०४० सुग्रीवेण रावणोत्प्लवः

ततो रामः सुवेलाग्रं योजनद्वयमण्डलम्।
आरुरोह ससुग्रीवो हरियूथपसंवृतः ॥ 6.40.1 ॥
त्रिकूटशिखरे रम्ये निर्मितां विश्वकर्मणा।
ददर्श लङ्कां सुन्यस्तां रम्यकाननशोभिताम् ॥ 6.40.2 ॥
तस्यां गोपुरशृङ्गस्थं राक्षसेन्द्रं दुरासदम् ॥ 6.40.3 ॥
श्वेतचामरपर्यन्तं विजयच्छत्रशोभितम्।
रक्तचन्दनसंलिप्तं रत्नाभरणभूषितम् ॥ 6.40.4 ॥
नीलजीमूतसङ्काशं हेमसञ्छादिताम्बरम्।
ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसम् ॥ 6.40.5 ॥
शशलोहितरागेण संवीतं रक्तवाससा।
सन्ध्यातपेन संवीतं मेघराशिमिवाम्बरे ॥ 6.40.6 ॥
पश्यतां वानरेन्द्राणां राघवस्यापि पश्यतः।
दर्शनाद्राक्षसेन्द्रस्य सुग्रीवः सहसोत्थितः ॥ 6.40.7 ॥
क्रोधवेगेन संयुक्तः सत्त्वेन च बलेन च।
अचलाग्रादथोत्थाय पुप्लुवे गोपुरस्थले ॥ 6.40.8 ॥
स्थित्वा मुहूर्तं सम्प्रेक्ष्य निर्भयेनान्तरात्मना।
तृणीकृत्य च तद्रक्षः सोऽब्रवीत् परुषं वचः ॥ 6.40.9 ॥
लोकनाथस्य रामस्य सखा दासोऽस्मि राक्षस।
न मया मोक्ष्यसेऽद्य त्वं पार्थिवेन्द्रस्य तेजसा ॥ 6.40.10 ॥
इत्युक्त्वा सहसोत्पत्य पुप्लुवे तस्य चोपरि।
आकृष्य मुकुटं चित्रं पातयित्वाऽपतद्भुवि ॥ 6.40.11 ॥
समीक्ष्य तूर्णमायान्तमाबभाषे निशाचरः।
सुग्रीवस्त्वं परोक्षं मे हीनग्रीवो भविष्यसि ॥ 6.40.12 ॥
इत्युक्त्वोत्थाय तं क्षिप्रं बाहुभ्यामाक्षिपत्तले।
कन्तुवत्तं समुत्थाय बाहुभ्या माक्षिपद्धरिः ॥ 6.40.13 ॥
परस्परं स्वेदविदिग्धगात्रौ परस्परं शोणितदिग्धदेहौ।
परस्परं श्लिष्टनिरुद्धचेष्टौ परस्परं शाल्मलिकिंशुकौ यथा ॥ 6.40.14 ॥
मुष्टिप्रहारैश्च तलप्रहारैररत्निघातैश्च कराग्रघातैः।
तौ चक्रतुर्युद्धमसह्यरूपं महाबलौ वानरराक्षसैन्द्रौ ॥ 6.40.15 ॥
उत्क्षिप्य चाक्षिप्य विनम्य देहौ पादक्रमाद्गोपुरवेदिलग्रौ।
अन्योन्यमाविध्य विलग्नदेहौ तौ पेततुः सालनिखातमध्ये ॥ 6.40.16 ॥
उत्पेततुर्भूतलमस्पृशन्तौ स्थित्वा मुहूर्तं त्वभिनिश्वसन्तौ।
आलिङ्ग्य चावल्ग्य च बाहुयोक्त्रैः संयोजयामासतुराहवे तौ ॥ 6.40.17 ॥
संरम्भशिक्षाबलसम्प्रयुक्तौ सञ्चेरतुः सम्प्रतियुद्धमार्गैः।
शार्दूलसिंहाविव जातदर्पौ गजेन्द्रपोताविव सम्प्रयुक्तौ ॥ 6.40.18 ॥
संहत्य चापीड्य च तावुरोभ्यां निपेततुर्वै युगपद्धरण्याम्।
उद्यम्य चान्योन्यमधिक्षिपन्तौ सञ्चक्रमाते बहुयुद्धमार्गैः ॥ 6.40.19 ॥
व्यायामशिक्षाबलसम्प्रयुक्तौ क्लमं न तौ जग्मतुराशु वीरौ।
बाहूत्तमैर्वारणवारणाभैर्निवारयन्तौ वरवारणाभौ ॥ 6.40.20 ॥
चिरेण कालेन तु सम्प्रयुक्तौ सञ्चेरतुर्मण्डलमार्गमाशु ॥ 6.40.21 ॥
तौ परस्परमासाद्य यत्तावन्योन्यसूदने।
मार्जाराविव भक्षार्थे वितस्थाते मुहुर्मुहुः ॥ 6.40.22 ॥
मण्डलानि विचित्राणि स्थानानि विविधानि च।
गोमूत्रिकाणि चित्राणि गतप्रत्यागतानि च ॥ 6.40.23 ॥
तिरश्चीनगतान्येव तथा वक्रगतानि च।
परिमोक्षं प्रहाराणां वर्जनं परिधावनम् ॥ 6.40.24 ॥
अभिद्रवणमाप्लावमास्थानं च सविग्रहम्।
परावृत्तमपावृत्तमवद्रुतमवप्लुतम् ॥ 6.40.25 ॥
उपन्यस्तमपन्यस्तं युद्धमार्गविशारदौ।
तौ सञ्चेरतुरन्योन्यं वानरेन्द्रश्च रावणः ॥ 6.40.26 ॥
एतस्मिन्नन्तरे रक्षो मायाबलमथात्मनः।
आरब्धुमुपसम्पेदे ज्ञात्वा तं वानराधिपः ॥ 6.40.27 ॥
उत्पपात तदाऽऽकाशं जितकाशी जितक्लमः।
रावणः स्थित एवात्र हरिराजेन वञ्चितः ॥ 6.40.28 ॥
अथ हरिवरनाथः प्राप्य सङ्ग्रामकीर्तिं निशिचरपतिमाजौ योजयित्वा श्रमेण।
गगनमतिविशालं लङ्घयित्वाऽर्कसूनुर्हरिवरगणमध्ये रामपार्श्वं जगाम ॥ 6.40.29 ॥
इति स सवितृसूनुस्तत्र तत्कर्म कृत्वा पवनगतिरनीकं प्राविशत् सम्प्रहृष्टः।
रघुवरनृपसूनोर्वर्धयन् युद्धहर्षं तरुमृगगणमुख्यैः पूज्यमानो हरीन्द्रः ॥ 6.40.30 ॥