०५३ रावणेन वज्रदंष्ट्रप्रेषणम्

धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः।
क्रोधेन महताऽऽविष्टो निश्वसन्नुरगो यथा ॥ 6.53.1 ॥
दीर्घमुष्णं विनिश्वस्य क्रोधेन कलुषीकृतः।
अब्रवीद्राक्षसं शूरं वज्रदंष्ट्रं महाबलम् ॥ 6.53.2 ॥
गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः।
जहि दाशरथिं रामं सुग्रीवं वानरैः सह ॥ 6.53.3 ॥
तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः।
निर्जगाम बलै सार्धं बहुभिः परिवारितः ॥ 6.53.4 ॥
नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसामाहितः।
पताकाध्वजचित्रैश्च रथैश्च समलङ्कृतः ॥ 6.53.5 ॥
ततो विचित्रकेयूरमुकुटैश्च विभूषितः।
तनुत्राणि च संरुद्ध्य सधनुर्निर्ययौ द्रुतम् ॥ 6.53.6 ॥
पताकालङ्कृतं दीप्तं तप्तकाञ्चनभूषणम्।
रथं प्रदक्षिणं कृत्वा समारोहच्चमूपतिः ॥ 6.53.7 ॥
यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि।
भिन्दिपालैश्च पाशैश्च शक्तिभिः पट्टिशैरपि ॥ 6.53.8 ॥
पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः।
विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः ॥ 6.53.9 ॥
गजा मदोत्कटाः शूराश्चलन्त इव पर्वताः।
ते युद्धकुशलै रूढास्तोमराङ्कुशपाणिभिः ॥ 6.53.10 ॥
अन्ये लक्षणसंयुक्ताः शूरारूढा महाबलाः ॥ 6.53.11 ॥
तद्राक्षसबलं घोरं विप्रस्थितमशोभत।
प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ॥ 6.53.12 ॥
निस्सृता दक्षिणद्वारादङ्गदो यत्र यूथपः।
तेषां निष्क्रममाणानामशुभं समजायत ॥ 6.53.13 ॥
आकाशाद्विघनात्तीव्रा उल्काश्चाभ्यपतंस्तदा।
वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ॥ 6.53.14 ॥
व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा।
समापतन्तो योधास्तु प्रास्खलन् भयमोहिताः ॥ 6.53.15 ॥
एतानौत्पातिकान् दृष्ट्वा वज्रदंष्ट्रो महाबलः।
धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ॥ 6.53.16 ॥
तांस्तु निष्क्रमतो दृष्ट्वा वानरा जितकाशिनः।
प्रणेदुः सुमहानादान् पूरयंश्च दिशो दश ॥ 6.53.17 ॥
ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह।
घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम् ॥ 6.53.18 ॥
निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः।
रुधिरोक्षितसर्वाङ्गा न्यपतन् जगतीतले ॥ 6.53.19 ॥
केचिदन्योन्यमासाद्य शूराः परिघपाणयः।
चिक्षिपुर्विविधं शस्त्रं समरेष्वनिवर्तिनः ॥ 6.53.20 ॥
द्रुमाणां च शिलानां च शस्त्राणां चापि निस्वनः।
श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः ॥ 6.53.21 ॥
रथनेमिस्वनस्तत्र धनुषश्चापि निस्वनः।
शङ्खभेरीमृदङ्गानां बभूव तुमुलः स्वनः ॥ 6.53.22 ॥
केचिदस्त्राणि संसृज्य बाहुयुद्धमकुर्वत ॥ 6.53.23 ॥
जानुभिश्च हताः केचिद्भिन्नदेहाश्च राक्षसाः।
शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ॥ 6.53.24 ॥
वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन् हरीन्।
चचार लोकसंहारे पाशहस्त इवान्तकः ॥ 6.53.25 ॥
बलवन्तोऽस्त्रविदुषो नानाप्रहरणा रणे।
जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्च्छिताः ॥ 6.53.26 ॥
निघ्नुतो राक्षसान् दृष्ट्वा सर्वान् वालिसुतो रणे।
क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ॥ 6.53.27 ॥
अङ्गदः क्रोधताम्राक्षः सिंहः क्षुद्रमृगानिव।
चकार कदनं घोरं शक्रतुल्यपराक्रमः ॥ 6.53.28 ॥
अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः।
विभिन्नशिरसः पेतुर्विकृत्ता इव पादपाः ॥ 6.53.29 ॥
रथैरश्वैर्ध्वजैश्चित्रैः शरीरैर्हरिरक्षसाम्।
रुधिरेण च सञ्छन्ना भूमिर्भयकरी तदा ॥ 6.53.30 ॥
हारकेयूरवस्त्रैश्च शस्त्रैश्च समलङ्कृता।
भूमिर्भाति रणे तत्र शारदीव यथा निशा ॥ 6.53.31 ॥
अङ्गदस्य च वेगेन तद्राक्षसबलं महत्।
प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ॥ 6.53.32 ॥