०३७ विभीषणेन गुप्तचरप्रेषणम्

नरवानरराजौ तौ स च वायुसुतः कपिः।
जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ॥ 6.37.1 ॥
अङ्गदो वालिपुत्रश्च सौमित्रिः शलभः कपिः।
सुषेणः सहदायादो मैन्दो द्विविद एव च ॥ 6.37.2 ॥
गजो गवाक्षः कुमुदो नलोऽथ पनसस्तथा।
अमित्रविषयं प्राप्ताः समवेताः समर्थयन् ॥ 6.37.3 ॥
इयं सा लक्ष्यते लङ्का पुरी रावणपालिता।
सासुरोरगगन्धर्वैरमरैरपि दुर्जया ॥ 6.37.4 ॥
कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये।
नित्यं सन्निहितो ह्यत्र रावणो राक्षसाधिपः ॥ 6.37.5 ॥
तथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत्।
वाक्यमग्राम्यपदवत् पुष्कलार्थं विभीषणः ॥ 6.37.6 ॥
अनलः शरभश्चैव सम्पातिः प्रघसस्तथा।
गत्वा लङ्कां ममामात्याः पुरीं पुनरिहगताः ॥ 6.37.7 ॥
भृत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम्।
विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः ॥ 6.37.8 ॥
संविधानं यदाहुस्ते रावणस्य दुरात्मनः।
राम तद्ब्रुवतः सर्वं यथातत्त्वेन मे शृणु ॥ 6.37.9 ॥
पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति।
दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ ॥ 6.37.10 ॥
पट्टिशासिधनुष्मद्भिः शूलमुद्गरपाणिभिः।
नानाप्रहरणैः शूरैरावृतो रावणात्मजः ॥ 6.37.11 ॥
राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः।
युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः ॥ 6.37.12 ॥
उत्तरं नगरद्वारं रावणः स्वयमास्थितः ॥ 6.37.13 ॥
विरूपाक्षस्तु महता शूलखड्गधनुष्मता।
बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः ॥ 6.37.14 ॥
एतानेवंविधान् गुल्मान् लङ्कायां समुदीक्ष्य ते।
मामकाः सचिवाः सर्वे पुनः शीघ्रमिहागताः ॥ 6.37.15 ॥
गजानां च सहस्रं च रथानामयुतं पुरे।
हयानामयुते द्वे च साग्रकोटिश्च रक्षसाम् ॥ 6.37.16 ॥
विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः।
इष्टा राक्षसराजस्य नित्यमेते निशाचराः ॥ 6.37.17 ॥
एकैकस्यात्र युद्धार्थे राक्षसस्य विशाम्पते।
परिवारः सहस्राणां सहस्रमुपतिष्ठते ॥ 6.37.18 ॥
एवमुक्त्वा महाबाहू राक्षसांस्तानदर्शयत्।
लङ्कायां सचिवैः सर्वां रामाय प्रत्यवेदयत् ॥ 6.37.19 ॥
रामं कमलपत्राक्षमिदमुत्तरमब्रवीत्।
रावणावरजः श्रीमान् रामप्रियचिकीर्षया ॥ 6.37.20 ॥
कुबेरं तु यदा राम रावणः प्रत्ययुद्ध्यत्।
षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः ॥ 6.37.21 ॥
पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात्।
सदृशा येऽत्र दर्पेण रावणस्य दुरात्मनः ॥ 6.37.22 ॥
अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये।
समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे ॥ 6.37.23 ॥
तद्भवांश्चतुरङ्गेण बलेन महता वृतः।
व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम् ॥ 6.37.24 ॥
रावणावरजे वाक्यमेवं ब्रुवति राघवः।
शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत् ॥ 6.37.25 ॥
पूर्वद्वारे तु लङ्काया नीलो वानरपुङ्गवः।
प्रहस्तप्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः ॥ 6.37.26 ॥
अङ्गदो वालिपुत्रस्तु बलेन महता वृतः।
दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ ॥ 6.37.27 ॥
हनुमान् पश्चिमद्वारं निपीड्य पवनात्मजः।
प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः ॥ 6.37.28 ॥
दैत्यदानवसङ्घानामृषीणां च महात्मनाम्।
विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः ॥ 6.37.29 ॥
परिक्रामति यः सर्वान् लोकान् सन्तापयन् प्रजाः।
तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः ॥ 6.37.30 ॥
उत्तरं नगरद्वारमहं सौमित्रिणा सह।
निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः ॥ 6.37.31 ॥
वानरेन्द्रश्च बलवानृक्षराजश्च वीर्यवान्।
राक्षसेन्द्रानुजश्चैव गुल्मो भवतु मध्यमः ॥ 6.37.32 ॥
न चैव मानुषं रूपं कार्यं हरिभिराहवे।
एषा भवतु सञ्ज्ञा नो युद्धेऽस्मिन् वानरे बले ॥ 6.37.33 ॥
वानरा एव नश्चिह्नं स्वजनेऽस्मिन् भविष्यति ॥ 6.37.34 ॥
अहमेष सह भ्रात्रा लक्ष्मणेन महौजसा।
आत्मना पञ्चमश्चायं सखा मम विभीषणः ॥ 6.37.35 ॥
सुवेलारोहणे बुद्धिश्चकार मतिमान् मतिम्।
रमणीयतरं दृष्ट्वा सुवेलस्य गिरेस्तटम् ॥ 6.37.36 ॥
ततस्तु रामो महता बलेन प्रच्छाद्य सर्वां पृथिवीं महात्मा।
प्रहृष्टरूपोऽभिजगाम लङ्कां कृत्वा मतिं सोऽरिवधे महात्मा ॥ 6.37.37 ॥