अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः।
सुग्रीवं सम्परिष्वज्य तदा वचनमब्रवीत् ॥ 6.41.1 ॥
असम्मन्त्र्य मया सार्द्धं तदिदं साहसं कृतम्।
एवं साहसकर्माणि न कुर्वन्ति जनेश्वराः ॥ 6.41.2 ॥
संशये स्थाप्य मां चेदं बलं च सविभीषणम्।
कष्टं कृतमिदं वीर साहसं साहसप्रिय ॥ 6.41.3 ॥
इदानीं मा कृथा वीर एवंविधमचिन्तितम्।
त्वयि किञ्चित् समापन्ने किं कार्यं सीतया मम ॥ 6.41.4 ॥
भरतेन महाबाहो लक्ष्मणेन यवीयसा।
शत्रुघ्नेन च शत्रुघ्न स्वशरीरेण वा पुनः ॥ 6.41.5 ॥
त्वयि चानागते पूर्वमिति मे निश्चिता मतिः।
जानतश्चापि ते वीर्यं महेन्द्रवरुणोपम ॥ 6.41.6 ॥
अभिषिच्य च लङ्कायां विभीषणमथापि च।
भरते राज्यमावेश्य त्यक्ष्ये देहं महाबल ॥ 6.41.7 ॥
तमेवं वादिनं रामं सुग्रीवः प्रत्यभाषत ॥ 6.41.8 ॥
तव भार्यापहर्तारं दृष्ट्वा राघव रावणम्।
मर्षयामि कथं वीर जानन् पौरुषमात्मनः ॥ 6.41.9 ॥
इत्येवं वादिनं वीरमभिनन्द्य स राघवः।
लक्ष्मणं लक्ष्मिसम्पन्नमिदं वचनमब्रवीत् ॥ 6.41.10 ॥
परिगृह्योदकं शीतं वनानि फलवन्ति च।
बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ॥ 6.41.11 ॥
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्।
निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥ 6.41.12 ॥
वाताश्च परुषा वान्ति कम्पते च वसुन्धरा।
पर्वताग्राणि वेपन्ते पतन्ति धरणीरुहाः ॥ 6.41.13 ॥
मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः।
क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ॥ 6.41.14 ॥
रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा।
ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् ॥ 6.41.15 ॥
आदित्यमभिवाश्यन्ति जनयन्तो महद्भयम्।
दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः ॥ 6.41.16 ॥
रजन्यामप्रकाशश्च सन्तापयति चन्द्रमाः।
कृष्णरक्तान्तपर्यन्तो यथा लोकस्य सङ्क्षये ॥ 6.41.17 ॥
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः ॥ 6.41.18 ॥
दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते।
युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति ॥ 6.41.19 ॥
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च।
शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः ॥ 6.41.20 ॥
क्षिप्रमद्य दुराधर्षां लङ्कां रावणपालिताम्।
अभियाम जवेनैव सर्वतो हरिभिर्वृताः ॥ 6.41.21 ॥
इत्येवं संवदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः।
तस्मादवातरच्छीव्रं पर्वताग्रान्महाबलः ॥ 6.41.22 ॥
अवतीर्यं च धर्मात्मा तस्माच्छैलात् स राघवः।
परैः परमदुर्धर्षं ददर्श बलमात्मनः ॥ 6.41.23 ॥
सन्नह्य तु ससुग्रीवः कपिराजबलं महत्।
कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ॥ 6.41.24 ॥
ततः काले महाबाहुर्बलेन महतावृतः।
प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् ॥ 6.41.25 ॥
तं विभीषणसुग्रीवौ हनुमान् जाम्बवान्नलः।
ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा ॥ 6.41.26 ॥
ततः पश्चात् सुमहती पृतनर्क्षवनौकसाम्।
प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम् ॥ 6.41.27 ॥
शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्।
जगृहुः कुञ्जरप्रख्या वानराः परवारणाः ॥ 6.41.28 ॥
तौ तु दीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ।
रावणस्य पुरीं लङ्कामासेदतुररिन्दमौ ॥ 6.41.29 ॥
पताकमालिनीं रम्यामुद्यानवनशोभिताम्।
चित्रवप्रां सुदुष्प्रापामुच्चैः प्राकारतोरणाम् ॥ 6.41.30 ॥
तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः।
यथानिवेशं सम्पीड्य न्यविशन्त वनौकसः ॥ 6.41.31 ॥
लङ्कायास्तूत्तरद्वारं शलशृङ्गमिवोन्नतम्।
रामः सहानुजो धन्वी जुगोप च रुरोध च ॥ 6.41.32 ॥
लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम्।
उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः ॥ 6.41.33 ॥
नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम्।
रावणाधिष्ठितं भीमं वरुणेनेव सागरम् ॥ 6.41.34 ॥
सायुधै राक्षसैर्भीमैरभिगुप्तं समन्ततः।
लघूनां त्रासजननं पातालमिव दानवैः ॥ 6.41.35 ॥
विन्यस्तानि च योधानां बहूनि विविधानि च।
ददर्शायुधजालानि तत्रैव कवचानि च ॥ 6.41.36 ॥
पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः।
अतिष्ठत् सह मैन्देन द्विविदेन च वीर्यवान् ॥ 6.41.37 ॥
अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः।
ऋषभेण गवाक्षेण गजेन गवयेन च ॥ 6.41.38 ॥
हनुमान् पश्चिमद्वारं ररक्ष बलवान् कपिः।
प्रमाथिप्रघसाभ्यां च वीरैरन्यैश्च सङ्गतः ॥ 6.41.39 ॥
मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत।
सह सर्वैहरिश्रेष्ठैः सुपर्णश्वसनोपमैः ॥ 6.41.40 ॥
वानाराणां तु षट्त्रिंशत् कोट्यः प्रख्यातयूथपाः।
निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः ॥ 6.41.41 ॥
शासनेन तु रामस्य लक्ष्मणः सविभीषणः।
द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत् ॥ 6.41.42 ॥
पश्चिमेन तु रामस्य सुग्रीवः सहजाम्बवान्।
अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः ॥ 6.41.43 ॥
ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः।
गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे ॥ 6.41.44 ॥
सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः।
सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः ॥ 6.41.45 ॥
दशनागबलाः केचित् केचिद्दशगुणोत्तराः।
केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः ॥ 6.41.46 ॥
सन्ति चौघबलाः केचित् केचिच्छतगुणोत्तराः।
अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः ॥ 6.41.47 ॥
अद्भुतश्च विचित्रश्च तेषामासीत् समागमः।
तत्र वानरसैन्यानां शलभानामिवोद्यमः ॥ 6.41.48 ॥
परिपूर्णमिवाकाशं सञ्छन्नेव च मेदिनी।
लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वानरैः ॥ 6.41.49 ॥
शतं शतसहस्राणां पृथगृक्षवनौकसाम्।
लङ्काद्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः ॥ 6.41.50 ॥
आवृतः स गिरिः सर्वैस्तैः समन्तात् प्लवङ्गमैः ॥ 6.41.51 ॥
अयुतानां सहस्रं च पुरीं तामभ्यवर्तत ॥ 6.41.52 ॥
वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः।
संवृता सर्वतो लङ्का दुष्प्रवेशापि वायुना ॥ 6.41.53 ॥
राक्षसा विस्मयं जग्मुः सहसाऽभिनिपीडिताः।
वानरैर्मेघसङ्काशैः शक्रतुल्यपराक्रमैः ॥ 6.41.54 ॥
महान् शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः।
सागरस्येव भिन्नस्य यथा स्यात् सलिलस्वनः ॥ 6.41.55 ॥
तेन शब्देन महता सप्राकारा सतोरणा।
लङ्का प्रचलिता सर्वा सशैलवनकानना ॥ 6.41.56 ॥
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी।
बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ॥ 6.41.57 ॥
सम्मन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनःपुनः।
आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित् ॥ 6.41.58 ॥
विभीषणस्यानुमते राजधर्मनुस्मरन्।
अङ्गदं वालितनयं समाहूयेदमब्रवीत् ॥ 6.41.59 ॥
गत्वा सोम्य दशग्रीवं ब्रुहि मद्वचनात् कपे।
लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः ॥ 6.41.60 ॥
भ्रष्टश्रीकगतैश्वर्य मुमूर्षो नष्टचेतन।
ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा ॥ 6.41.61 ॥
यच्च पापं कृतं मोहादवलिप्तेन राक्षस।
[तस्य पापस्य सम्प्राप्ता व्युष्टिरद्य दुरासदा] ॥ 6.41.62 ॥
यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः।
दण्डं धारयमाणस्तु लङ्काद्वारे व्यवस्थितः ॥ 6.41.63 ॥
पदवीं देवतानां च महर्षीणां च राक्षस।
राजर्षीणां च सर्वेषां गमिष्यसि मया हतः ॥ 6.41.64 ॥
बलेन येन वै सीतां मायया राक्षसाधम।
मामतिक्रामयित्वा त्वं हृतवांस्तन्निदर्शय ॥ 6.41.65 ॥
अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः।
न चेच्छरणमभ्येषि मामुपादाय मैथिलीम् ॥ 6.41.66 ॥
धर्मात्मा रक्षसां श्रेष्ठः सम्प्राप्तोऽयं विभीषणः।
लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम् ॥ 6.41.67 ॥
न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया।
शक्यं मूर्खसहायेन पापेनाविदितात्मना ॥ 6.41.68 ॥
युद्ध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस।
मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि ॥ 6.41.69 ॥
यद्वा विशसि लोकांस्त्रीन् पक्षिभूतो मनोजवः।
मम चक्षुष्पथं प्राप्य न जीवन् प्रतियास्यसि ॥ 6.41.70 ॥
ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदैहिकम्।
सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम् ॥ 6.41.71 ॥
इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा।
जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट् ॥ 6.41.72 ॥
सोऽतिपत्य मुहूर्तेन श्रीमान्रावणमन्दिरम्।
ददर्शासीनमव्यग्रं रावणं सचिवैः सह ॥ 6.41.73 ॥
ततस्तस्याविदूरे स निपत्य हरिपुङ्गवः।
दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः ॥ 6.41.74 ॥
तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम्।
सामात्यं श्रावयामास निवेद्यात्मानमात्मना ॥ 6.41.75 ॥
दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः।
वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः ॥ 6.41.76 ॥
आह त्वां राघवो रामः कौसल्यानन्दवर्धनः।
निष्पत्य प्रतियुद्ध्यस्व नृशंस पुरुषो भव ॥ 6.41.77 ॥
हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम्।
निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि ॥ 6.41.78 ॥
देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्।
शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम् ॥ 6.41.79 ॥
विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि।
न चेत् सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि ॥ 6.41.80 ॥
इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुङ्गवे।
अमर्षवशमापन्नो निशाचरगणेश्वरः ॥ 6.41.81 ॥
ततः स रोषताम्राक्षः शशास सचिवांस्तदा।
गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत् ॥ 6.41.82 ॥
रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः।
जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः ॥ 6.41.83 ॥
ग्राहयामास तारेयः स्वयमात्मानमात्मवान्।
बलं दर्शयितुं वीरो यातुधानगणे तदा ॥ 6.41.84 ॥
स तान् बाहुद्वये सक्तानादाय पतगानिव।
प्रासादं शैलसङ्कासमुत्पपाताङ्गदस्तदा ॥ 6.41.85 ॥
तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः।
भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ॥ 6.41.86 ॥
ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम्।
ददर्श राक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् ॥ 6.41.87 ॥
तत्पफाल पदाक्रान्तं दशग्रीवस्य पश्यतः।
पुरा हिमवतः शृङ्गं वज्रिणेव विदारितम् ॥ 6.41.88 ॥
भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः।
विनद्य सुमहानादमुत्पपात विहायसम् ॥ 6.41.89 ॥
व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान्।
स वानराणां मध्ये तु रामपार्श्वमुपागतः ॥ 6.41.90 ॥
रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात्।
विनाशं चात्मनः पश्यन्निश्वासपरमोऽभवत् ॥ 6.41.91 ॥
रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवङ्गमैः।
वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत ॥ 6.41.92 ॥
सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः।
बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः ॥ 6.41.93 ॥
चतुर्द्वाराणि सर्वाणि सुग्रीववचनात् कपिः।
पर्यक्रामत दुर्धर्षो नक्षत्राणीव चन्द्रमाः ॥ 6.41.94 ॥
तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम्।
लङ्कामुपनिविष्टानां सागरं चाभिवर्तताम् ॥ 6.41.95 ॥
राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथाऽपरे।
अपरे समरोद्धर्षाद्धर्षमेव प्रपेदिरे ॥ 6.41.96 ॥
कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम्।
ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम् ॥ 6.41.97 ॥
हाहाकारं प्रकुर्वन्ति राक्षसा भयमोहिताः ॥ 6.41.98 ॥
तस्मिन् महाभीषणके प्रवृत्ते कोलाहले राक्षसराजधान्याम्।
प्रगृह्य रक्षांसि महायुधानि युगान्तवाता इव संविचेरुः ॥ 6.41.99 ॥