०३८ रामेण सुवेलपर्वतनिवासनिश्चयः

स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति।
लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ॥ 6.38.1 ॥
विभीषणं च धर्मज्ञमनुरक्तं निशाचरम्।
मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ॥ 6.38.2 ॥
सुवेलं साधुशैलेन्द्रमिमं धातुशतैश्चितम्।
अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ॥ 6.38.3 ॥
लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः।
येन मे मरणान्ताय हृता भार्या दुरात्मना ॥ 6.38.4 ॥
येन धर्मो न विज्ञातो न तद्वृत्तं कुलं तथा।
राक्षस्या नीचया बुद्ध्या येन तद् गर्हितं कृतम् ॥ 6.38.5 ॥
तस्मिन् मे वर्तते रोषः कीर्तिते राक्षसाधमे।
यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥ 6.38.6 ॥
एको हि कुरुते पापं कालपाशवशं गतः।
नीचेनात्मापचारेण कुलं तेन विनश्यति ॥ 6.38.7 ॥
एवं सम्मन्त्रयन्नेव सक्रोधो रावणं प्रति।
रामः सुवेलं वासाय चित्रसानुमुपारुहत् ॥ 6.38.8 ॥
सशरं चापमुद्यम्य सुमहद्विक्रमे रतः।
तमन्वरोहत् सुग्रीवः सामात्यः स विभीषणः ॥ 6.38.9 ॥
हनुमानङ्गदो नीलो मैन्दो द्विविद एव च ॥ 6.38.10 ॥
गजो गवाक्षो गवयः शरभो गन्धमादनः।
पनसः कुमुदश्चैव हरो रम्भश्च यूथपः ॥ 6.38.11 ॥
जाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः।
दुर्मुखश्च महातेजास्तथा शतवलिः कपिः ॥ 6.38.12 ॥
ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः।
अध्यारोहन्त शतशः सुवेलं यत्र राघवः ॥ 6.38.13 ॥
ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः।
ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् ॥ 6.38.14 ॥
तां शुभां प्रवरद्वारां प्राकारपरिशोभिताम्।
लङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः ॥ 6.38.15 ॥
प्राकारचयसंस्थैश्च तदा नीलैर्निशाचरैः।
ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् ॥ 6.38.16 ॥
ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः।
मुमुचुर्विविधान्नादांस्तत्र रामस्य पश्यतः ॥ 6.38.17 ॥
ततोऽस्तमगमत् सूर्यः सन्ध्यया प्रतिरञ्जितः।
पूर्णचन्द्रप्रदीप्ता च क्षपा समभिवर्तते ॥ 6.38.18 ॥
ततः स रामो हरिवाहिनीपतिर्विभिषणेन प्रतिनन्द्य सत्कृतः।
सलक्ष्मणो यूथपयूथसंवृतः सुवेलपृष्ठे न्यवसद्यथासुखम् ॥ 6.38.19 ॥