तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम्।
नदतां राक्षसैः सार्धं तदा शुश्राव रावणः ॥ 6.51.1 ॥
स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम्।
सचिवानां ततस्तेषां मध्ये वचनमब्रवीत् ॥ 6.51.2 ॥
बहूनां सुमहानादो मेघानामिव गर्जताम्।
व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः ॥ 6.51.3 ॥
तथा हि विपुलैर्नादश्चुक्षुभे वरुणालयः ॥ 6.51.4 ॥
तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ।
अयं च सुमहान्नादः शङ्कां जनयतीव मे ॥ 6.51.5 ॥
एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः।
उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः ॥ 6.51.6 ॥
ज्ञायतां तूर्णमेतेषां सर्वेषां वनचारिणाम्।
शोककाले समुत्पन्ने हर्षकारणमुत्थितम् ॥ 6.51.7 ॥
तथोक्तास्तेन सम्भ्रान्ताः प्राकारमधिरुह्य ते।
ददृशुः पालितां सेनां सुग्रीवेण महात्मना ॥ 6.51.8 ॥
तो च मुक्तौ सुघोरेण शरबन्धेन राघवौ।
समुत्थितौ महावेगौ विषेदुः प्रेक्ष्य राक्षसाः ॥ 6.51.9 ॥
सन्त्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते।
विषण्णवदना घोरा राक्षसेन्द्रमुपस्थिताः ॥ 6.51.10 ॥
तदप्रियं दीनमुखा रावणस्य निशाचराः।
कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः ॥ 6.51.11 ॥
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ।
निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ ॥ 6.51.12 ॥
विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे।
पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ ॥ 6.51.13 ॥
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः।
चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत् ॥ 6.51.14 ॥
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः।
अमोघैः सूर्यसङ्काशैः प्रमथ्येन्द्रजिता युधि ॥ 6.51.15 ॥
तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम।
संशयस्थमिदं सर्वमनुपश्याम्यहं बलम् ॥ 6.51.16 ॥
निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः।
आदत्तं यैः सुसङ्ग्रामे रिपूणां मम जीवितम् ॥ 6.51.17 ॥
एवमुक्त्वा तु सङ्क्रुद्धो निःश्वसन्नुरगो यथा।
अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राक्षसम् ॥ 6.51.18 ॥
बलेन महता युक्तो रक्षसां भीमविक्रम।
त्वं वधायाभिनिर्याहि रामस्य सह वानरैः ॥ 6.51.19 ॥
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता।
कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात् ॥ 6.51.20 ॥
अभिनिष्कम्य तद्द्वारं बलाध्यक्षमुवाच ह।
त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः ॥ 6.51.21 ॥
धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः।
बलमुद्योजयामास रावणस्याज्ञया द्रुतम् ॥ 6.51.22 ॥
विगर्जमानाः संहृष्टा धूम्राक्षं पर्यवारयन्।
विविधायुधहस्ताश्च शूलमुद्गरपाणयः ॥ 6.51.23 ॥
गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैर्भृशम् ॥ 6.51.24 ॥
परिघैर्बिन्दिपालैश्च भल्लैः प्रासैः परश्वधैः।
निर्ययू राक्षसा दिग्भ्योनर्दन्तो जलदा यथा ॥ 6.51.25 ॥
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलङ्कृतैः।
सुवर्णजालविहितैः खरैश्च विविधाननैः ॥ 6.51.26 ॥
हयैः परमशीघ्रैश्च गजैन्द्रैश्च मदोत्कटैः।
निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः ॥ 6.51.27 ॥
वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः।
आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः ॥ 6.51.28 ॥
प्रहसन् पश्चिमद्वारं हनूमान् यत्र यूथपः।
रथप्रवरमास्थाय खरयुक्तं खरस्वनम् ॥ 6.51.29 ॥
प्रयान्तं तु महाघोरं राक्षसं भीमविक्रमम्।
अन्तरिक्षगता घोराः शकुनाः प्रत्यवारयन् ॥ 6.51.30 ॥
रथशीर्षे महान् भीमो गृध्रश्च निपपात ह।
ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः ॥ 6.51.31 ॥
रुधिरार्द्रो महान् श्वेतः कबन्धः पतितो भुवि।
विस्वरं चोत्सृजन्नादं धूम्नाक्षस्य समीपतः ॥ 6.51.32 ॥
ववर्ष रुधिरं देवः सञ्चचाल च मेदिनी।
प्रतिलोभं ववौ वायुर्निर्घातसमनिस्वनः ॥ 6.51.33 ॥
तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे ॥ 6.51.34 ॥
स तूत्पातांस्तदा दृष्ट्वा राक्षसानां भयावहान्।
प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितोऽभवत् ॥ 6.51.35 ॥
मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरस्सराः ॥ 6.51.36 ॥
ततः सुभीमो बहुभिर्निशाचरैर्वृतोऽभिनिष्क्रम्य रणोत्सुको बली।
ददर्श तां राघवबाहुपालितां महौघकल्पां बहुवानरीं चमूम् ॥ 6.51.37 ॥