०४५ राघव-इन्द्रजिद्युद्धम्

स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान्।
दिदेशातिबलो रामो दश वानरयूथपान् ॥ 6.45.1 ॥
द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम्।
अङ्गदं वालिपुत्रं च शरभं च तरस्विनम् ॥ 6.45.2 ॥
विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम्।
ऋषभं चर्षभस्कन्धमादिदेश परन्तपः ॥ 6.45.3 ॥
ते सम्प्रहृष्टा हरयो भीमानुद्यम्य पादपान्।
आकाशं विविशुः सर्वे मार्गमाणा दिशो दश ॥ 6.45.4 ॥
तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः।
अस्त्रवित् परमास्त्रैस्तु वारयामास रावणिः ॥ 6.45.5 ॥
तं भीमवेगा हरयो नाराचैः क्षतविग्रहाः।
अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम् ॥ 6.45.6 ॥
रामलक्ष्मणयोरेव सर्वदेहभिदः शरान्।
भृशमावेशयामास रावणिः समितिञ्जयः ॥ 6.45.7 ॥
निरन्तरशरीरौ तौ भ्रातरौ रामलक्ष्णौ।
क्रुद्धेनेन्द्रजिता वीरौ पन्नगैः शरतां गतैः ॥ 6.45.8 ॥
तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु।
तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ ॥ 6.45.9 ॥
ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः।
रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत् ॥ 6.45.10 ॥
युद्ध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः।
द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम् ॥ 6.45.11 ॥
प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा।
एष रोषपरीतात्मा नयामि यमसादनम् ॥ 6.45.12 ॥
एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ।
निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च ॥ 6.45.13 ॥
भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः।
भूयो भूयः शरान् घोरान् विससर्ज महामृधे ॥ 6.45.14 ॥
ततो मर्मसु मर्मज्ञो मज्जयन्निशितान् शरान्।
रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः ॥ 6.45.15 ॥
बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि।
निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम् ॥ 6.45.16 ॥
ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ।
ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ ॥ 6.45.17 ॥
तौ सम्प्रचलितौ वीरौ मर्मभेदेन कर्शितौ।
निपेततुर्महेष्वासौ जगत्यां जगतीपती ॥ 6.45.18 ॥
तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ।
शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ ॥ 6.45.19 ॥
न ह्यविद्धं तयोर्गात्रे बभूवाङ्गुलमन्तरम्।
नानिर्भिन्नं न चास्तब्धमाकराग्रादजिह्मगैः ॥ 6.45.20 ॥
तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा।
असृक् सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव ॥ 6.45.21 ॥
पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः।
क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः ॥ 6.45.22 ॥
नाराचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि।
विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा ॥ 6.45.23 ॥
स वीरशयने शिश्ये विज्यमादाय कार्मुकम्।
भिन्नमुष्टिपरीणाहं त्रिनतं रत्नभूषितम् ॥ 6.45.24 ॥
बाणपातान्तरे रामं पतितं पुरुषर्षभम्।
स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत् ॥ 6.45.25 ॥
रामं कमलपत्राक्षं शरबन्धपरिक्षतम्।
शुशोच भ्रातरं दृष्ट्वा पतितं घरणीतले ॥ 6.45.26 ॥
हरयश्चापि तं दृष्ट्वा सन्तापं परमं गताः ॥ 6.45.27 ॥
बद्धौ तु वीरौ पतितौ शयानौ तौ वानराः सम्परिवार्य तस्थुः।
समागता वायुसुतप्रमुख्या विषादमार्ताः परमं च जग्मुः ॥ 6.45.28 ॥