शुकेन तु समाख्यातांस्तान् दृष्ट्वा हरियूथपान्।
समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् ॥ 6.29.1 ॥
लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम्।
सर्ववानरराजं च सुग्रीवं भीमाविक्रमम् ॥ 6.29.2 ॥
किञ्चिदाविग्नहृदयो जातक्रोधश्च रावणः।
भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ ॥ 6.29.3 ॥
अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ।
रोषगद्गदया वाचा संरब्धः परुषं वचः ॥ 6.29.4 ॥
न तावत् सदृशं नाम सचिवैरुपजीविभिः।
विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे प्रभोः ॥ 6.29.5 ॥
रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम्।
उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम् ॥ 6.29.6 ॥
सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते।
गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोह्यते ॥ 6.29.7 ॥
ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम् ॥ 6.29.8 ॥
किन्नु मृत्योर्भयं नास्ति वक्तुं मां परुषं वचः।
यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् ॥ 6.29.9 ॥
अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः।
राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ॥ 6.29.10 ॥
हन्यामहं त्विमौ पापौ शत्रुपक्ष प्रशंसकौ।
यदि पूर्वोपकारैस्तु न क्रोधो मृदुतां व्रजेत् ॥ 6.29.11 ॥
अपध्वंसत गच्छध्वं सन्निकर्षादितो मम।
नहि वां हन्तुमिच्छामि स्मराम्युपकृतानि वाम् ॥ 6.29.12 ॥
हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ ॥ 6.29.13 ॥
एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ।
रावणं जयशब्देन प्रतिनन्द्याभिनिस्सृतौ ॥ 6.29.14 ॥
उपस्थापय मे शीघ्रं चारान्नीतिविशारदान्।
महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयच्चरान् ॥ 6.29.15 ॥
ततश्चाराः सन्त्वरिताः प्राप्ताः पार्थिवशासनात्।
उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा ॥ 6.29.16 ॥
तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः।
चारान् प्रत्यायितान् शूरान् भक्तान् विगतसाध्वसान् ॥ 6.29.17 ॥
इतो गच्छत रामस्य व्यवसायं परीक्षथ।
मन्त्रिष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः ॥ 6.29.18 ॥
कथं स्वपिति जागर्ति किमन्यच्च करिष्यति।
विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः ॥ 6.29.19 ॥
चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः।
युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ॥ 6.29.20 ॥
चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेस्वरम्।
शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ॥ 6.29.21 ॥
ततस्ते तं महात्मानं चारा राक्षससत्तमम्।
कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः ॥ 6.29.22 ॥
ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ।
प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ ॥ 6.29.23 ॥
प्रेक्षमाणाश्चमूं तां च बभूवुर्भयविक्लवाः ॥ 6.29.24 ॥
ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः ॥ 6.29.25 ॥
विभीषणेन तत्रस्था निगृहीता यदृच्छया।
शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः ॥ 6.29.26 ॥
मोचितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः।
आनृशंस्येन रामस्य मोचिता राक्षिसाः परे ॥ 6.29.27 ॥
वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः।
पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः ॥ 6.29.28 ॥
ततो दशग्रीवमुपस्थितास्तु ते चारा बहिर्नित्यचरा निशाचराः।
गिरेः सुवेलस्य समीपवासिनं न्यवेदयन् भीमबलं महाबलाः ॥ 6.29.29 ॥