०५८ विभीषणेन प्रहस्तबलवर्णनम्

ततः प्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम्।
उवाच सस्मितं रामो विभीषणमरिन्दमः ॥ 6.58.1 ॥
[आगच्छति महावेगः किंरूपबलपौरुषः।] आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् ॥ 6.58.2 ॥
राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ॥ 6.58.3 ॥
लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः।
वीर्यवानस्त्रविच्छूरः प्रख्यातश्च पराक्रमे ॥ 6.58.4 ॥
ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम्।
गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ॥ 6.58.5 ॥
ददर्श महती सेना वानराणां बलीयसाम्।
अतिसञ्जातरोषाणां प्रहस्तमभिगर्जताम् ॥ 6.58.6 ॥
खड्गशक्त्यृष्टिबाणाश्च शूलानि मुसलानि च।
गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः ॥ 6.58.7 ॥
धनूंषि च विचित्राणि राक्षसानां जयैषिणाम्।
प्रगृहीतान्यशोभन्त वानरानभिधावताम् ॥ 6.58.8 ॥
जगृहुः पादपांश्चापि पुष्पितान् वानरर्षभाः।
शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः ॥ 6.58.9 ॥
तेषामन्योन्यमासाद्य सङ्ग्रामः सुमहानभूत्।
बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ॥ 6.58.10 ॥
बहवो राक्षसा युद्धे बहून् वानरयूथपान्।
वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥ 6.58.11 ॥
शूलैः प्रमथिताः केचित् केचिच्च परमायुधैः।
परिघैराहताः केचित् केचिच्छिन्नाः परश्वधैः ॥ 6.58.12 ॥
निरुच्छ्वासाः कृताः केचित् पतिता धरणीतले।
विभिन्नहृदयाः केचिदिषुसन्धानसन्दिताः ॥ 6.58.13 ॥
केचिद्द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि।
वानरा राक्षसैः शूलैः पार्श्वतश्चावदारिताः ॥ 6.58.14 ॥
वानरैश्चापि सङ्क्रुद्धै राक्षसौघाः समन्ततः।
पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले ॥ 6.58.15 ॥
वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम्।
वैमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणाः ॥ 6.58.16 ॥
आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम्।
बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ॥ 6.58.17 ॥
वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः।
विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ॥ 6.58.18 ॥
नरान्तकः कुम्भहनुर्महानादः समुन्नतः।
एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ॥ 6.58.19 ॥
तेषामापततां शीघ्रं निघ्नतां चापि वानरान्।
द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ॥ 6.58.20 ॥
दुर्मुखः पुनरुत्थाय कपिः स विपुलद्रुमम्।
राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ॥ 6.58.21 ॥
जाम्बवांस्तु सुसङ्क्रुद्धः प्रगृह्य महतीं शिलाम्।
पातयामास तेजस्वी महानादस्य वक्षसि ॥ 6.58.22 ॥
अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान्।
वृक्षेणाभिहतो मूर्ध्नि प्राणान् सन्त्याजयद्रणे ॥ 6.58.23 ॥
अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः।
चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥ 6.58.24 ॥
आवर्त इव सञ्जज्ञे उभयोः सेनयोस्तदा।
क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः ॥ 6.58.25 ॥
महता हि शरौघेण प्रहस्तो युद्धकोविदः।
अर्दयामास सङ्क्रुद्धो वानरान् परमाहवे ॥ 6.58.26 ॥
वानराणां शरीरैश्च राक्षसानां च मेदिनी।
बभूव निचिता घोरा पतितैरिव पर्वतैः ॥ 6.58.27 ॥
सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते।
सञ्छन्ना माधवे मासि पलाशैरिव पुष्पितैः ॥ 6.58.28 ॥
हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम्।
शोणितौघमहातोयां यमसागरगमिनीम् ॥ 6.58.29 ॥
यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम्।
भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम् ॥ 6.58.30 ॥
मेदःफेनसमाकीर्णामार्तस्तनितनिस्वनाम्।
तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् ॥ 6.58.31 ॥
नदीमिव घनापाये हंससारससेविताम्।
राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ॥ 6.58.32 ॥
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः ॥ 6.58.33 ॥
ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम्।
ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् ॥ 6.58.34 ॥
समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः।
रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे ॥ 6.58.35 ॥
स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे।
नीलाय व्यसृजद्बाणान् प्रहस्तो वाहिनीपतिः ॥ 6.58.36 ॥
ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः।
महीं जग्मुर्महावेगा रुषिता इव पन्नगाः ॥ 6.58.37 ॥
नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः।
स तं परमदुर्धर्षमापतन्तं महाकपिः ॥ 6.58.38 ॥
प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ॥ 6.58.39 ॥
स तेनाभिहतः क्रुद्धो नदन् राक्षसपुङ्गवः।
ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ ॥ 6.58.40 ॥
तस्य बाणगणान् घोरान् राक्षसस्य महाबलः।
अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः ॥ 6.58.41 ॥
एवमेव प्रहस्तस्य शरवर्षं दुरासदम्।
निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ॥ 6.58.42 ॥
रोषितः शरवर्षेण सालेन महता महान्।
प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ॥ 6.58.43 ॥
ततः स चापमुद्गृह्य प्रहस्तस्य महाबलः।
बभञ्ज तरसा नीलो ननाद च पुनःपुनः ॥ 6.58.44 ॥
विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः।
प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ॥ 6.58.45 ॥
तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ।
स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ॥ 6.58.46 ॥
उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम्।
सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ॥ 6.58.47 ॥
विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ।
काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ॥ 6.58.48 ॥
आजघान तदा नीलं ललाटे मुसलेन सः।
प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम् ॥ 6.58.49 ॥
ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम्।
प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ॥ 6.58.50 ॥
तमचिन्त्य प्रहारं स प्रगृह्य मुसलं महत्।
अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम् ॥ 6.58.51 ॥
तमुग्रवेगं संरब्धमापतन्तं महाकपिः।
ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम् ॥ 6.58.52 ॥
तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः।
प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ॥ 6.58.53 ॥
सा तेन कपिमुख्येन विमुक्ता महती शिला।
बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ॥ 6.58.54 ॥
स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥ 6.58.55 ॥
प्रभिन्नशिरसस्तस्य बहु सुस्राव शोणितम्।
शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ॥ 6.58.56 ॥
हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम्।
रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ॥ 6.58.57 ॥
न शेकुः समरे स्थातुं निहते वाहिनीपतौ।
सेतुबन्धं समासाद्य विकीर्णं सलिलं यथा ॥ 6.58.58 ॥
रक्षःपतिगृहं गत्वा ध्यानमूकत्वमास्थिताः।
प्राप्ताः शोकार्णवं तीव्रं निस्सञ्ज्ञा इव तेऽभवन् ॥ 6.58.59 ॥
ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा।
समेत्य रामेण सलक्ष्मणेन च प्रहृष्टरूपस्तु बभूव यूथपः ॥ 6.58.60 ॥