०३३ सीता-सरमासंवादः

सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी।
आससादाथ वैदेहीं प्रियां प्रणयिनीं सखीम् ॥ 6.33.1 ॥
मोहितां राक्षसेन्द्रेण सीतां परमदुःखिताम्।
आश्वासयामास तदा सरमा मृदुभाषिणी ॥ 6.33.2 ॥
सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया।
रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता ॥ 6.33.3 ॥
सा ददर्श ततः सीतां सरमा नष्टचेतनाम्।
उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुलाम् ॥ 6.33.4 ॥
तां समाश्वासयामास सखी स्नेहेन सुव्रता ॥ 6.33.5 ॥
उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया।
सखी स्नेहेन तद्भिरु मया सर्वं प्रतिश्रुतम् ॥ 6.33.6 ॥
लीनया गगने शून्ये भयमुत्सृज्य रावणात्।
तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम् ॥ 6.33.7 ॥
स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः।
तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि ॥ 6.33.8 ॥
न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः।
वधश्च पुरुषव्याघ्रे तस्मिन्नैवोपपद्यते ॥ 6.33.9 ॥
न त्वेव वानरा हन्तुं शक्याः पादपयोधिनः।
सुरा देवर्षभेणेव रामेण हि सुरक्षिताः ॥ 6.33.10 ॥
दीर्घवृत्तभुजः श्रीमान् महोरस्कः प्रतापवान्।
धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः ॥ 6.33.11 ॥
विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च।
लक्ष्मणेन सह भ्रात्रा कुलीनो नयशास्त्रवित् ॥ 6.33.12 ॥
हन्ता परबलौघानामचिन्त्यबलपौरुषः।
न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः ॥ 6.33.13 ॥
अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना।
इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि ॥ 6.33.14 ॥
शोकस्ते विगतः सर्वः कल्याणं त्वामुपस्थितम्।
ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु ॥ 6.33.15 ॥
उत्तीर्य सागरं रामः सह वानरसेनया।
सन्निविष्टः समुद्रस्य तीरमासाद्य दक्षिणम् ॥ 6.33.16 ॥
दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः।
स हि तैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः ॥ 6.33.17 ॥
अनेन प्रेषिता ये च राक्षसा लघुविक्रमाः।
राघवस्तीर्ण इत्येव प्रवृत्तिस्तैरिहाहृता ॥ 6.33.18 ॥
स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः।
एष मन्त्रयते सर्वैः सचिवैः सह रावणः ॥ 6.33.19 ॥
इति ब्रुवाणा सरमा राक्षसी सीतया सह।
सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ॥ 6.33.20 ॥
दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम्।
उवाच सरमा सीतामिदं मधुरभाषिणी ॥ 6.33.21 ॥
सन्नाहजननी ह्येषा भैरवा भीरु भेरिका।
भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम् ॥ 6.33.22 ॥
कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः।
हृष्यन्ते तुरागारूढाः प्रासहस्ताः सहस्रशः ॥ 6.33.23 ॥
आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः।
वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः ॥ 6.33.24 ॥
शस्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा।
रथवाजिगजानां च भूषितानां च रक्षसाम् ॥ 6.33.25 ॥
प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम्।
वनं निर्दहतो घर्मे यथा रूपं विभावसोः ॥ 6.33.26 ॥
घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम्।
हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा ॥ 6.33.27 ॥
उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम्।
सम्भ्रमो रक्षसामेष तुमुलो रोमहर्षणः ॥ 6.33.28 ॥
श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम् ॥ 6.33.29 ॥
विनिर्जित्य जितक्रोधस्त्वामचिन्त्यपराक्रमः।
रावणं समरे हत्वा भर्ता त्वाऽधिगमिष्यति ॥ 6.33.30 ॥
विक्रमिष्यति रक्षस्सु भर्ता ते सहलक्ष्मणः।
यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः ॥ 6.33.31 ॥
आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम्।
अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते ॥ 6.33.32 ॥
अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभने।
समागम्य परिष्वज्य तस्योरसि महोरसः ॥ 6.33.33 ॥
अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम्।
धृतामेतां बहून् मासान् वेणीं रामो महावलः ॥ 6.33.34 ॥
तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम्।
मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी ॥ 6.33.35 ॥
रावणं समरे हत्वा न चिरादेव मैथिलि।
त्वया समग्रः प्रियया सुखार्हो लप्स्यते सुखम् ॥ 6.33.36 ॥
समागता त्वं वीर्येण मोदिष्यसि महात्मना।
सुवर्षेण समायुक्ता यथा सस्येन मेदिनी ॥ 6.33.37 ॥
गिरिवरमभितोऽनुवर्तमानो हय इव मण्डलमाशु य करोति।
तमिह शरणमभ्युपेहि देवं विदसकरं प्रभवो ह्ययं प्रजानाम् ॥ 6.33.38 ॥