युद्ध्यतामेव तेषां तु तदा वानररक्षसाम्।
रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी ॥ 6.44.1 ॥
अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम्।
सम्प्रवृत्तं निशायुद्धं तदा वानररक्षसाम् ॥ 6.44.2 ॥
राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः।
अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे ॥ 6.44.3 ॥
जहि दारय चैहीति कथं विद्रवसीति च।
एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे ॥ 6.44.4 ॥
कालाः काञ्चनसन्नाहास्तस्मिंस्तमसि राक्षसाः।
सम्प्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव ॥ 6.44.5 ॥
तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्च्छिताः।
परिपेतुर्महावेगा भक्षयन्तः प्लवङ्गमान् ॥ 6.44.6 ॥
ते हयान् काञ्चनापीडान् ध्वजांश्चाग्निशिखोपमान्।
आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन् ॥ 6.44.7 ॥
कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो स्थान्।
चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्च्छिताः ॥ 6.44.8 ॥
लक्ष्मणश्चापि रामश्च शरैराशीविषोपमैः।
दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः ॥ 6.44.9 ॥
तुरङ्गखुरविध्वस्तं रथनेमिसमुत्थितम्।
रुरोध कर्णनेत्राणि युद्ध्यतां धरणीरजः ॥ 6.44.10 ॥
वर्तमाने महाघोरे सङ्ग्रामे रोमहर्षणे।
रुधिरोदा महाघोरा नद्यस्तत्र प्रसुस्रुवुः ॥ 6.44.11 ॥
शङ्खवेणुस्वनोन्मिश्रः सम्बभूवाद्भुतोपमः।
[विमर्दे तुमुले तस्मिन् देवासुररणोपमे।] ॥ 6.44.12 ॥
हतानां स्तनमानानां राक्षसानां च निस्वनः।
शस्तानां वानराणां च सम्बभूवातिदारुणः ॥ 6.44.13 ॥
हतैर्वानरवीरैश्च शक्तिशूलपरश्वधैः।
निहतैः पर्वताग्रैश्च राक्षसैः कामरूपिभिः ॥ 6.44.14 ॥
शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी।
दुर्ज्ञेया दुर्निवेशा च शोणितास्रावकर्दमा ॥ 6.44.15 ॥
सा बभूव निशा घोरा हरिराक्षसहारिणी।
कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा ॥ 6.44.16 ॥
ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे।
राममेवाभ्यवर्तन्त संसृष्टाः शरवृष्टिभिः ॥ 6.44.17 ॥
तेषामापततां शब्दः क्रुद्धानामपि गर्जताम्।
उद्वर्त इव सप्तानां समुद्राणां प्रशुश्रुवे ॥ 6.44.18 ॥
तेषां रामः शरैष्षङ्भिष्षड् जघान निशाचरान्।
निमेषान्तरमात्रेण शितैरग्निशिखोपमैः ॥ 6.44.19 ॥
यमशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ।
वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ ॥ 6.44.20 ॥
ते तु रामेण बाणौघैः सर्वे मर्मसु ताडिताः।
युद्धादपसृतास्तत्र सावशेषायुषोऽभवन् ॥ 6.44.21 ॥
दिशश्चकार विमलाः प्रदिशश्च महाबलः।
[रामनामाङ्कितैर्बाणैर्व्याप्तं तद्रणमण्डलम् ] ॥ 6.44.22 ॥
ये त्वन्ये राक्षसा भीमा रामस्याभिमुखे स्थिताः।
तेऽपि नष्टाः समासाद्य पतङ्ग इव पावकम् ॥ 6.44.23 ॥
सुवर्णपुङ्खैर्विशिखैः सम्पतद्भिः सहस्रशः।
बभूव रजनी चित्रा खद्योतैरिव शारदी ॥ 6.44.24 ॥
राक्षसानां च निनदैर्हरीणां चापि निस्वनैः।
सा बभूव निशा घोरा भूयो घोरतरा तदा ॥ 6.44.25 ॥
तेन शब्देन महता प्रवृद्धेन समन्ततः।
त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः ॥ 6.44.26 ॥
गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः।
सम्परिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान् ॥ 6.44.27 ॥
अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः।
रावणिं निजघानाशु सारथिं च हयानपि ॥ 6.44.28 ॥
इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः।
अङ्गदेन महाकायस्तत्रैवान्तरधीयत ॥ 6.44.29 ॥
तत्कर्म वालिपुत्रस्य सर्वे देवाः सहर्षिभिः।
तुष्टुवुः पूजनार्हस्य तौ चोभौ रामलक्ष्मणौ ॥ 6.44.30 ॥
[अदृश्यः सर्वभूतानां योऽभवद्युधि दुर्जयः।] तेन ते तं महात्मानं तुष्टा दृष्ट्वा प्रधर्षितम् ॥ 6.44.31 ॥
ततः प्रहृष्टाः कपयः ससुग्रीवविभीषणाः।
साधु साध्विति नेदुश्च दृष्ट्वा शत्रुं प्रधर्षितम् ॥ 6.44.32 ॥
इन्द्रजित्तु तदा तेन निर्जितो भीमकर्मणा।
संयुगे वालिपुत्रेण क्रोधं चक्रे सुदारुणम् ॥ 6.44.33 ॥
एतस्मिन्नन्तरे रामो वानरान् वाक्यमब्रवीत् ॥ 6.44.34 ॥
सर्वे भवन्तस्तिष्ठन्तु कपिराजेन सङ्गताः ॥ 6.44.35 ॥
भवतामर्थसिद्ध्यर्थं कालेन स समागतः।
अद्यैव क्षमितव्यं मे भवन्तो विगतज्वराः ॥ 6.44.36 ॥
सोऽन्तर्धानगतः पापो रावणी रणकर्कशः।
अदृश्यो निशितान् बाणान् मुमोचाशनिवर्चसः ॥ 6.44.37 ॥
स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः।
बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः ॥ 6.44.38 ॥
अदृश्यः सर्वभूतानां कूटयोधी निशाचरः।
बबन्ध शरबन्धेन भ्रातरौ रामलक्ष्मणौ ॥ 6.44.39 ॥
तौ तेन पुरुषव्याघ्रौ क्रुद्धेनाशीविषैः शरैः।
सहसा निहतौ वीरौ तदा प्रैक्षन्त वानराः ॥ 6.44.40 ॥
प्रकाशरूपस्तु यदा न शक्तस्तौ बाधितुं राक्षसराजपुत्रः।
मायां प्रयोक्तुं समुपाजगाम बबन्ध तौ राजसुतौ महात्मा ॥ 6.44.41 ॥