अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः।
किञ्चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥ 6.57.1 ॥
ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः।
पुरीं परिययौ लङ्कां सर्वान् गुल्मानवेक्षितुम् ॥ 6.57.2 ॥
तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम्।
ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम् ॥ 6.57.3 ॥
रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः।
उवाचामर्षतः काले प्रहस्तं युद्धकोविदम् ॥ 6.57.4 ॥
पुरस्योपनिविष्टस्य सहसा पीडितस्य वा।
नान्यं युद्धात् प्रपश्यामि मोक्षं युद्धविशारद ॥ 6.57.5 ॥
अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम।
इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम् ॥ 6.57.6 ॥
स त्वं बलमतः शीघ्रमादाय परिगृह्य च।
विजयायाभिनिर्याहि यत्र सर्वे वनौकसः ॥ 6.57.7 ॥
निर्याणादेव ते नूनं चपला हरिवाहिनी।
नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति ॥ 6.57.8 ॥
चपला ह्यविनीताश्च चलचित्ताश्च वानराः।
न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः ॥ 6.57.9 ॥
विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह।
अवशस्ते निरालम्बः प्रहस्त वशमेष्यति ॥ 6.57.10 ॥
आपत् संशयिता श्रेयो न तु निस्संशयीकृता।
प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम् ॥ 6.57.11 ॥
रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः।
राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना ॥ 6.57.12 ॥
राजन् मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः।
विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम् ॥ 6.57.13 ॥
प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया।
अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः ॥ 6.57.14 ॥
सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया।
सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव ॥ 6.57.15 ॥
न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा।
त्वं पश्य मां जुहूषन्तं त्वदर्थं जीवितं युधि ॥ 6.57.16 ॥
एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः।
उवाचेदं बलाध्यक्षान् प्रहस्तः पुरतः स्थितान् ॥ 6.57.17 ॥
समानयत मे शीघ्रं राक्षसानां महद्बलम् ॥ 6.57.18 ॥
मद्बाणशतवेगेन हतानां च रणाजिरे।
अद्य तृप्यन्तु मांसादाः पक्षिणः काननौकसाम् ॥ 6.57.19 ॥
इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः।
बलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे ॥ 6.57.20 ॥
सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः।
लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला ॥ 6.57.21 ॥
हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम्।
आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ ॥ 6.57.22 ॥
स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः।
सङ्ग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा ॥ 6.57.23 ॥
सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः।
रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन् ॥ 6.57.24 ॥
अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम्।
आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम् ॥ 6.57.25 ॥
हयैर्महाजवैर्युक्तं सम्यक् सूतसुसंयतम्।
महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम् ॥ 6.57.26 ॥
उरगध्वजदुर्द्धर्षं सुवरूथं स्वपस्करम्।
सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया ॥ 6.57.27 ॥
ततस्तं रथमास्थाय रावणार्पितशासनः।
लङ्काया निर्ययौ तूर्णं बलेन महता वृतः ॥ 6.57.28 ॥
वादित्राणां च निनदः पूरयन्निव सागरम्।
शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ ॥ 6.57.29 ॥
निनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः।
भीमरूपा महाकायाः प्रहस्तस्य पुरस्सराः ॥ 6.57.30 ॥
नरान्तकः कुम्भहनुर्महानादः समुन्नतः।
प्रहस्तसचिवा ह्येते निर्ययुः परिवार्य तम् ॥ 6.57.31 ॥
व्यूढेनैव सुघोरेण पूर्वद्वारात् स निर्ययौ।
गजयूथनिकाशेन बलेन महता वृतः ॥ 6.57.32 ॥
सागरप्रतिमौघेन वृतस्तेन बलेन सः।
प्रहस्तो निर्ययौ तूर्णं कालान्तकयमोपमः ॥ 6.57.33 ॥
तस्य निर्याणघोषेण राक्षसानां च नर्दताम्।
लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः ॥ 6.57.34 ॥
व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः।
मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति ॥ 6.57.35 ॥
वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे।
अन्तरिक्षात् पपातोल्का वायुश्च परुषो ववौ ॥ 6.57.36 ॥
अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे ॥ 6.57.37 ॥
मेघाश्च खरनिर्घोषा रथस्योपरि रक्षसः।
ववृषू रुधिरं चास्य सिषिचुश्च पुरस्सरान् ॥ 6.57.38 ॥
केतुमूर्धनि गृध्रोऽस्य निलीनो दक्षिणामुखः।
तुदन्नुभयतः पार्श्वं समग्रामहरत् प्रभाम् ॥ 6.57.39 ॥
सारथेर्बहुशश्चास्य सङ्ग्राममवगाहतः।
प्रतोदो न्यपतद्धस्तात् सूतस्य हयसादिनः ॥ 6.57.40 ॥
निर्याणश्रीश्च याऽस्यासीद्भास्वरा वसुदुर्लभा।
सा ननाश मुहूर्तेन समे च स्खलिता हयाः ॥ 6.57.41 ॥
प्रहस्तं त्वभिनिर्यान्तं प्रख्यातबलपौरुषम्।
युधि नानाप्रहरणा कपिसेनाऽभ्यवर्तत ॥ 6.57.42 ॥
अथ घोषः सुतुमुलो हरीणां समजायत।
वृक्षानारुजतां चैव गुर्वीरागृह्णतां शिलाः ॥ 6.57.43 ॥
नदतां राक्षसानां च वानराणां च गर्जताम्।
उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम् ॥ 6.57.44 ॥
वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम्।
परस्परं चाह्वयतां निनादः श्रूयते महान् ॥ 6.57.45 ॥
ततः प्रहस्तः कपिराजवाहिनीमभिप्रतस्थे विजयाय दुर्मतिः।
विवृद्धवेगां च विवेश तां चमूं यथा मुमूर्षुः शलभो विभावसुम् ॥ 6.57.46 ॥