०४६ रावणेन इन्द्रजित्प्रशंसनम्

ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः।
ददृशुः सन्ततौ बाणैर्भ्रातरौ रामलक्ष्मणौ ॥ 6.46.1 ॥
वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे।
आजगामाथ तं देशं ससुग्रीवो विभीषणः ॥ 6.46.2 ॥
नीलद्विविदमैन्दाश्च सुषेणकुमुदाङ्गदाः।
तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ ॥ 6.46.3 ॥
अचेष्टौ मन्दनिश्वासौ शोणितौघपरिप्लुतौ।
शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः ॥ 6.46.4 ॥
निश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ।
रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ ॥ 6.46.5 ॥
तौ वीरशयने वीरौ शयनौ मन्दचेष्टितौ।
यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः ॥ 6.46.6 ॥
राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ।
बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः ॥ 6.46.7 ॥
अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः।
न चैनं मायया च्छन्नं ददृशू रावणिं रणे ॥ 6.46.8 ॥
त तु मायाप्रतिच्छन्नं माययैव विभीषणः।
वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम् ॥ 6.46.9 ॥
तमप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे।
ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः ॥ 6.46.10 ॥
तेजसा यशसा चैव विक्रमेण च संयुतम् ॥ 6.46.11 ॥
इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च।
उवाच परमप्रीतो हर्षयन् सर्वनैर्ऋतान् ॥ 6.46.12 ॥
दूषणस्य च हन्तारौ खरस्य च महाबलौ।
सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्णौ ॥ 6.46.13 ॥
नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात्।
सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः ॥ 6.46.14 ॥
यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम।
अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वरी ॥ 6.46.15 ॥
कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला।
सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया ॥ 6.46.16 ॥
रामस्य लक्ष्मणस्यापि सर्वेषां च वनौकसाम्।
विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः ॥ 6.46.17 ॥
एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वतः।
यूथपानपि तान् सर्वांस्ताडयामास रावणिः ॥ 6.46.18 ॥
नीलं नवभिराहत्य मैन्दं च द्विविदं तथा।
त्रिभिस्त्रिभिरमित्रघ्नस्तताप प्रवरेषुभिः ॥ 6.46.19 ॥
जाम्बवन्तं महेष्वासो विद्ध्वा बाणेन वक्षसि।
हनूमतो वेगवतो विससर्ज शरान् दश ॥ 6.46.20 ॥
गवाक्षं शरभं चैव द्वावप्यमिततेजसौ।
द्वाभ्यां द्वाभ्यां महावेगो विव्याध युधि रावणिः ॥ 6.46.21 ॥
गोलाङ्गूलेश्वरं चैव वालिपुत्रमथाङ्गदम्।
विव्याध बहुभिर्बाणैस्त्वरमाणोऽथ रावणिः ॥ 6.46.22 ॥
तान् वानरवरान् भित्त्वा शरैरग्निशिखोपमैः।
ननाद बलवांस्तत्र महासत्त्वः स रावणिः ॥ 6.46.23 ॥
तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान्।
प्रजहास महाबाहुर्वचनं चेदमब्रवीत् ॥ 6.46.24 ॥
शरबन्धेन घोरेण मया बद्धौ चमूमुखे।
सहितौ भ्रातरावेतौ निशामयत राक्षसाः ॥ 6.46.25 ॥
एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः।
परं विस्मयमाजग्मुः कर्मणा तेन हर्षिताः ॥ 6.46.26 ॥
विनेदुश्च महानादान् सर्वतो जलदोपमाः।
हतो राम इति ज्ञात्वा रावणिं समपूजयन् ॥ 6.46.27 ॥
निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ।
वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत ॥ 6.46.28 ॥
हर्षेण तु समाविष्ट इन्द्रजित् समितिञ्जयः।
प्रविवेश पुरीं लङ्कां हर्षयन् सर्वराक्षसान् ॥ 6.46.29 ॥
रामलक्ष्मणयोर्द्दष्ट्वा शरीरे सायकैश्चिते।
सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत् ॥ 6.46.30 ॥
तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः।
सबाष्पवदनं दीनं शोकव्याकुललोचनम् ॥ 6.46.31 ॥
अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम्।
एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः ॥ 6.46.32 ॥
सशेषभाग्यताऽस्माकं यदि वीर भविष्यति।
मोहमेतौ प्रहास्येते महात्मानौ महाबलौ ॥ 6.46.33 ॥
पर्यवस्थापयात्मानमनाथं मां च वानर।
सत्यधर्माभिरक्तानां नास्ति मृत्युकृतं भयम् ॥ 6.46.34 ॥
एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना।
सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभिषणः ॥ 6.46.35 ॥
ततः सलिलमादाय विद्यया परिजप्य च।
सुग्रीवनेत्रे धर्मात्मा स ममार्ज विभीषणः ॥ 6.46.36 ॥
प्रमृज्य वदनं तस्य कपिराजस्य धीमतः।
अब्रवीत् कालसम्प्राप्तमसम्भ्रममिदं वचः ॥ 6.46.37 ॥
न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम्।
अतिस्नेहोऽप्यकालेऽस्मिन् मरणायोपकल्पते ॥ 6.46.38 ॥
तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम्।
हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम् ॥ 6.46.39 ॥
अथवा रक्ष्यतां रामो यावत् सञ्ज्ञाविपर्ययः।
लब्धसञ्ज्ञौ हि काकुत्स्थौ भयं नो व्यपनेष्यतः ॥ 6.46.40 ॥
नैतत् किञ्चन रामस्य न च रामो मुमूर्षति।
न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम् ॥ 6.46.41 ॥
तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम्।
यावत् कार्याणि सर्वाणि पुनः संस्थापयाम्यहम् ॥ 6.46.42 ॥
एते हि फुल्लनयनास्त्रासादागतसाध्वसाः।
कर्णे कर्णे प्रकथिता हरयो हरिसत्तम ॥ 6.46.43 ॥
मां तु दृष्ट्वा प्रधावन्तमनीकं सम्प्रहर्षितुम्।
त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम् ॥ 6.46.44 ॥
समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः।
विद्रुतं वानरानीकं तत्समाश्वासयत् पुनः ॥ 6.46.45 ॥
इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः।
विवेश नगरीं लङ्कां पितरं चाभ्युपागमत् ॥ 6.46.46 ॥
तत्र रावणमासीनमभिवाद्य कृताञ्जलिः।
आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ ॥ 6.46.47 ॥
रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ।
उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः ॥ 6.46.48 ॥
पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत्।
यथा तौ शरबन्धेन निश्चेष्टौ निष्प्रभौ कृतौ ॥ 6.46.49 ॥
स हर्षवेगानुगतान्तरात्मा श्रुत्वा वचस्तस्य महारथस्य।
जहौ ज्वरं दाशरथेः समुत्थितं प्रहृष्य वाचाऽभिननन्द पुत्रम् ॥ 6.46.50 ॥