तद्दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः।
क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ 6.56.1 ॥
क्रोधमूर्च्छितरूपस्तु धून्वन् परमकार्मुकम्।
दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥ 6.56.2 ॥
तत्रैव तावत्त्वरितं रथं प्रापय सारथे।
यत्रैते बहवो घ्नन्ति सुबहून् राक्षसान् रणे ॥ 6.56.3 ॥
एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः।
द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ 6.56.4 ॥
एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम्।
एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ॥ 6.56.5 ॥
ततः प्रजवनाश्वेन रथेन रथिनां वरः।
हरीनभ्यहनत् क्रोधाच्छरजालैरकम्पनः ॥ 6.56.6 ॥
न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे।
अकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः ॥ 6.56.7 ॥
तान् मृत्युवशमापन्नानकम्पनवशं गतान्।
समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः ॥ 6.56.8 ॥
तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः।
समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ॥ 6.56.9 ॥
अवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः।
बभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः ॥ 6.56.10 ॥
अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम्।
महेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥ 6.56.11 ॥
अचिन्तयित्वा बाणौघान् शरीरे पतितान् शितान्।
अकम्पनवधार्थाय मनो दध्रे महाबलः ॥ 6.56.12 ॥
स प्रसह्य महातेजा हनूमान् मारुतात्मजः।
अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ 6.56.13 ॥
तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा।
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ 6.56.14 ॥
आत्मानमप्रहरणं ज्ञात्वा क्रोधसमन्वितः।
शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ 6.56.15 ॥
तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः।
स विनद्य महानादं भ्रामयामास वीर्यवान् ॥ 6.56.16 ॥
ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम्।
पुरा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः ॥ 6.56.17 ॥
अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम्।
दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ 6.56.18 ॥
तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम्।
विशीर्णं पतितं दृष्ट्वा हनुमान् क्रोधमूर्च्छितः ॥ 6.56.19 ॥
सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः।
तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥ 6.56.20 ॥
तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः।
प्रहस्य परया प्रीत्या भ्रामयामास संयुगे ॥ 6.56.21 ॥
प्रधावन्नूरुवेगेन प्रभञ्जंस्तरसा द्रुमान्।
हनुमान् परमक्रुद्धश्चरणैर्दारयत् क्षितिम् ॥ 6.56.22 ॥
गजांश्च सगजारोहान् सरथान् रथिनस्तथा।
जघान हनुमान् धीमान् राक्षसांश्च पदातिगान् ॥ 6.56.23 ॥
तमन्तकमिव क्रुद्धं समरे प्राणहारिणम्।
हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ 6.56.24 ॥
तमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम्।
ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ॥ 6.56.25 ॥
स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः।
निर्बिभेद हनूमन्तं महावीर्यमकम्पनः ॥ 6.56.26 ॥
स तदा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः।
हनुमान् ददृशे वीरः प्ररूढ इव सानुमान् ॥ 6.56.27 ॥
विरराज महाकायो महावीर्यो महामनाः।
पुष्पिताशोकसङ्काशो विधूम इव पावकः ॥ 6.56.28 ॥
ततोऽन्यं वृक्षमुत्पाट्य कत्वा वेगमनुत्तमम्।
शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ 6.56.29 ॥
स वृक्षेण हतस्तेन सक्रोधेन महात्मना।
राक्षशो वानरेन्द्रेण पपात च ममार च ॥ 6.56.30 ॥
तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम्।
व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥ 6.56.31 ॥
त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः।
लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ॥ 6.56.32 ॥
ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः।
स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ॥ 6.56.33 ॥
अन्योन्यं प्रममन्थुस्ते विविशुर्नगरं भयात्।
पृष्ठतस्ते सुसम्मूढाः प्रेक्षमाणा मुहुर्मुहुः ॥ 6.56.34 ॥
तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः।
समेत्य हरयः सर्वे हनुमन्तमपूजयन् ॥ 6.56.35 ॥
सोऽपि प्रहृष्टस्तान् सर्वान् हरीन् प्रत्यभ्यपूजयत्।
हनुमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ॥ 6.56.36 ॥
विनेदुश्च यथाप्राणं हरयो जितकाशिनः।
चकर्षुश्च पुनस्तत्र सप्राणानपि राक्षसान् ॥ 6.56.37 ॥
स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः।
महासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे ॥ 6.56.38 ॥
अपूजयन् देवगणास्तदा कपिं स्वयं च रामोऽतिबलश्च लक्ष्मणः।
तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तथा ॥ 6.56.39 ॥