तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः।
न मर्षयति दुष्टात्मा कालस्य वशमागतः ॥ 6.36.1 ॥
स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः।
अमर्षात् परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ॥ 6.36.2 ॥
हितबुद्ध्या यदहितं वचः परुषमुच्यते।
परपक्षं प्रविश्यैव नैतच्छ्रोत्रं गतं मम ॥ 6.36.3 ॥
मानुषं कृपणं राममेकं शाखामृगाश्रयम्।
समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् ॥ 6.36.4 ॥
रक्षसामीश्वरं मां च देवतानां भयङ्करम्।
हीनं मां मन्यसे केन ह्यहीनं सर्वविक्रमैः ॥ 6.36.5 ॥
वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः।
त्वयाऽहं परुषाण्युक्तः परप्रोत्साहनेन वा ॥ 6.36.6 ॥
प्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति।
पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः ॥ 6.36.7 ॥
आनीय च वनात् सीतां पद्महीनामिव श्रियम्।
किमर्थं प्रतिदास्यामि राघवस्य भयादहम् ॥ 6.36.8 ॥
वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्।
पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया ॥ 6.36.9 ॥
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे।
स कस्माद्रावणो युद्धे भयमाहारयिष्यति ॥ 6.36.10 ॥
द्विधा भज्येयमप्येवं न नमेयं तु कस्यचित्।
एष मे सहजो दोषः स्वभावो दुरतिक्रमः ॥ 6.36.11 ॥
यदि तावत् समुद्रे तु सेतुर्बद्धो यदृच्छया।
रामेण विस्मयः कोत्र येन ते भयमागतम् ॥ 6.36.12 ॥
स तु तीर्त्वार्णवं रामः सह वानरसेनया।
प्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति ॥ 6.36.13 ॥
एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्।
व्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत ॥ 6.36.14 ॥
जयाशिषा च राजानं वर्धयित्वा यथोचितम्।
माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् ॥ 6.36.15 ॥
रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च।
लङ्कायामतुलां गुप्तिं कारयामास राक्षसः ॥ 6.36.16 ॥
स व्यादिदेश पूर्वस्यां प्रहस्तं द्वारि राक्षसम्।
दक्षिणस्यां महावीर्यौ महापार्श्वमहोदरौ ॥ 6.36.17 ॥
पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा।
व्यादिदोश महामायं बहुभी राक्षसैर्वृतम् ॥ 6.36.18 ॥
उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ।
स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह ॥ 6.36.19 ॥
राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम्।
मध्यमेऽस्थापयद् गुल्मे बहुभिः सह राक्षसैः ॥ 6.36.20 ॥
एवं विधानं लङ्कायाः कृत्वा राक्षसपुङ्गवः।
कृतकृत्यमिवात्मानं मन्यते कालचोदितः ॥ 6.36.21 ॥
विसर्जयामास ततः स मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम्।
जयाशिषा मन्त्रिगणेन पूजितो विवेश चान्तःपुरमृद्धिमन्महत् ॥ 6.36.22 ॥