अथ तां जातसन्तापां तेन वाक्येन मोहिताम्।
सरमा ह्लादयामास पृथिवीं द्यौरिवाम्भसा ॥ 6.34.1 ॥
ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः।
उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ॥ 6.34.2 ॥
उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे।
निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम् ॥ 6.34.3 ॥
न हि मे क्रममाणाया निरालम्बे विहायसि।
समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ॥ 6.34.4 ॥
एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत्।
मधुरं श्लक्ष्णया वाचा पूर्वं शोकाभिपन्नया ॥ 6.34.5 ॥
समर्था गगनं गन्तुमपि वा त्वं रसातलम्।
अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ॥ 6.34.6 ॥
मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव।
ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥ 6.34.7 ॥
स हि मायाबलः क्रूरो रावणः शत्रुरावणः।
मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी ॥ 6.34.8 ॥
तर्जापयति मां नित्यं भर्त्सापयति चासकृत्।
राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ॥ 6.34.9 ॥
उद्विग्ना शङ्किता चास्मि न स्वस्थं च मनो मम।
तद्भयाच्छाहमुद्विग्ना अशोकवनिकां गता ॥ 6.34.10 ॥
यदि नाम कथा तस्य निश्चितं वापि यद्भवेत्।
निवेदयेथाः सर्वं तत् परो मे स्यादनुग्रहः ॥ 6.34.11 ॥
सा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी।
उवाच वदनं तस्याः स्पृशन्ती बाष्पविक्लवम् ॥ 6.34.12 ॥
एष ते यद्यभिप्रायस्तदा गच्छामि जानकि।
गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम् ॥ 6.34.13 ॥
एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः।
शुश्राव कथितं तस्य रावणस्य समन्त्रिणः ॥ 6.34.14 ॥
सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः।
पुनरेवागमत् क्षिप्रमशोकवनिकां तदा ॥ 6.34.15 ॥
सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम्।
प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम् ॥ 6.34.16 ॥
तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम्।
परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम् ॥ 6.34.17 ॥
इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः।
क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः ॥ 6.34.18 ॥
एवमुक्ता तु सरमा सीतया वेपमानया।
कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः ॥ 6.34.19 ॥
जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः।
अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः ॥ 6.34.20 ॥
दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली।
निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम् ॥ 6.34.21 ॥
लङ्घनं च समुद्रस्य दर्शनं च हनूमतः।
वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि ॥ 6.34.22 ॥
एवं स मन्त्रिवृद्धैश्चाविद्धेन बहु भाषितः।
न त्वामुत्सहते मोक्तुमर्थमर्थपरो यथा ॥ 6.34.23 ॥
नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि।
सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते ॥ 6.34.24 ॥
भयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे।
राक्षसानां च सर्वेषामात्मनश्च वधेन हि ॥ 6.34.25 ॥
निहत्य रावणं सङ्ख्ये सर्वथा निशितैः शरैः।
प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे ॥ 6.34.26 ॥
एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः।
श्रुतो वानरसैन्यानां कम्पयन् धरणीतलम् ॥ 6.34.27 ॥
श्रुत्वा तु तद्वानरसैन्यशब्दं लङ्कागता राक्षसराजभृत्याः।
नष्टौजसो दैन्यपरीतचेष्टाः श्रेयो न पश्यन्ति नृपस्य दोषे ॥ 6.34.28 ॥