ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः।
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥ 6.30.1 ॥
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्।
जातोद्वेगोऽभवत् किञ्चिच्छार्दूलं वाक्यमब्रवीत् ॥ 6.30.2 ॥
अयथावच्च ते वर्णो दीनश्चासि निशाचर।
नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ॥ 6.30.3 ॥
इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत्।
तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ॥ 6.30.4 ॥
न ते चारयितुं शक्या राजन् वानरपुङ्गवाः ॥ 6.30.5 ॥
विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः।
नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते ॥ 6.30.6 ॥
सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः।
प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते ॥ 6.30.7 ॥
बलादू गृहीतो रक्षोभिर्बहुधाऽस्मि विचालितः।
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् ॥ 6.30.8 ॥
परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः।
परिणीय च सर्वत्र नीतोऽहं रामसंसदम् ॥ 6.30.9 ॥
रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः।
हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः ॥ 6.30.10 ॥
राघवेण परित्रातो जीवामीति यदृच्छया ॥ 6.30.11 ॥
एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम्।
द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः ॥ 6.30.12 ॥
गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः।
मां विसृज्य महातेजा लङ्कामेवाभिवर्तते ॥ 6.30.13 ॥
पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु।
सीतां वाऽस्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् ॥ 6.30.14 ॥
मनसा तं तदा प्रेक्ष्य तच्छुत्वा राक्षसाधिपः।
शार्दूलं सुमहद्वाक्यमथोवाच स रावणः ॥ 6.30.15 ॥
यदि मां प्रतियुद्ध्येरन् देवगन्धर्वदानवाः।
नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ 6.30.16 ॥
एवमुक्त्वा महातेजा रावणः पुनरब्रवीत्।
चारिता भवता सेना कोऽत्र शूराः प्लवङ्गमाः ॥ 6.30.17 ॥
कीदृशाः किम्प्रभाः सोम्य वानरा ये दुरासदाः।
कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ॥ 6.30.18 ॥
तथाऽत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम्।
अवश्यं बलसङ्ख्यानं कर्तव्यं युद्धमिच्छताम् ॥ 6.30.19 ॥
तथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः।
इदं वचनमारेभे वक्तुं रावणसन्निधौ ॥ 6.30.20 ॥
अथर्क्षरजसः पुत्रो युधि राजा सुदुर्जयः।
गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ॥ 6.30.21 ॥
गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः।
कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ॥ 6.30.22 ॥
सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान्।
सौम्यः सोमात्मजश्चात्र राजन् दधिमुखः कपिः ॥ 6.30.23 ॥
सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः।
मृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा ॥ 6.30.24 ॥
पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम्।
अनिलस्य च पुत्रोऽत्र हनुमानिति विश्रुतः ॥ 6.30.25 ॥
नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा।
मैन्दश्च द्विविदश्चोभौ बलिनावश्विसम्भवौ ॥ 6.30.26 ॥
पुत्रा वैवस्वतस्यात्र पञ्च कालान्तकोपमाः।
गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ 6.30.27 ॥
दश वानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम्।
श्रीमतां देवपुत्राणां शेषं नाख्यातुमुत्सहे ॥ 6.30.28 ॥
पुत्रो दशरथस्यैष सिंहसंहननो युवा।
दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥ 6.30.29 ॥
नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन।
विराधो निहतो येन कबन्धश्चान्तकोपमः ॥ 6.30.30 ॥
वक्तुं न शक्तो रामस्य नरः कश्चिद् गुणान् क्षितौ।
जनस्थानगता येन यावन्ता राक्षसा हताः ॥ 6.30.31 ॥
लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः।
यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥ 6.30.32 ॥
श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसम्भवौ।
वरुणस्य च पुत्रोऽन्यो हेमकूटः प्लवङ्गमः ॥ 6.30.33 ॥
विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः।
विक्रान्तो बलवानत्र वसुपुत्रः सुदुर्धरः ॥ 6.30.34 ॥
राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः।
परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः ॥ 6.30.35 ॥
इति सर्वं समाख्यातं तवेदं वानरं बलम्।
सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान् गतिः ॥ 6.30.36 ॥