तेन शङ्खविमिश्रेण भेरीशब्देन राघवः।
उपयाति महाबाहू रामः परपुरञ्जयः ॥ 6.35.1 ॥
तं निनादं निशम्याथ रावणो राक्षसेश्वरः।
मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत ॥ 6.35.2 ॥
सभां सन्नादयन् सर्वामित्युवाच महाबलः।
जगत्सन्तापनः क्रूरो गर्हयन् राक्षसेश्वरः ॥ 6.35.3 ॥
तरणं सागरस्यापि विक्रमं बलसञ्चयम्।
यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम् ॥ 6.35.4 ॥
भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान्।
तूष्णीकानीक्षतोऽन्योन्यं विदित्वा रामविक्रमम् ॥ 6.35.5 ॥
ततस्तु सुमहाप्राज्ञो माल्यवान् नाम राक्षसः।
रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत् ॥ 6.35.6 ॥
विद्यास्वभिविनीतो यो राजा राजन्नयानुगः।
स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे ॥ 6.35.7 ॥
सन्दधानो हि कालेन विगृह्णंश्चारिभिः सह।
स्वपक्षवर्धनं कुर्वन् महदैश्वर्यमश्नुते ॥ 6.35.8 ॥
हीयमानेन कर्तव्यो राज्ञा सन्धिः समेन च।
न शत्रुमवमन्येत ज्यायान् कुर्वीत विग्रहम् ॥ 6.35.9 ॥
तन्मह्यं रोचते सन्धिः सह रामेण रावण।
यदर्थमभियुक्ताःस्म सीता तस्मै प्रदीयताम् ॥ 6.35.10 ॥
यस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः।
विरोधं मा गमस्तेन सन्धिस्ते तेन रोचताम् ॥ 6.35.11 ॥
असृजद्भगवान् पक्षौ द्वावेव हि पितामहः।
सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ ॥ 6.35.12 ॥
धर्मो हि श्रूयते पक्षो ह्यमराणां महात्मनाम्।
अधर्मो रक्षसां पक्षो ह्यसुराणां च रावण ॥ 6.35.13 ॥
धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम्।
अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते ॥ 6.35.14 ॥
तत्त्वया चरता लोकान् धर्मो विनिहतो महान्।
अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे ॥ 6.35.15 ॥
स प्रमादाद्विवृद्धस्तेऽधर्मोऽभिग्रसते हि नः।
विवर्धयति पक्षं च सुराणां सुरभावनः ॥ 6.35.16 ॥
विषयेषु प्रसक्तेन यत्किञ्चित्कारिणा त्वया।
ऋषीणामग्निकल्पानामुद्वेगो जनितो महान् ॥ 6.35.17 ॥
तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः ॥ 6.35.18 ॥
तपसा भावितात्मानो धर्मस्यानुग्रहे रताः।
मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः ॥ 6.35.19 ॥
जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते।
अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन् ॥ 6.35.20 ॥
दिशोऽपि विद्रुताः सर्वाः स्तनयित्नुरिवोष्णगे।
ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः ॥ 6.35.21 ॥
तेषु तेषु च देशेषु पुण्येष्वेव दृढव्रतैः।
चर्यमाणं तपस्तीव्रं सन्तापयति राक्षसान् ॥ 6.35.22 ॥
देवदानवयक्षेभ्यो गृहीतश्च वरस्त्वया ॥ 6.35.23 ॥
मानुषा वानरा ऋक्षा गोलाङ्गूला महाबलाः।
बलवन्त इहागम्य गर्जन्ति दृढविक्रमाः ॥ 6.35.24 ॥
उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधांस्तथा।
विनाशमनुपश्यामि सर्वेषां रक्षसामहम् ॥ 6.35.25 ॥
खराभिस्तनिता घोरा मेघाः प्रतिभयङ्कराः।
शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः ॥ 6.35.26 ॥
रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः।
ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथा पुरा ॥ 6.35.27 ॥
व्याला गोमायवो गृध्रा वाश्यन्ति च सुभैरवम्।
प्रविश्य लङ्कामनिशं समवायांश्च कुर्वते ॥ 6.35.28 ॥
कालिकाः पाण्डरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः।
स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च ॥ 6.35.29 ॥
गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते।
खरा गोषु प्रजायन्ते मूषिका नकुलैः सह ॥ 6.35.30 ॥
मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह।
किन्नरा राक्षसैश्चापि समीयुर्मानुषैः सह ॥ 6.35.31 ॥
पाण्डुरा रक्तपादाश्च विहङ्गाः कालचोदिताः।
राक्षसानां विनाशाय कपोता विचरन्ति च ॥ 6.35.32 ॥
वीचीकूचीति वाश्यन्त्यः शारिका वेश्मसु स्थिताः ॥ 6.35.33 ॥
पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः।
पाक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदन्ति च ॥ 6.35.34 ॥
करालो विकटो मुण्डः परुषः कृष्णपिङ्गलः।
कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते ॥ 6.35.35 ॥
एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च।
ज्ञात्वा प्रधार्य कार्याणि क्रियतामायतिक्षमम् ॥ 6.35.36 ॥
*इदं वचस्तत्र निशम्य माल्यवान् परीक्ष्य रक्षोधिपतेर्मनः पुनः।
अनुत्तमेषूत्तमपौरुषो बली बभूव तूष्णीं समवेक्ष्य रावणम् ॥ 6.35.37 ॥