74 ॥
रावणोऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः।
आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ॥ 6.59.75 ॥
तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः।
कालाग्निरिव जज्वाल क्रोधोन परवीरहा ॥ 6.59.76 ॥
सोऽश्वकर्णान् धवान् सालांश्चूतांश्चापि सुपुष्पितान्।
अन्यांश्च विविधान् वृक्षान्नीलश्चिक्षेप संयुगे ॥ 6.59.77 ॥
स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः।
अभ्यवर्षत् सुघोरेण शरवर्षेण पावकिम् ॥ 6.59.78 ॥
अभिवृष्टः शरौघेण मेघेनेव महाचलः।
ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ॥ 6.59.79 ॥
पावकात्मजमालोक्य ध्वजाग्रे समुपस्थितम्।
जज्वाल रावणः क्रोधात्ततो नीलो ननाद च ॥ 6.59.80 ॥
ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम्।
लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः ॥ 6.59.81 ॥
रावणोऽपि महातेजाः कपिलाघवविस्मितः।
अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम् ॥ 6.59.82 ॥
ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवङ्गमाः।
नीललाघवसम्भ्रान्तं दृष्ट्वा रावणमाहवे ॥ 6.59.83 ॥
वानराणां च नादेन संरब्धो रावणस्तदा।
सम्भ्रमाविष्टहृदयो न किञ्चित् प्रत्यपद्यत ॥ 6.59.84 ॥
ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः।
ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः ॥ 6.59.85 ॥
कपे लाघवयुक्तोऽसि मायया परयाऽनया।
जीवितं खलु रक्षस्व यदि शक्तोऽसि वानर ॥ 6.59.86 ॥
तानि तान्यात्मरूपाणि सृजसि त्वमनेकशः ॥ 6.59.87 ॥
तथापि त्वां मया युक्तः सायकोऽस्त्रप्रयोजितः।
जीवतं परिरक्षन्तं जीविताद् भ्रंशयिष्यति ॥ 6.59.88 ॥
एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः।
सन्धाय बाणमस्त्रेण चमूपतिमताडयत् ॥ 6.59.89 ॥
सोऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः।
निर्दह्यमानः सहसा निपपात महीतले ॥ 6.59.90 ॥
पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा।
जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ॥ 6.59.91 ॥
विसञ्ज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः।
रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ॥ 6.59.92 ॥
आसाद्य रणमध्ये तु वारयित्वा स्थितो ज्वलन्।
धनुर्विस्फारयामास कम्पयन्निव मेदिनीम् ॥ 6.59.93 ॥
तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम्।
अभ्येहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रतियोद्धुमर्हः ॥ 6.59.94 ॥
स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा।
आसाद्य सौमित्रिमवस्थितं तं कोपान्वितो वाक्यमुवाच रक्षः ॥ 6.59.95 ॥
दिष्ट्याऽसि मे राघव दृष्टिमार्गं प्राप्तोऽन्तगामी विपरीतबुद्धिः।
अस्मिन् क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः ॥ 6.59.96 ॥
तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम्।
राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ॥ 6.59.97 ॥
जानामि वीर्यं तव राक्षसेन्द्र बलं प्रतापं च पराक्रमं च।
अवस्थितोऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ॥ 6.59.98 ॥
स एवमुक्तः कुपितः ससर्ज रक्षोधिपः सप्त शरान् सुपुङ्खान्।
तान् लक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद बाणैर्निशिताग्रधारैः ॥ 6.59.99 ॥
तान् प्रेक्षमाणः सहसा निकृत्तान्निकृत्तभोगानिव पन्नगेन्द्रान्।
लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान् पृषत्कान् ॥ 6.59.100 ॥
स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसम्प्रयुक्तम्।
क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ॥ 6.59.101 ॥
स बाणजालान्यथ तानि तानि मोघानि पश्यं स्त्रिदशारिराजः।
विसिष्मिये लक्ष्मणलाघवेन पुनश्च बाणान्निशितान् मुमोच ॥ 6.59.102 ॥
स लक्ष्मणश्चाशु शरान् शिताग्रान् महेन्द्रवज्राशनितुल्यवेगान्।
सन्धाय चापे ज्वलनप्रकाशान् ससर्ज रक्षोधिपतेर्वधाय ॥ 6.59.103 ॥
स तान् प्रचिच्छेद हि राक्षसेन्द्रश्छित्त्वा च ताँल्लक्ष्मणमाजघान।
शरेण कालाग्निसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ॥ 6.59.104 ॥
स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य।
पुनश्च सञ्ज्ञां प्रतिलभ्य कृच्छ्राच्चिच्छेद चापं त्रिदशेन्द्रशत्रोः ॥ 6.59.105 ॥
निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रः।
स सायकार्तो विचचाल राजा कृच्छ्राच्च सञ्ज्ञां पुनराससाद ॥ 6.59.106 ॥
स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः।
जग्राह शक्तिं समुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ॥ 6.59.107 ॥
स तां विधूमानलसन्निकाशां वित्रासिनीं वानरवाहिनीनाम्।
चिक्षेप शक्तिं तरसाज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ॥ 6.59.108 ॥
तामापतन्तीं भरतानुजोग्रैर्जघान बाणैश्च हुताग्निकल्पैः।
तथापि सा तस्य विवेश शक्तिर्बाह्वन्तरं दाशरथेर्विशालम् ॥ 6.59.109 ॥
स शक्तिमान् शक्तिसमाहतः सन् मुहुः प्रजज्वाल रघुप्रवीरः।
तं विह्वलन्तं सहसाऽभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ॥ 6.59.110 ॥
हिमवान् मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः।
शक्यं भुजाभ्यामुद्धर्तु न सङ्ख्ये भरतानुजः ॥ 6.59.111 ॥
शक्त्या ब्राह्म्याऽपि सौमित्रिस्ताडितस्तु स्तनान्तरे।
विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरत् ॥ 6.59.112 ॥
तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घनेऽभवत्।
अथैवं वैष्णवं भागं मानुषं देहमास्थितम् ॥ 6.59.113 ॥
अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत्।
आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ॥ 6.59.114 ॥
तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः।
जानुभ्यामपतद्भूमौ चचाल च पपात च ॥ 6.59.115 ॥
आस्यैः सनेत्रश्रवणैर्ववाम रुधिरं बहु ॥ 6.59.116 ॥
विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत्।
विसञ्ज्ञो मूर्च्छितश्चासीन्न च स्थानं समालभत् ॥ 6.59.117 ॥
विसञ्ज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम्।
ऋषयो वानराः सर्वे नेदुर्देवाः सवासवाः ॥ 6.59.118 ॥
हनुमानपि तेजस्वी लक्ष्मणं रावणार्दितम्।
अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ॥ 6.59.119 ॥
वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः।
शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत् कपेः ॥ 6.59.120 ॥
तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम्।
रावणस्य रथे तस्मिन् स्थानं पुनरुपागता ॥ 6.59.121 ॥
आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः।
विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ॥ 6.59.122 ॥
रावणोऽपि महातेजाः प्राप्य सञ्ज्ञां महाहवे।
आददे निशितान् बाणान् जग्राह च महद्धनुः ॥ 6.59.123 ॥
निपातितमहावीरां द्रवन्तीं वानरीं चमूम्।
राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ॥ 6.59.124 ॥
अथैनमुपसङ्गम्य हनुमान् वाक्यमब्रवीत्।
मम पृष्टं समारुह्य राक्षसं शास्तुमर्हसि ॥ 6.59.125 ॥
तच्छुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम्।
आरुरोह महाशूरो बलवन्तं महाकपिम् ॥ 6.59.126 ॥
रथस्थं रावणं सङ्ख्ये ददर्श मनुजाधिपः ॥ 6.59.127 ॥
तमालोक्य माहतेजाः प्रदुद्राव स राघवः।
वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ॥ 6.59.128 ॥
ज्याशब्दमकरोत्तीवं वज्रनिष्पेषनिस्वनम् ॥ 6.59.129 ॥
गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ॥ 6.59.130 ॥
तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीद्दशम्।
क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ॥ 6.59.131 ॥
यदीन्द्रवैवस्वतभास्करान् वा स्वयम्भुवैश्वानरशङ्करान् वा।
गमिष्यसि त्वं दश वा दिशोऽथवा तथापि मे नाद्य गतो विमोक्ष्यसे ॥ 6.59.132 ॥
यश्चैव शक्त्याऽभिहतस्त्वयाऽद्य इच्छन् विषादं सहसाऽभ्युपेतः।
स एव रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्ययुद्धे ॥ 6.59.133 ॥
एतेन चात्यद्भुतदर्शनानि शरैर्जनस्थानकृतालयानि।
चतुर्दशान्यात्तवरायुधानि रक्षस्सहस्राणि निषूदितानि ॥ 6.59.134 ॥
[रोषेण महताऽऽविष्टः पूर्ववैरमनुस्मरन्।] आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ॥ 6.59.135 ॥
राक्षसेनाहवे तस्य ताडितस्यापि सायकैः।
स्वभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत ॥ 6.59.136 ॥
ततो रामो महातेजा रावणेन कृतव्रणम्।
दृष्ट्वा प्लवगशार्दूलं कोपस्य वशमेयिवान् ॥ 6.59.137 ॥
तस्याभिचङ्क्रम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम्।
ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः ॥ 6.59.138 ॥
अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसन्निभेन।
भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ॥ 6.59.139 ॥
यो वज्रपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा।
स रामबाणाभिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ॥ 6.59.140 ॥
तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम्।
तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोधिपतेर्महात्मा ॥ 6.59.141 ॥
तं निर्विषाशीविषसन्निकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम्।
गतश्रियं कृत्तकिरीटकूटमुवाच रामो युधि राक्षसेन्द्रम् ॥ 6.59.142 ॥
कृतं त्वया कर्म महत् सुभीमं हतप्रवीरश्च कृतस्त्वयाऽहम्।
तस्मात् परिश्रान्त इव व्यवस्य न त्वां शरैर्मृत्युवशं नयामि ॥ 6.59.143 ॥
गच्छानुजानामि रणार्दितस्त्वं प्रविश्य रात्रिञ्चरराज लङ्काम्।
आश्वास्य निर्याहि रथी च धन्वी तदा बलं द्रक्ष्यसि मे रथस्थः ॥ 6.59.144 ॥
स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः।
शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स राजा ॥ 6.59.145 ॥
तस्मिन् प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ।
हरीन् विशल्यान् सह लक्ष्मणेन चकार रामः परमाहवाग्रे ॥ 6.59.146 ॥
तस्मिन् प्रभिन्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च।
ससागराः सर्षिमहोरागाश्च तथैव भूम्यम्बुचराश्च हृष्टाः ॥ 6.59.147 ॥