बलस्य च निघातेन अङ्गदस्य जयेन च।
राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥ 6.54.1 ॥
स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम्।
वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ॥ 6.54.2 ॥
राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः।
नानाप्रहरणाः शूराः प्रायुद्ध्यन्त तदा रणे ॥ 6.54.3 ॥
वानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः।
आयुद्ध्यन्त शिलाहस्ताः समवेताः समन्ततः ॥ 6.54.4 ॥
तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम्।
राक्षसाः कपिमुख्येषु पातयाञ्चक्रिरे तदा ॥ 6.54.5 ॥
वानराश्चापि रक्षस्सु गिरीन् वृक्षान् महाशिलाः।
प्रवीराः पातयामासुर्मत्तवारणसन्निभाः ॥ 6.54.6 ॥
शूराणां युद्ध्यमानानां समरेष्वनिवर्तिनाम्।
तद्राक्षसगणानां च सुयुद्धं समवर्तत ॥ 6.54.7 ॥
प्रभिन्नशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः।
शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ॥ 6.54.8 ॥
हरयो राक्षसाश्चैव शेरते गां समाश्रिताः।
कङ्कगृध्रवलैराढ्या गोमायुगणसङ्कुलाः ॥ 6.54.9 ॥
कबन्धानि समुत्पेतुर्भीरुणां भीषणानि वै ॥ 6.54.10 ॥
भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले।
वानरा राक्षसाश्चापि निपेतुस्तत्र वै रणे ॥ 6.54.11 ॥
ततो वानरसैन्येन हन्यमानं निशाचरम्।
प्राभज्यत बलं सर्वं वज्रदंष्ट्रस्य पश्यतः ॥ 6.54.12 ॥
राक्षसान् भयवित्रस्तान् हन्यमानान् प्लवङ्गमैः।
दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् ॥ 6.54.13 ॥
प्रविवेश धनुष्पाणिस्त्रासयन् हरिवाहिनीम्।
शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ॥ 6.54.14 ॥
बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च।
विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् ॥ 6.54.15 ॥
त्रस्ताः सर्वे हरिगणाः शरैः सङ्कृत्तकन्धराः।
अङ्गदं सम्प्रधावन्ति प्रजापतिमिव प्रजाः ॥ 6.54.16 ॥
ततो हरिगणान् भग्नान् दृष्ट्वा वालिसुतस्तदा।
क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ॥ 6.54.17 ॥
वज्रदंष्ट्रोऽङ्गदश्चोभौ सङ्गतौ हरिराक्षसौ।
चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ॥ 6.54.18 ॥
ततः शरसहस्रेण वालिपुत्रं महाबलः।
जघान मर्मदेशेषु मातङ्गमिव तोमरैः ॥ 6.54.19 ॥
रुधिरोक्षितसर्वाङ्गो वालिसूनुर्महाबलः।
चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ॥ 6.54.20 ॥
दृष्ट्वाऽऽपतन्तं तं वृक्षमसम्भ्रान्तश्च राक्षसः।
चिच्छेद बहुधा सोऽपि निकृत्तः पतितो भुवि ॥ 6.54.21 ॥
तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः।
प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ॥ 6.54.22 ॥
समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान्।
गदापाणिरसम्भ्रान्तः पृथिव्यां समतिष्ठत ॥ 6.54.23 ॥
साऽङ्गदेन गदाऽऽक्षिप्ता गत्वा तु रणमूर्धनि ॥ 6.54.24 ॥
सचक्रकूबरं साश्वं प्रममाथ रथं तदा ॥ 6.54.25 ॥
ततोऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम्।
वज्रदंष्ट्रस्य शिरसि पातयामास सोऽङ्गदः ॥ 6.54.26 ॥
अभवच्छोणितोद्गारी वज्रदंष्ट्रः स मूर्च्छितः।
मुहूर्तमभवन्मूढो गदामालिङ्ग्य निःश्वसन् ॥ 6.54.27 ॥
जघान परमक्रुद्धो वक्षोदेशे निशाचरः।
गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत ॥ 6.54.28 ॥
रुधिरोद्गारिणो तौ तु प्रहरैर्जनितश्रमौ।
बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ॥ 6.54.29 ॥
ततः परमतेजस्वी अङ्गदः कपिकुञ्जरः।
उत्पाट्य वृक्षं स्थितवान् बहुपुष्पफलाञ्चितम् ॥ 6.54.30 ॥
जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम्।
किङ्किणीजालसञ्छन्नं चर्मणा च परिष्कृतम् ॥ 6.54.31 ॥
विचित्रांश्चेरतुर्मार्गान् रुषितौ कपिराक्षसौ।
जघ्नतुश्च तदाऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ॥ 6.54.32 ॥
व्रणैः सास्त्रैरशोभेतां पुष्पिताविव किंशुकौ।
युद्ध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ॥ 6.54.33 ॥
निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः।
उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ॥ 6.54.34 ॥
निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः।
जघान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः ॥ 6.54.35 ॥
रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा।
सरोषपरिवृत्ताक्षं शुभं खड्गहतं शिरः ॥ 6.54.36 ॥
त्रस्ताः प्रत्यपतन् लङ्कां वध्यमानाः प्लवङ्गमै।
विषण्णवदना दीना ह्रिया किञ्चिदवाङ्मुखाः ॥ 6.54.37 ॥
निहत्य तं वज्रधरप्रभावः स वालिसूनुः कपिसैन्यमध्ये।
जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ॥ 6.54.38 ॥