०५० रामसमीपे गरुडागमनम्

अथोवाच महातेजा हरिराजो महाबलः।
किमियं व्यथिता सेना मूढवातेव नौर्जले ॥ 6.50.1 ॥
सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत् ॥ 6.50.2 ॥
शरजालाचितौ वीरावुभौ दशरथात्मजौ।
शरतल्पे महात्मानौ शयानौ रुधिरोक्षितौ ॥ 6.50.3 ॥
अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम्।
नानिमित्तमिदं मन्ये भवितव्यं भयेन तु ॥ 6.50.4 ॥
विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः।
प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः ॥ 6.50.5 ॥
अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः।
विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च ॥ 6.50.6 ॥
एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः।
सुग्रीवं वर्धयामास राघवं च निरैक्षत ॥ 6.50.7 ॥
विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम्।
ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह ॥ 6.50.8 ॥
विभीषणोऽयं सम्प्रप्तो यं दृष्ट्वा वानरर्षभाः।
विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया ॥ 6.50.9 ॥
शीघ्रमेतान् सुसन्त्रस्तान् बहुधा विप्रधावितान्।
प्रर्यवस्थापयाख्याहि विभीषणमुपस्थितम् ॥ 6.50.10 ॥
सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः।
वानरान् सान्त्वयामास सन्निरुध्य प्रधावतः ॥ 6.50.11 ॥
ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसम्भ्रमाः।
ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम् ॥ 6.50.12 ॥
विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम्।
लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः ॥ 6.50.13 ॥
जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च।
शोकसम्पीडितमना रुरोद विललाप च ॥ 6.50.14 ॥
इमौ तौ सत्त्वसम्पन्नौ विक्रान्तौ प्रियसंयुगौ।
इमामवस्थां गमितौ राक्षसैः कूटयोधिभिः ॥ 6.50.15 ॥
भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना।
राक्षस्या जिह्मया बुद्ध्या चालितावृजुविक्रमौ ॥ 6.50.16 ॥
शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ।
वसुधायामिमौ सुप्तौ दृश्येते शल्यकाविव ॥ 6.50.17 ॥
ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया।
तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ ॥ 6.50.18 ॥
जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः।
प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः ॥ 6.50.19 ॥
एवं विलपमानं तं परिष्वज्य विभीषणम्।
सुग्रीवः सत्त्वसम्पन्नो हरिराजोऽब्रवीदिदम् ॥ 6.50.20 ॥
राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः।
रावणः सह पुत्रेण सकामं नेह लप्स्यते ॥ 6.50.21 ॥
न रुजा पीडितावेतावुभौ राघवलक्ष्मणौ।
त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे ॥ 6.50.22 ॥
तमेनं सान्त्वयित्वा तु समाश्वास्य च राक्षसम्।
सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह ॥ 6.50.23 ॥
सह शूरैर्हरिगणैर्लब्धसञ्ज्ञावरिन्दमौ।
गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ ॥ 6.50.24 ॥
मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम्।
श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत् ॥ 6.50.25 ॥
दैवासुरं महद्युद्धमनुभूतं सुदारुणम्।
तदा स्म दानवा देवान् शरसंस्पर्शकोविदाः ॥ 6.50.26 ॥
निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः ॥ 6.50.27 ॥
तानार्तान्नष्टसञ्ज्ञांश्च परासूंश्च बृहस्पतिः।
विद्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति ॥ 6.50.28 ॥
जवेन वानराः शीघ्रं सम्पातिपनसादयः।
हरयस्तु विजानन्ति पार्वतीस्ता महौषधीः ॥ 6.50.29 ॥
सञ्जीवकरणीं दिव्यां विशल्यां देवनिर्मिताम् ॥ 6.50.30 ॥
चन्द्रश्च नाम द्रोणश्च क्षीरोदे सागरोत्तमे।
अमृतं यत्र मथितं तत्र ते परमौषधी ॥ 6.50.31 ॥
अयं वायुसुतो राजन् हनुमांस्तत्र गच्छतु ॥ 6.50.32 ॥
एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः।
पर्यस्यन् सागरे तोयं कम्पयन्निव मेदिनीम् ॥ 6.50.33 ॥
महता पक्षवातेन सर्वद्वीपमहाद्रुमाः।
निपेतुर्भिन्नविटपाः समूला लवणाम्भसि ॥ 6.50.34 ॥
अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः।
शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम् ॥ 6.50.35 ॥
ततो मुहूर्ताद्गरुडं वैनतेयं महाबलम्।
वानरा ददृशुः सर्वेज्वलन्तमिव पावकम् ॥ 6.50.36 ॥
तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः।
यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ ॥ 6.50.37 ॥
ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्दितः।
विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे ॥ 6.50.38 ॥
वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः।
सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः ॥ 6.50.39 ॥
तेजो वीर्यं बलं चौज उत्साहश्च महागुणः।
प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः ॥ 6.50.40 ॥
तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ।
उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह ॥ 6.50.41 ॥
भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत्।
आवामिह व्यतिक्रान्तौ पूर्ववद्बलिनौ कृतौ ॥ 6.50.42 ॥
यथा तातं दशरथं यथाऽजं च पितामहम्।
तथा भवन्तमासाद्य हृदयं मे प्रसीदति ॥ 6.50.43 ॥
को भवान् रूपसम्पन्नो दिव्यस्रगनुलेपनः।
वसानो विरजे वस्त्रे दिव्याभरणभूषितः ॥ 6.50.44 ॥
तमुवाच महातेजा वैनतेयो महाबलः।
पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः ॥ 6.50.45 ॥
अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः।
गरुत्मानिह सम्प्राप्तो युवाभ्यां साह्यकारणात् ॥ 6.50.46 ॥
असुरा वा महावीर्या दानवा वा महाबलाः।
सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम् ॥ 6.50.47 ॥
नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम्।
मायाबलादिन्द्रजिता निर्मितं क्रूरकर्मणा ॥ 6.50.48 ॥
एते नागाः काद्रवेया स्तीक्ष्णदंष्ट्रा विषोल्बणाः।
रक्षोमायाप्रभावेन शरा भूत्वा त्वदाश्रिताः ॥ 6.50.49 ॥
सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम।
लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना ॥ 6.50.50 ॥
इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः।
सहसा युवयोः स्नेहात् सखित्वमनुपालयन् ॥ 6.50.51 ॥
मोक्षितौ च महाघोरादस्मात् सायकबन्धनात्।
अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि ॥ 6.50.52 ॥
प्रकृत्या राक्षसाः सर्वे सङ्ग्रामे कूटयोधिनः।
शूराणां शुद्धभावानां भवतामार्जवं बलम् ॥ 6.50.53 ॥
तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे।
एतेनैवोपमानेन नित्यं जिह्मा हि राक्षसाः ॥ 6.50.54 ॥
एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः।
परिष्वज्य सुहृत् स्निग्धमाप्रष्टुमुपचक्रमे ॥ 6.50.55 ॥
सखे राघव धर्मज्ञ रिपूणामपि वत्सल।
अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम् ॥ 6.50.56 ॥
न च कौतूहलं कार्यं सखित्वं प्रति राघव।
कृतकर्मा रणे वीरः सखित्वमनुवेत्स्यसि ॥ 6.50.57 ॥
बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः।
रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे ॥ 6.50.58 ॥
इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः।
रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम् ॥ 6.50.59 ॥
प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान्।
जगामाकाशमाविश्य सुपर्णः पवनो यथा ॥ 6.50.60 ॥
विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः।
सिंहनादांस्तदा नेदुर्लाङ्गूलान् दुधुवुस्तदा ॥ 6.50.61 ॥
ततो भेरीः समाजघ्नुर्मृदङ्गांश्चाप्यनादयन्।
दध्मुः शङ्खान् सम्प्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम् ॥ 6.50.62 ॥
आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः।
द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः ॥ 6.50.63 ॥
विसृजन्तो महानादांस्त्रासयन्तो निशाचरान्।
लङ्काद्वारण्युपाजग्मुर्योद्धुकामाः प्लवङ्गमाः ॥ 6.50.64 ॥
ततस्तु भीमस्तुमुलो निनादो बभूव शाखामृगयूथपानाम्।
क्षये निदाघस्य यथा घनानां नादः सुभीमो नदतां निशीथे ॥ 6.50.65 ॥