प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे।
राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ॥ 6.47.1 ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः।
जाम्बवानृषभः स्कन्धो रम्भः शतवलिः पृथुः ॥ 6.47.2 ॥
वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः।
तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ॥ 6.47.3 ॥
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम्।
आजुहाव ततः सीतारक्षिणी राक्षसीस्तदा ॥ 6.47.4 ॥
राक्षस्यस्त्रिजटा चैव शासनात् समुपस्थिताः ॥ 6.47.5 ॥
ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ॥ 6.47.6 ॥
हताविन्द्रजिताऽऽख्यात वैदेह्या रामलक्ष्मणौ।
पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ॥ 6.47.7 ॥
यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति।
सोऽस्या भर्त्ता सह भ्रात्रा निरस्तो रणमूर्धनि ॥ 6.47.8 ॥
निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली।
मामुपस्थास्यते सीता सर्वाभरणभूषिता ॥ 6.47.9 ॥
अवेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती।
निरपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् ॥ 6.47.10 ॥
तस्य तद्वचनं च श्रुत्वा रावणस्य दुरात्मनः।
राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम् ॥ 6.47.11 ॥
ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया।
अशोकवनिकास्थां तां मैथिलीं समुपानयन् ॥ 6.47.12 ॥
तामादाय तु राक्षस्यो भर्तृशोकपराजिताम्।
सीतामारोपयामासुर्विमानं पुष्पकं तदा ॥ 6.47.13 ॥
ततः पुष्पकमारोप्य सीतां त्रिजटया सह।
जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ ॥ 6.47.14 ॥
प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः।
राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ॥ 6.47.15 ॥
विमानेनापि सीता तु गत्वा त्रिजटया सह।
ददर्श वानराणां तु सर्वं सैन्यं निपातितम् ॥ 6.47.16 ॥
प्रहृष्टमनसश्चापि ददर्श पिशिताशनान्।
वानरांश्चापि दुःखार्तान् रामलक्ष्मणपार्श्वतः ॥ 6.47.17 ॥
ततः सीता ददर्शोभौ शयानौ शरतल्पयोः।
लक्ष्मणं चापि रामं च विसञ्ज्ञौ शरपीडितौ ॥ 6.47.18 ॥
विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ।
सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ ॥ 6.47.19 ॥
तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ।
शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ॥ 6.47.20 ॥
शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ।
दुःखार्ता सुभृशं सीता सुचिरं विललाप ह ॥ 6.47.21 ॥
भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा।
प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा ॥ 6.47.22 ॥
सा बाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ।
वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद ॥ 6.47.23 ॥