०३२ रावणेन सीतायाः मायिकरामशिर आदिप्रदर्शनम्

सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्।
सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता ॥ 6.32.1 ॥
नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम्।
केशान् केशान्तदेशं च तं च चूडामणिं शुभम् ॥ 6.32.2 ॥
एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता।
विजगर्हेऽत्र कैकेयीं कोशन्ती कुररी यथा ॥ 6.32.3 ॥
सकामा भव कैकेयि हतोऽयं कुलनन्दनः।
कुलमुत्सादितं सर्वं त्वया कलहशीलया ॥ 6.32.4 ॥
आर्येण किं ते कैकेयि कृतं रामेण विप्रियम्।
यन्मया चीरवसनस्त्वया प्रस्थापितो वनम् ॥ 6.32.5 ॥
एवमुक्त्वा तु वैदेहीं वेपमाना तपस्विनी।
जगाम जगतीं बाला छिन्ना तु कदली यथा ॥ 6.32.6 ॥
सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम्।
तच्छिरः समुपाघ्राय विललापायतेक्षणा ॥ 6.32.7 ॥
हा हतास्मि महाबाहो वीरव्रतमनुव्रत।
इमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥ 6.32.8 ॥
प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते।
सुवृत्त साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ 6.32.9 ॥
दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे।
यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः ॥ 6.32.10 ॥
सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव।
वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता ॥ 6.32.11 ॥
आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम।
अनृतं वचनं तेषामल्पायुरसि राघव ॥ 6.32.12 ॥
अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव।
पचत्येनं यथा कालो भूतानां प्रभवो ह्ययम् ॥ 6.32.13 ॥
अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित्।
व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥ 6.32.14 ॥
तथा त्वं सम्परिष्वज्य रौद्रयाऽतिनृशंसया।
कालरात्र्या ममाच्छिद्य हृतः कमललोचन ॥ 6.32.15 ॥
उपशेषे महाबाहो मां विहाय तपस्विनीम्।
प्रियामिव समाश्लिष्य पृथिवीं पुरुषर्षभ ॥ 6.32.16 ॥
अर्चितं सततं यत्तत् गन्धमाल्यैर्मया तव।
इदं ते मत्प्रियं वीर धनु काञ्चनभूषणम् ॥ 6.32.17 ॥
पित्रा दशरथेन त्वं श्वशुरेण ममानघ।
सर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः ॥ 6.32.18 ॥
दिवि नक्षत्रभूतस्त्वं महत्कर्मकृतां प्रियम्।
पुण्यं राजर्षिवंशं त्वमात्मनः समवेक्षसे ॥ 6.32.19 ॥
किं मां न प्रेक्षसे राजन् किं मां न प्रतिभाषसे।
बालां बाल्येन सम्प्राप्तां भार्यां मां सहचारिणीम् ॥ 6.32.20 ॥
संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया।
स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥ 6.32.21 ॥
कस्मान्मामपहाय त्वं गतो गतिमतां वर।
अस्माल्लोकादमुं लोकं त्यक्त्वा मामपि दुःखिताम् ॥ 6.32.22 ॥
कल्याणैरुचितं यत्तत् परिष्वक्तं मयैव तु।
क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते ॥ 6.32.23 ॥
अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः।
अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे ॥ 6.32.24 ॥
प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम्।
परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा ॥ 6.32.25 ॥
स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते।
तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम् ॥ 6.32.26 ॥
सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम्।
हृदयेनावदीर्णेन न भविष्यति राघव ॥ 6.32.27 ॥
मम हेतोरनार्याया ह्यनर्हः पार्थिवात्मजः।
रामः सागरमुत्तीर्य सत्त्ववान् गोष्पदे हतः ॥ 6.32.28 ॥
अहं दाशरथेनोढा मोहात् स्वकुलपांसनी।
आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥ 6.32.29 ॥
नूनमन्यां मया जातिं वारितं दानमुत्तमम्।
याऽहमद्येह शोचामि भार्या सर्वातिथेरपि ॥ 6.32.30 ॥
साधु पातय मां क्षिप्रं रामस्योपरि रावण।
समानय पतिं पत्न्या कुरु कल्याणमुत्तमम् ॥ 6.32.31 ॥
शिरसा मे शिरश्चास्य कायं कायेन योजय।
रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः * ॥ 6.32.32 ॥
इति सा दुःखसन्तप्ता विललापायतेक्षणा।
भर्तुः शिरो धनुस्तत्र समीक्ष्य च पुनःपुनः ॥ 6.32.33 ॥
एवं लालप्यमानायां सीतायां तत्र राक्षसः।
अभिचक्राम भर्त्तारमनीकस्थः कृताञ्जलिः ॥ 6.32.34 ॥
विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च।
न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ 6.32.35 ॥
अमात्यैः सहितैः सर्वैः प्रहस्तः समुपस्थितः।
तेन दर्शनकामेन वयं प्रस्थापिताः प्रभो ॥ 6.32.36 ॥
नूनमस्ति महाराज राजभावात् क्षमान्वितम्।
किञ्चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु ॥ 6.32.37 ॥
एतच्छुत्वा दशग्रीवो राक्षसप्रतिवेदितम्।
अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥ 6.32.38 ॥
स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः।
सभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥ 6.32.39 ॥
अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम्।
जगाम रावणस्यैव निर्याणसमनन्तरम् ॥ 6.32.40 ॥
राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः।
समर्थयामास तदा रामकार्यविनिश्चयम् ॥ 6.32.41 ॥
अविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः।
अब्रवीत् कालसदृशो रावणो राक्षसाधिपः ॥ 6.32.42 ॥
शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे।
समानयध्वं सैन्यानि वक्तव्यं च न कारणम् ॥ 6.32.43 ॥
ततस्तथेति प्रतिगृह्य तद्वचो बलाधिपास्ते महदात्मनो बलम्।
समानयंश्चैव समागमं च ते न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि ॥ 6.32.44 ॥