युद्ध्यातां तु ततस्तेषां वानराणां महात्मनाम्।
रक्षसां सम्बभूवाथ बलकोपः सुदारुणः ॥ 6.43.1 ॥
ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः।
रथैश्चादित्यसङ्काशैः कवचैश्च मनोरमैः ॥ 6.43.2 ॥
निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश।
राक्षसा भीमकर्माणो रावणस्य जयैषिणः ॥ 6.43.3 ॥
वानराणामपि चमूर्बृहती जयमिच्छताम्।
अभ्यधावत तां सेनां रक्षसां कामरूपिणाम् ॥ 6.43.4 ॥
एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम्।
रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत ॥ 6.43.5 ॥
अङ्गदेनेन्द्रजित् सार्धं वालिपुत्रेण राक्षसः।
अयुध्यत महातेजास्त्र्यम्बकेण यथाऽन्तकः ॥ 6.43.6 ॥
प्रजङ्घेन च सम्पातिर्नित्यं दुर्मर्षणो रणे।
जम्बुमालिनमारब्धो हनुमानपि वानरः ॥ 6.43.7 ॥
सङ्गतः सुमहाक्रोधो राक्षसो रावणानुजः।
समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः ॥ 6.43.8 ॥
तपनेन गजः सार्धं राक्षसेन महाबलः।
निकुम्भेन महातेजा नीलोऽपि समयुद्ध्यत ॥ 6.43.9 ॥
वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः।
सङ्गतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः ॥ 6.43.10 ॥
आग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः।
सुप्तघ्नो यज्ञकोपश्च रामेण सह सङ्गताः ॥ 6.43.11 ॥
वज्रमुष्टिस्तु मैन्देन द्विविदानशनिप्रभः।
राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ ॥ 6.43.12 ॥
वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः।
समरे तीक्ष्णवेगेन नलेन समयुद्ध्यत ॥ 6.43.13 ॥
धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः।
स विद्युन्मालिना सार्धमयुध्यत महाकपिः ॥ 6.43.14 ॥
वानराश्चापरे भीमा राक्षसैरपरैः सह।
द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह ॥ 6.43.15 ॥
तत्रासीत् सुमहद्युद्धं तुमुलं रोमहर्षणम्।
रक्षसां वानराणां च वीराणां जयमिच्छताम् ॥ 6.43.16 ॥
हरिराक्षसदेहेभ्यः प्रभृताः केशशाद्वलाः।
शरीरसङ्घाटवहाः प्रसस्रुः शोणितापगाः ॥ 6.43.17 ॥
आजघानेन्द्रजित् क्रुद्धो वज्रेणेव शतक्रतुः।
अङ्गदं गदया वीरं शत्रुसैन्यविदारणम् ॥ 6.43.18 ॥
तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम्।
जघान समरे श्रीमानङ्गदो वेगवान् कपिः ॥ 6.43.19 ॥
सम्पातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः।
निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि ॥ 6.43.20 ॥
जम्बुमाली रथस्थस्तु रथशक्त्या महाबलः।
बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे ॥ 6.43.21 ॥
तस्य तं रथमास्थाय हनूमान् मारुतत्मजः।
प्रममाथ तलेनाशु सह तेनैव रक्षसा ॥ 6.43.22 ॥
नदन् प्रतपनो घोरो नलं सोऽप्यन्वधावत ॥ 6.43.23 ॥
नलः प्रतपनस्याशु पातयामास चक्षुषी।
भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा ॥ 6.43.24 ॥
ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः।
सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च ॥ 6.43.25 ॥
अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः।
सुप्तघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः ॥ 6.43.26 ॥
तेषां चतुर्णां रामस्तु शिरांसि निशितैः शरै।
क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः ॥ 6.43.27 ॥
वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे।
पपात सरथः साश्वः पुराट्ट इव भूतले ॥ 6.43.28 ॥
निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम्।
निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान् ॥ 6.43.29 ॥
पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः।
बिभेद समरे नीलं निकुम्भः प्रजहास च ॥ 6.43.30 ॥
तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे।
शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः ॥ 6.43.31 ॥
वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम्।
जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम् ॥ 6.43.32 ॥
द्विविदं वानरेन्द्रं तु नगयोधिनमाहवे।
शरैरशनि सङ्काशैः स विव्याधाशनिप्रभः ॥ 6.43.33 ॥
स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्च्छितः।
सालेन सरथं साश्वं निजघानाशनिप्रभम् ॥ 6.43.34 ॥
विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः।
सुषेणं ताडयामास ननाद च मुहुर्मुहुः ॥ 6.43.35 ॥
तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः।
गिरिशृङ्गेण महता रथमाशु न्यपातयत् ॥ 6.43.36 ॥
लाघवेन तु संयुक्तो विद्युन्माली निशाचरः।
अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः ॥ 6.43.37 ॥
ततः क्रोधसमाविष्टः सुषेणो हरिपुङ्गवः।
शिलां सुमहतीं गृह्य निशाचरमभिद्रवत् ॥ 6.43.38 ॥
तमापतन्तं गदया विद्युन्माली निशाचरः।
वक्षस्यभिजघानाशु सुषेणं हरिसत्तमम् ॥ 6.43.39 ॥
गदाप्रहारं तं घोरमचिन्त्य प्लवगोत्तमः।
तां शिलां पातयामास तस्योरसि महामृधे ॥ 6.43.40 ॥
शिलाप्रहाराभिहतो विद्युन्माली निशाचरः।
निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह ॥ 6.43.41 ॥
एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः।
द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः ॥ 6.43.42 ॥
चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः**।
बभूवायोधनं घोरं गोमायुगणसङ्कुलम्** ॥ 6.43.43 ॥
कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम्।
विमर्दे तुमुले तस्मिन् देवासुररणोपमे ॥ 6.43.44 ॥
विदार्यमाणा हरिपुङ्गवैस्तदा निशाचराः शोणितदिग्धगात्राः।
पुनः सुयुद्धं तरसा समास्थिता दिवाकरस्यास्तमयाभिकाङ्क्षिणः ॥ 6.43.45 ॥