धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम्।
विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ॥ 6.52.1 ॥
तेषां सुतुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम्।
अन्योन्यं पादपैर्घोरं निघ्नतां शूलमुद्गरैः ॥ 6.52.2 ॥
घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संहतैः।
राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ॥ 6.52.3 ॥
राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः।
विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः ॥ 6.52.4 ॥
ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः ॥ 6.52.5 ॥
विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः।
अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥ 6.52.6 ॥
शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः।
जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥ 6.52.7 ॥
ते भीमवेगा हरयो नर्दमानास्ततस्ततः।
ममन्थू राक्षसान् भीमान्नामानि च बभाषिरे ॥ 6.52.8 ॥
तद्वभूवाद्भुतं घोरं युद्धं वानररक्षसाम्।
शिलाभिर्विविधाभिश्च बहुभिश्चैव पादपैः ॥ 6.52.9 ॥
राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः।
ववमू रुधिरं केचिन्मुखै रुधिरभोजनाः ॥ 6.52.10 ॥
पार्श्वेषु दारिताः केचित् केचिद्राशीकृता द्रुमैः।
शिलाभिश्चूर्णिताः केचित् केचिद्दन्तैर्विदारिताः ॥ 6.52.11 ॥
ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः।
रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ॥ 6.52.12 ॥
गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम्।
मथितैर्वाजिभिः कीर्णं सारोहैर्वसुधातलम् ॥ 6.52.13 ॥
वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः।
राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ॥ 6.52.14 ॥
विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः।
मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥ 6.52.15 ॥
अन्ये परमसङ्क्रुद्धा राक्षसा भीमनिस्वनाः।
तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ॥ 6.52.16 ॥
मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः।
वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः ॥ 6.52.17 ॥
सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः।
क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् ॥ 6.52.18 ॥
प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः।
मुद्गरैराहताः केचित् पतिता धरणीतले ॥ 6.52.19 ॥
परिघैर्मथिताः केचिद्भिन्दिपालैर्विदारिताः।
पट्टिशैराहताः केचिद्विह्वलन्तो गतासवः ॥ 6.52.20 ॥
केचिद्विनिहताः शूलै रुधिरार्द्रा वनौकसः।
केचिद्विद्राविता नष्टाः सबलै राक्षसैर्युधि ॥ 6.52.21 ॥
विभिन्नहृदयाः केचिदेकपार्श्वेन दारिताः।
विदारिता स्त्रिशूलैश्च केचिदान्त्रैर्विनिःसृताः ॥ 6.52.22 ॥
तत्सुभीमं महायुद्धं हरिराक्षससङ्कुलम्।
प्रबभौ शब्दबहुलं शिलापादपसङ्कुलम् ॥ 6.52.23 ॥
धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम्।
मन्दस्तनितसङ्गीतं युद्धगान्धर्वमाबभौ ॥ 6.52.24 ॥
धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि।
हसन् विद्रावयामास दिशस्तु शरवृष्टिभिः ॥ 6.52.25 ॥
धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः।
अभ्यवर्तत सङ्क्रुद्धः प्रगृह्य विपुलां शिलाम् ॥ 6.52.26 ॥
क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः।
शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ॥ 6.52.27 ॥
आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य सम्भ्रमात्।
रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥ 6.52.28 ॥
सा प्रमथ्य रथं तस्य निपपात शिला भुवि।
सचक्रकूबरं साश्वं सध्वजं सशरासनम् ॥ 6.52.29 ॥
स भङ्क्त्वा तु रथं तस्य हनुमान् मारुतात्मजः।
रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः ॥ 6.52.30 ॥
विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः।
द्रुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले ॥ 6.52.31 ॥
विद्राव्य रासक्षं सैन्यं हनुमान् मारुतात्मजः।
गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ॥ 6.52.32 ॥
तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान्।
विनर्दमानः सहसा हनुमन्तमभिद्रवत् ॥ 6.52.33 ॥
ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम्।
पातयामास धूम्राक्षो मस्तके तु हनूमतः ॥ 6.52.34 ॥
ताडितः स तया तत्र गदया भीमरूपया ॥ 6.52.35 ॥
स कपिर्मारुतबलस्तं प्रहारमचिन्तयन्।
धूम्राक्षस्य शिरोमध्ये गिरिशृङ्गमपातयत् ॥ 6.52.36 ॥
स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः।
पपात सहसा भूमौ विकीर्ण इव पर्वतः ॥ 6.52.37 ॥
धूम्राक्षं निहतं दृष्टवा हतशेषा निशाचराः।
त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ॥ 6.52.38 ॥
स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च सन्निकीर्य।
रिपुवधजनितश्रमो महात्मा मुदमगमत् कपिभिश्च पूज्यमानः ॥ 6.52.39 ॥