घोरेण शरबन्धेन बद्धौ दशरथात्मजौ।
निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ ॥ 6.49.1 ॥
सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः।
परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः ॥ 6.49.2 ॥
एतस्मिन्नन्तरे रामः प्रत्यबुध्यत वीर्यवान्।
स्थिरत्वात् सत्त्वयोगाच्च शरैः सन्दानितोऽपि सन् ॥ 6.49.3 ॥
ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम्।
भ्रातरं दीनवदनं पर्यदेवयदातुरः ॥ 6.49.4 ॥
किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा।
शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम् ॥ 6.49.5 ॥
शक्या सीतासमा नारी मर्त्यलोके विचिन्वता।
न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः ॥ 6.49.6 ॥
परित्यक्ष्याम्यहं प्राणं वानराणां तु पश्यताम्।
यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः ॥ 6.49.7 ॥
किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्।
कथमम्भां सुमित्रां च पुत्रदर्शनलालसाम् ॥ 6.49.8 ॥
विवत्सां वेपमानां च क्रोशन्तीं कुररीमिव।
कथमाश्वासयिष्यामि यदा यास्यामि तं विना ॥ 6.49.9 ॥
कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम् ॥ 6.49.10 ॥
मया सह वनं यातो विना तेन गतः पुनः।
उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया ॥ 6.49.11 ॥
इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे ॥ 6.49.12 ॥
धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ।
लक्ष्मणः पतितः शेते शरतल्पे गतासुवत् ॥ 6.49.13 ॥
त्वं नित्यं स विषण्णं मामाश्वासयसि लक्ष्मण।
गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम् ॥ 6.49.14 ॥
येनाद्य निहता युद्धे राक्षसा विनिपातिताः।
तस्यमेव क्षितौ वीरः स शेते निहतः परैः ॥ 6.49.15 ॥
शयानः शरतल्पेऽस्मिन् स्वशोणितपरिप्लुतः।
शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन् ॥ 6.49.16 ॥
बाणाभिहतमर्मत्वान्न शक्नोत्यभिभाषितुम्।
रुजा चाब्रुवतोऽप्यस्य दृष्टिरागेण सूच्यते ॥ 6.49.17 ॥
यथैव मां वनं यान्तमनुयातो महाद्युतिः।
अहमप्यनुयास्यामि तथैवैनं यमक्षयम् ॥ 6.49.18 ॥
इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः।
इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः ॥ 6.49.19 ॥
सुरुष्टेनापि वीरेण लक्ष्मणेन न संस्मरे।
परुषं विप्रियं वापि श्रावितं तु कदाचन ॥ 6.49.20 ॥
विससर्जैकवेगेन पञ्चबाणशतानि यः।
इष्वस्त्रेष्वधिकस्तस्मात् कार्तवीर्याच्च लक्ष्मणः ॥ 6.49.21 ॥
अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः।
सोऽयमुर्व्यां हतः शेते महार्हशयनोचितः ॥ 6.49.22 ॥
यन्मया न कृतो राजा राक्षसानां विभीषणः।
तच्च मिथ्याप्रलप्तं मां प्रधक्ष्यति न संशयः ॥ 6.49.23 ॥
अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि।
मत्वा हीनं मया राजन् रावणोऽभिद्रवेद्बली ॥ 6.49.24 ॥
अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः।
सागरं तर सुग्रीव नीलेन च नलेन च ॥ 6.49.25 ॥
कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे।
ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च ॥ 6.49.26 ॥
अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च।
युद्धं केसरिणा सङ्ख्ये घोरं सम्पातिना कृतम् ॥ 6.49.27 ॥
अन्यैश्च हरिभिर्युद्धं मदर्थे त्यक्तजीवितैः।
न चातिक्रमितुं शक्यं दैवं सुग्रीवमानुषैः ॥ 6.49.28 ॥
यत्तु शक्यं वयस्येन सुहृदा च परन्तप।
कृतं सुग्रीव तत्सर्वं भवता धर्मभीरुणा ॥ 6.49.29 ॥
मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः।
अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ ॥ 6.49.30 ॥
शुश्रुवस्तस्य ते सर्वे वानराः परिदेवनम्।
वर्तयाञ्चकुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः ॥ 6.49.31 ॥
ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः।
आजगाम गदापाणिस्त्वरितो यत्र राघवः ॥ 6.49.32 ॥
तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम्।
वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम् * ॥ 6.49.33 ॥