०४८ त्रिजटया सीतासमाश्वासनम्

भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महावलम्।
विललाप भृशं सीता करुणं शोककर्शिता ॥ 6.48.1 ॥
ऊचुर्लक्षणिनो ये मां पुत्रिण्यविधवेति च।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ 6.48.2 ॥
यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ 6.48.3 ॥
ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम्।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ 6.48.4 ॥
वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः।
तेऽद्य सर्वे हते रामे ज्ञानिनोऽनृतवादिनः ॥ 6.48.5 ॥
इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः।
आधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह ॥ 6.48.6 ॥
वैधव्यं यान्ति यैर्नार्यो लक्षणैर्भाग्यदुर्लभाः।
नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा ॥ 6.48.7 ॥
सत्यनामानि पद्मानि स्त्रीणामुक्तानि लक्षणैः।
तान्यद्य निहते रामे वितथानि भवन्ति मे ॥ 6.48.8 ॥
केशाः सूक्ष्माः समा नीला भ्रुवौ चासङ्गते मम।
वृत्ते चारोमशे जङ्घे दन्ताश्चाविरला मम ॥ 6.48.9 ॥
शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ।
अनुवृत्तनखाः स्निग्धाः समाश्चाङ्गुलयो मम ॥ 6.48.10 ॥
स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ।
मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्काश्च मे चिताः ॥ 6.48.11 ॥
मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च।
प्रतिष्ठितां द्वादशभिर्मामूचुः शुभलक्षणाम् ॥ 6.48.12 ॥
समग्रयवमच्छिद्रं पाणिपादं च वर्णवत्।
मन्दस्मितेत्येव च मां कन्यालक्षणिनो द्विजाः ॥ 6.48.13 ॥
आधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह।
कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम् ॥ 6.48.14 ॥
शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च।
तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ ॥ 6.48.15 ॥
ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च।
अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम् ॥ 6.48.16 ॥
अदृश्यमानेन रणे मायया वासवोपमौ।
मम नाथावनाथाया निहतौ रामलक्ष्मणौ ॥ 6.48.17 ॥
न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः।
जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः ॥ 6.48.18 ॥
न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः।
यत्र रामः सह भ्रात्रा शेते युधि निपातितः ॥ 6.48.19 ॥
न शोचामि तथा रामं लक्ष्मणं च महाबलम्।
नात्मानं जननीं वापि यथा श्वश्रूं तपस्विनीम् ॥ 6.48.20 ॥
साऽनुचिन्तयते नित्यं समाप्तव्रतमागतम्।
कदा द्रक्ष्यामि सीतां च लक्ष्मणं च सराघवम् ॥ 6.48.21 ॥
परिदेवयमानां तां राक्षसी त्रिजटाऽब्रवीत् ॥ 6.48.22 ॥
मा विषादं कृथा देवि भर्ताऽयं तव जीवति ॥ 6.48.23 ॥
कारणानि च वक्ष्यामि महान्ति सदृशानि च।
यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ ॥ 6.48.24 ॥
नहि कोपपरीतानि हर्षपर्युत्सुकानि च।
भवन्ति युधि योधानां मुखानि निहते पतौ ॥ 6.48.25 ॥
इदं विमानं वैदेहि पुष्पकं नाम नामतः।
दिव्यं त्वां धारयेन्नैवं यद्येतौ गतजीवितौ ॥ 6.48.26 ॥
हतवीरप्रधानां हि हतौत्साहा निरुद्यमा।
सेना भ्रमति सङ्ख्येषु हतकर्णेव नौर्जले ॥ 6.48.27 ॥
इयं पुनरसम्भ्रान्ता निरुद्विग्ना तरस्विनी।
सेना रक्षति काकुत्स्थौ मया प्रीत्या निवेदितौ ॥ 6.48.28 ॥
सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः।
अहतौ पश्य काकुत्स्थौ स्नेहादेतद् ब्रवीमि ते ॥ 6.48.29 ॥
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन।
चारित्रसुखशीलत्वात् प्रविष्टाऽसि मनो मम ॥ 6.48.30 ॥
तादृशं दर्शनं दृष्ट्वा मया चावेदितं तव।
इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि ॥ 6.48.31 ॥
प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम्।
दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम् ॥ 6.48.32 ॥
त्यज शोकं च मोहं च दुःखं च जनकात्मजे।
रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम् ॥ 6.48.33 ॥
श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा।
कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली ॥ 6.48.34 ॥
विमानं पुष्पकं तत्तु सन्निवर्त्य मनोजवम्।
दीना त्रिजटया सीता लङ्कामेव प्रवेशिता ॥ 6.48.35 ॥
ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा।
अशोकवनिकामेव राक्षसीभिः प्रवेशिता ॥ 6.48.36 ॥
प्रविश्य सीता बहुवृक्षषण्डां तां राक्षसेन्द्रस्य विहारभूमिम्।
सम्प्रेक्ष्य सञ्चिन्त्य च राजपुत्रौ परं विषादं समुपाजगाम ॥ 6.48.37 ॥