तां रात्रिमुषितास्तत्र सुवेले हरिपुङ्गवाः।
लङ्कायां ददृशुर्वीरा वनान्युपवनानि च ॥ 6.39.1 ॥
समसौम्यानि रम्याणि विशालान्यायतानि च।
दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः ॥ 6.39.2 ॥
चम्पकाशोकपुन्नागसालतालसमाकुला।
तमालवनसञ्छन्ना नागमालासमावृता ॥ 6.39.3 ॥
हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः।
तिलकैः कर्णिकारैश्च पाटलैश्च समन्ततः ॥ 6.39.4 ॥
शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः।
लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती ॥ 6.39.5 ॥
विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः।
शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः ॥ 6.39.6 ॥
गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च।
धारयन्त्यगमास्तत्र भूषणानीव मानवाः ॥ 6.39.7 ॥
तच्चैत्ररथसङ्काशं मनोज्ञं नन्दनोपमम्।
वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम् ॥ 6.39.8 ॥
नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः।
रुतं परभृतानां च शुश्रुवुर्वननिर्झरे ॥ 6.39.9 ॥
नित्यमत्तविहङ्गानि भ्रमराचरितानि च।
कोकिलाकुलषण्डानि विहगाभिरुतानि च ॥ 6.39.10 ॥
भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च।
कोणालकविधुष्टानि सारसाभिरुतानि च ॥ 6.39.11 ॥
विविशुस्ते ततस्तानि वनान्युपवनानि च।
हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः ॥ 6.39.12 ॥
तेषां प्रविशतां तत्र वानराणां महौजसाम्।
पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः ॥ 6.39.13 ॥
अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः।
सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम् ॥ 6.39.14 ॥
कम्पयन्तश्च तां लङ्कां नादैस्ते नदतां वराः।
कुर्वन्तस्ते महावेगा महीं चरणपीडिताम् ॥ 6.39.15 ॥
रजश्च सहसैवोर्ध्वं जगाम चरणोत्थितम् ॥ 6.39.16 ॥
ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः।
तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश ॥ 6.39.17 ॥
शिखरं तत् त्रिकूटस्य प्रांशु चैकं दिविस्पृशम्।
समन्तात् पुष्पसञ्छन्नं महारजतसन्निभम् ॥ 6.39.18 ॥
श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि।
मनसाऽपि दुरारोहं किं पुनः कर्मणा जनैः ॥ 6.39.19 ॥
निविष्टा तत्र शिखरे लङ्का रावणपालिता।
शतयोजनविस्तीर्णा त्रिंशद्योजनमायता ॥ 6.39.20 ॥
सा पुरी गोपुरैरुच्चैः पाण्डराम्बुदसन्निभैः।
काञ्चनेन च सालेन राजतेन च शोभिता ॥ 6.39.21 ॥
प्रासादैश्च विमानैश्च लङ्का परमभूषिता।
घनैरिवातपापाये मध्यमं वैष्णवं पदम् ॥ 6.39.22 ॥
यस्यां स्तम्भसहस्रैण प्रासादः समलङ्कृतः।
कैलासशिखराकारो दृश्यते खमिवोल्लिखन् ॥ 6.39.23 ॥
चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम्।
बलेन रक्षसां नित्यं यः समग्रेण रक्ष्यते ॥ 6.39.24 ॥
मनोज्ञां काननवतीं पर्वतैरुपशोभिताम्।
नानाधातुविचित्रैश्च उद्यानैरुपशोभिताम् ॥ 6.39.25 ॥
नानाविहगसङ्घुष्टां नानामृगनिषेविताम्।
नानाकाननसन्तानां नानाराक्षससेविताम् ॥ 6.39.26 ॥
तां समृद्धां समृद्धार्थां लक्ष्मीवान् लक्ष्मणाग्रजः।
रावणस्य पुरीं रामो ददर्श सह वानरैः ॥ 6.39.27 ॥
तां महागृहसम्बाधां दृष्ट्वा लक्ष्मणपूर्वजः।
नगरीममरप्रख्यो विस्मयं प्राप वीर्यवान् ॥ 6.39.28 ॥
तां रत्नपूर्णां बहुसंविधानां प्रासादमालाभिरलङ्कृतां च।
पुरीं महायन्त्रकवाटमुख्यां ददर्श रामो महता बलेन ॥ 6.39.29 ॥