०५५ रावणेन अकम्पनप्रेषणम्

वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः।
बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम् ॥ 6.55.1 ॥
शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः।
अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ॥ 6.55.2 ॥
एष शास्ता च गोप्ता च नेता च युधि सम्मतः।
भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ॥ 6.55.3 ॥
एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम्।
वानरांश्चापरान् घोरान् हनिष्यति परन्तपः ॥ 6.55.4 ॥
परिगृह्य स तामाज्ञां रावणस्य महाबलः।
बलं सन्त्वरयामास तदा लघुपराक्रमः ॥ 6.55.5 ॥
ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः।
निष्पेतू रक्षसां मुख्या बलाध्यक्षप्रचोदिताः ॥ 6.55.6 ॥
मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः।
राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः ॥ 6.55.7 ॥
न हि कम्पयितुं शक्यः सुरैरपि महामृधे।
अकम्पनस्ततस्तेषामादित्य इव तेजसा ॥ 6.55.8 ॥
तस्य निर्धावमानस्य संरब्धस्य युयत्सया।
अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम् ॥ 6.55.9 ॥
व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः।
विवर्णो मुखवर्णश्च गद्गदश्चाभवत् स्वनः ॥ 6.55.10 ॥
अभवत् सुदिने चापि दुर्दिनं रूक्षमारुतम्।
ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः ॥ 6.55.11 ॥
स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः।
तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ॥ 6.55.12 ॥
तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः।
बभूव सुमहान्नादः क्षोभयन्निव सागरम् ॥ 6.55.13 ॥
तेन शब्देन वित्रस्ता वानराणां महाचमूः।
द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत ॥ 6.55.14 ॥
तेषां युद्धं महारौद्रं सञ्जज्ञे हरिरक्षसाम्।
रामरावणयोरर्थे समभित्यक्तजीविनाम् ॥ 6.55.15 ॥
सर्वे ह्यति बलाः शूराः सर्वे पर्वतसन्निभाः।
हरयो राक्षसाश्चैव परस्परजिघांसवः ॥ 6.55.16 ॥
तेषां विनर्दतां शब्दः संयुगेऽतितरस्विनाम्।
सुश्रुवे सुमहान् क्रोधादन्योन्यमभिगर्जताम् ॥ 6.55.17 ॥
रजश्चारुणवर्णाभं सुभीममभवद्भृशम्।
उद्भूतं हरिरक्षोभिः संरुरोध दिशो दश ॥ 6.55.18 ॥
अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना।
संवृतानि च भूतानि ददृशुर्न रणाजिरे ॥ 6.55.19 ॥
न ध्वजा न पताका वा चर्म वा तुरगोऽपि वा।
आयुधं स्यन्दनं वाऽपि ददृशे तेन रेणुना ॥ 6.55.20 ॥
शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम्।
श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे ॥ 6.55.21 ॥
हरीनेव सुसङ्क्रुद्धा हरयो जघ्नुराहवे।
राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा ॥ 6.55.22 ॥
परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः।
रुधिरार्द्रां तदा चक्रुर्महीं पङ्कानुलेपनाम् ॥ 6.55.23 ॥
ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः।
शरीरशवसङ्कीर्णा बभूव च वसुन्धरा ॥ 6.55.24 ॥
द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः।
हरयो राक्षसाश्चैव जघ्नुरन्योन्यमोजसा ॥ 6.55.25 ॥
बाहुभिः परिघाकारैर्युद्ध्यन्तः पर्वतोपमाः।
हरयो भीमकर्माणो राक्षसान् जघ्नुराहवे ॥ 6.55.26 ॥
राक्षसास्त्वपि सङ्क्रुद्धाः प्रासतोमरपाणयः।
कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः ॥ 6.55.27 ॥
अकम्पनः सुसङ्क्रुद्धो राक्षसानां चमूपतिः।
संहर्षयति तान् सर्वान् राक्षसान् भीमविक्रमान् ॥ 6.55.28 ॥
हरयस्त्वपि सक्षांसि महाद्रुममहाश्मभिः।
विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ॥ 6.55.29 ॥
एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः।
मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ॥ 6.55.30 ॥
कदनं सुमहच्चक्रुर्लीलया हरियूथपाः।
ममन्थू राक्षसान् सर्वे वानरा गणशो भृशम् ॥ 6.55.31 ॥