०४२ रामेण युद्धादेशः

ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम्।
न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः ॥ 6.42.1 ॥
रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः।
विधानं द्विगुणं कृत्वा प्रासादं सोऽध्यरोहत ॥ 6.42.2 ॥
स ददर्शावृतां लङ्कां सशैलवनकाननाम्।
असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ॥ 6.42.3 ॥
स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम्।
कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ॥ 6.42.4 ॥
स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः।
राघवं हरियूथांश्च ददर्शायतलोचनः ॥ 6.42.5 ॥
राघवः सह सैन्येन मुदितो नाम पुप्लुवे।
लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ॥ 6.42.6 ॥
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम्।
जगाम सहसा सीतां दूयमानेन चेतसा ॥ 6.42.7 ॥
अत्र सा मृगशावाक्षी मत्कृते जनकात्मजा।
पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी ॥ 6.42.8 ॥
पीड्यमानां स धर्मात्मा वैदेहीमनुचिन्तयन्।
क्षिप्रमाज्ञापयामास वानरान् द्विषतां वधे ॥ 6.42.9 ॥
एवमुक्ते तु वचने रामेणाक्लिष्टकर्मणा।
सङ्घर्षमाणाः प्लवगाः सिंहनादैरनादयन् ॥ 6.42.10 ॥
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा।
इति स्म दधिरे सर्वे मनांसि हरियूथपाः ॥ 6.42.11 ॥
उद्यम्य गिरिशृङ्गाणि शिखराणि महान्ति च।
तरूंश्चोत्पाट्य विविधांस्तिष्ठन्ति हरियूथपाः ॥ 6.42.12 ॥
प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः।
राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा ॥ 6.42.13 ॥
ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः।
लङ्कामेवाभ्यवर्तन्त सालतालशिलायुधाः ॥ 6.42.14 ॥
ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवङ्गमाः।
प्राकाराग्राण्यरण्यानि ममन्थुस्तोरणानि च ॥ 6.42.15 ॥
परिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः।
पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः ॥ 6.42.16 ॥
ततः सहस्रयूथाश्च कोटीयूथाश्च वानराः।
कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा ॥ 6.42.17 ॥
काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवङ्गमाः।
कैलासशिखराभाणि गोपुराणि प्रमथ्य च ॥ 6.42.18 ॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः।
लङ्कां तामभिधावन्ति महावारणसन्निभाः ॥ 6.42.19 ॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 6.42.20 ॥
इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवङ्गमाः।
अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः ॥ 6.42.21 ॥
निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः।
एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम् ॥ 6.42.22 ॥
पूर्वद्वारं तु कुमुदः कोटीभिर्दशभिर्वृतः।
आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः ॥ 6.42.23 ॥
साहाय्यार्थं तु तस्यैव निविष्टः प्रघसो हरिः।
पनसश्च महाबाहुर्वानरैर्बहुभिर्वृतः ॥ 6.42.24 ॥
दक्षिणं द्वारमागम्य वीरः शतवलिः कपिः।
आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः ॥ 6.42.25 ॥
सुषेणः पश्चिमद्वारं गतस्तारापिता हरिः।
आवृत्य बलवांस्तस्थौ षष्टिकोटिभिरावृतः ॥ 6.42.26 ॥
उत्तरं द्वारमासाद्य रामः सौमित्रिणा सह।
आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः ॥ 6.42.27 ॥
गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः।
वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः ॥ 6.42.28 ॥
ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः।
वृतः कोट्या महावीर्यस्तस्थो रामस्य पार्श्वतः ॥ 6.42.29 ॥
सन्नद्धस्तु महावीर्यो गदापाणिर्विभीषणः।
वृतो यत्तैस्तु सचिवैस्तस्थौ तत्र महाबलः ॥ 6.42.30 ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः।
समन्तात् परिधावन्तो ररक्षुर्हरिवाहिनीम् ॥ 6.42.31 ॥
ततः कोपपरीतात्मा रावणो राक्षसेश्वरः।
निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा ॥ 6.42.32 ॥
एतच्छुत्वा ततो वाक्यं रावणस्य मुखोद्गतम्।
सहसा भीमनिर्घोषमुद्घुष्टं रजनीचरैः ॥ 6.42.33 ॥
ततः प्रचोदिता भेर्यश्चन्द्रपाण्डरपुष्कराः।
हेमकोणाहता भीमा राक्षसानां समन्ततः ॥ 6.42.34 ॥
विनेदुश्च महाघोषाः शङ्खाः शतसहस्रशः।
राक्षसानां सुघोराणां मुखमारुतपूरिताः ॥ 6.42.35 ॥
ते बभुः शुभनीलाङ्गाः सशङ्का रजनीचराः।
विद्युन्मण्डलसन्नद्धाः सबलाका इवाम्बुदाः ॥ 6.42.36 ॥
निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः।
समये पूर्यमाणस्य वेगा इव महोदधेः ॥ 6.42.37 ॥
ततो वानरसैन्येन मुक्तो नादः समन्ततः।
मलयः पूरितो येन स सानुप्रस्थकन्दरः ॥ 6.42.38 ॥
शङ्खदुन्दुभिसङ्घुष्टः सिंहनादस्तरस्विनाम्।
पृथिवीं चान्तरिक्षं च सागरं चैव नादयन् ॥ 6.42.39 ॥
गजानां बृंहितैः सार्धं हयानां हेषितैरपि।
रथानां नेमिघोषैश्च रक्षसां वदनस्वनः ॥ 6.42.40 ॥
एतस्मिन्नन्तरे घोरः सङ्ग्रामः समवर्तत।
रक्षसां वानराणां च यथा देवासुरे पुरा ॥ 6.42.41 ॥
ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः।
निजघ्नुर्वानरान् घोराः कथयन्तः स्वविक्रमान् ॥ 6.42.42 ॥
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ] राजा जयति सुग्रीव इति शब्दो महानभूत् ॥ 6.42.43 ॥
तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः।
निजघ्नुस्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः ॥ 6.42.44 ॥
राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान्।
भिन्दिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन् ॥ 6.42.45 ॥
वानराश्चापि सङ्क्रुद्धाः प्राकारस्थान् महीगताः।
राक्षसान् पातयामासुः समाप्लुत्य प्लवङ्गमाः ॥ 6.42.46 ॥
स सम्प्रहारस्तुमुलो मांसशोणितकर्दमः।
रक्षसां वानराणां च सम्बभूवाद्भुतोपमः ॥ 6.42.47 ॥