ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः।
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ 6.31.1 ॥
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्।
जातोद्वेगोऽभवत् किञ्चित् सचिवानिदमब्रवीत् ॥ 6.31.2 ॥
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः।
अयं नो मन्त्रकालो हि सम्प्राप्त इति राक्षसाः ॥ 6.31.3 ॥
तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम्।
ततः स मन्त्रयामास सचिवै राक्षसैः सह ॥ 6.31.4 ॥
मन्त्रयित्वा स दुर्धर्षः क्षमं यत् समनन्तरम्।
विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥ 6.31.5 ॥
ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम्।
मायाविदं महामायः प्राविशद्यत्र मैथिली ॥ 6.31.6 ॥
विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः।
मोहयिष्यावहे सीतां मायया जनकात्मजाम् ॥ 6.31.7 ॥
शिरो मायामयं गृह्य राघवस्य निशाचर।
त्वं मां समुपतिष्ठस्व महच्च सशरं धनुः ॥ 6.31.8 ॥
[दर्शयामास तां मायां सुप्रयुक्तां स रावणे।] तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ॥ 6.31.9 ॥
अशोकवनिकायां तु सीतादर्शनलालसः।
नैर्ऋतानामधिपतिः संविवेश महाबलः ॥ 6.31.10 ॥
ततो दीनामदैन्यार्हां ददर्श धनदानुजः।
अधोमुखीं शोकपरामुपविष्टां महीतले ॥ 6.31.11 ॥
भर्तारमेव ध्यायन्तीमशोकवनिकां गताम्।
उपास्यामानां घोराभी राक्षसीभिरितस्ततः * ॥ 6.31.12 ॥
उपसृत्य ततः सीतां प्रहर्षं नाम कीर्तयन्।
इदं च वचनं धृष्टमुवाच जनकात्मजाम् ॥ 6.31.13 ॥
सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे।
खरहन्ता स ते भर्ता राघवः समरे हतः ॥ 6.31.14 ॥
छिन्नं ते सर्वतो मूलं दर्पस्ते विहतो मया।
व्यसनेनात्मनः सीते मम भार्या भविष्यसि ॥ 6.31.15 ॥
विसृजेमां मतिं मूढे किं मृतेन करिष्यसि।
भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम ॥ 6.31.16 ॥
अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि।
शृणु भर्तृवधं सीते घोरं वृत्रवधं यथा ॥ 6.31.17 ॥
समायातः समुद्रान्तं मां हन्तुं किल राघवः।
वानरेन्द्रप्रणीतेन बलेन महता वृतः ॥ 6.31.18 ॥
स निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम्।
बलेन महता रामो व्रजत्यस्तं दिवाकरे ॥ 6.31.19 ॥
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम्।
सुखसंसुप्तमासाद्य चारितं प्रथमं चरैः ॥ 6.31.20 ॥
तत्प्रहस्तप्रणीतेन बलेन महता मम।
बलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः ॥ 6.31.21 ॥
पट्टिशान् परिघांश्चक्रान् दण्डान् खड्गान् महायसान्।
बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् ॥ 6.31.22 ॥
यष्टिश्च तोमरान् शक्तीश्चक्राणि मुसलानि च।
उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥ 6.31.23 ॥
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना।
असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥ 6.31.24 ॥
विभीषणः समुत्पत्य निगृहीतो यदृच्छया।
दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह ॥ 6.31.25 ॥
सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः।
निरस्तहनुकः शेते हनुमान् राक्षसैर्हतः ॥ 6.31.26 ॥
जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि।
पट्टिशैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥ 6.31.27 ॥
निश्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ।
असिना व्यायतौ छिन्नौ मध्ये ह्यरिनिषूदनौ ॥ 6.31.28 ॥
अनुतिष्ठति मेदिन्यां पनसः पनसो यथा ॥ 6.31.29 ॥
नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः।
कुमुदस्तु महातेजा निष्कूजः सायकैः कृतः ॥ 6.31.30 ॥
अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः।
पतितो रुधिरोद्गारी क्षितौ निपतिताङ्गदः ॥ 6.31.31 ॥
हरयो मथिता नागै रथजातैस्तथाऽपरे।
शायिता मृदिताश्चाश्वैर्वायुवेगैरिवाम्बुदाः ॥ 6.31.32 ॥
प्रहृताश्चापरे त्रस्ता हन्यमाना जघन्यतः।
अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः ॥ 6.31.33 ॥
सागरे पतिताः केचित् केचिद्गगनमाश्रिताः।
ऋक्षा वृक्षानुपारूढा वानरीं वृत्तिमाश्रिताः ॥ 6.31.34 ॥
सागरस्य च तीरेषु शैलेषु च वनेषु च।
पिङ्गलास्ते विरूपाक्षैर्बहुभिर्बहवो हताः ॥ 6.31.35 ॥
एवं तव हतो भर्ता ससैन्यो मम सेनया।
क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः ॥ 6.31.36 ॥
ततः परमदुर्धर्षो रावणो राक्षसाधिपः।
सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥ 6.31.37 ॥
राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय।
येन तद्राघवशिरः सङ्ग्रामात् स्वयमाहृतम् ॥ 6.31.38 ॥
विद्युज्जिह्वस्ततो गृह्य शिरस्तत् सशरासनम्।
प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥ 6.31.39 ॥
तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम्।
विद्युज्जिह्वं महाजिह्वं समीपपरिवर्त्तिनम् ॥ 6.31.40 ॥
अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः।
अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥ 6.31.41 ॥
एवमुक्तं तु तद्रक्षः शिरस्तत् प्रियदर्शनम्।
उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥ 6.31.42 ॥
रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत्।
त्रिषु लोकेषु विख्यातं सीतामिदमुवाच च ॥ 6.31.43 ॥
इदं तत्तव रामस्य कार्मुकं ज्यासमायुतम्।
इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ॥ 6.31.44 ॥
स विद्युजिह्वेन सहैव तच्छिरो धनुश्च भूमौ विनीकीर्य रावणः।
विदेहराजस्य सुतां यशस्विनीं ततोऽब्रवीत्तां भव मे वशानुगा ॥ 6.31.45 ॥