सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम्।
बलमादिश्य तत्सर्वं शुको वाक्यमथाब्रवीत् ॥ 6.28.1 ॥
स्थितान् पश्यसि यानेतान् मत्तानिव महाद्विपान्।
न्यग्रोधानिव गाङ्गेयान् सालान् हैमवतानिव ॥ 6.28.2 ॥
एते दुष्प्रसहा राजन् बलिनः कामरूपिणः।
दैत्यदानवसङ्काशा युद्धे देवपराक्रमाः ॥ 6.28.3 ॥
एषां कोटिसहस्राणि नव पञ्च च सप्त च।
तथा शङ्खसहस्राणि तथा वृन्दशतानि च ॥ 6.28.4 ॥
एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा।
हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः ॥ 6.28.5 ॥
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ।
मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि ॥ 6.28.6 ॥
ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ।
आशंसेते युथा लङ्कामेतौ मर्दितुमोजसा ॥ 6.28.7 ॥
यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम्।
यो बलात् क्षोभयेत् क्रुद्धः समुद्रमपि वानरः ॥ 6.28.8 ॥
एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो।
एनं पश्य पुरा दृष्टं वानरं पुनरागतम् ॥ 6.28.9 ॥
ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः।
हनुमानिति विख्यातो लङ्घितो येन सागरः ॥ 6.28.10 ॥
कामरूपी हरि श्रेष्ठो बलरूपसमन्वितः।
अनिवार्यगतिश्चैव यथा सततगः प्रभुः ॥ 6.28.11 ॥
उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः।
त्रियोजनसहस्रं तु अध्वानमवतीर्य हि ॥ 6.28.12 ॥
आदित्यमाहरिष्यामि न मे क्षुत् प्रतियास्यति।
इति सञ्चिन्त्य मनसा पुरैष बलदर्पितः ॥ 6.28.13 ॥
अनाधृष्यतमं देवमपि देवर्षिदानवैः।
अनासाद्यैव पतितो भास्करोदयने गिरौ ॥ 6.28.14 ॥
पतितस्य कपेरस्य हनुरेका शिलातले।
किञ्चिद्भिन्ना दृढहनोर्हनुमानेष तेन वै ॥ 6.28.15 ॥
सत्यमागमयोगेन ममैष विदितो हरिः।
नास्य शक्यं बलं रूपं प्रभावो वाऽपि भाषितुम् ॥ 6.28.16 ॥
एष आशंसते लङ्कामेको मर्दितुमोजसा ॥ 6.28.17 ॥
यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः।
इक्ष्वाकूणामतिरथो लोके विख्यातपौरुषः ॥ 6.28.18 ॥
यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते।
यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ॥ 6.28.19 ॥
यो भिन्द्याद्गगनं बाणैः पर्वतानपि दारयेत्।
यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ॥ 6.28.20 ॥
यस्य भार्या जनस्थानात् सीता चापहृता त्वया।
स एष रामस्त्वां योद्धुं राजन् समभिवर्तते ॥ 6.28.21 ॥
यस्यैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः।
विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः ॥ 6.28.22 ॥
एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः।
नये युद्धे च कुशलः सर्वशास्त्रविशारदः ॥ 6.28.23 ॥
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली।
रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः ॥ 6.28.24 ॥
न ह्येष राघवस्यार्थे जीवितं परिरक्षति।
एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान् ॥ 6.28.25 ॥
यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति।
रक्षो गणपरिक्षिप्तो राजा ह्येष विभीषणः ॥ 6.28.26 ॥
श्रीमता राजराजेन लङ्कायामभिषेचितः।
त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते ॥ 6.28.27 ॥
यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम्।
सर्वशाखामृगेन्द्राणां भर्तारमपराजितम् ॥ 6.28.28 ॥
तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च।
यः कपीनतिबभ्राज हिमवानिव पर्वतान् ॥ 6.28.29 ॥
किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम्।
दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः ॥ 6.28.30 ॥
यस्यैषा काञ्चनी माला शोभते शतपुष्करा।
कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता ॥ 6.28.31 ॥
एतां च मालां तारां च कपिराज्यं च शाश्वतम्।
सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥ 6.28.32 ॥
शतं शतसहस्राणां कोटिमाहुर्मनीषिणः।
शतं कोटिसहस्राणां शङ्ख इत्यभिधीयते ॥ 6.28.33 ॥
शतं शङ्खसहस्राणां महाशङ्ख इति स्मृतः।
महाशङ्खसहस्राणां शतं वृन्दमिति स्मृतम् ॥ 6.28.34 ॥
शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम्।
महावृन्दसहस्राणां शतं पद्ममिति स्मृतम् ॥ 6.28.35 ॥
शतं पद्मसहस्राणां महापद्ममिति स्मृतम्।
महापद्म सहस्राणां शतं खर्वमिहोच्यते ॥ 6.28.36 ॥
शतं खर्वसहस्राणां महाखर्वमिति स्मृतम्।
महाखर्वसहस्राणां समुद्रमभिधीयते ॥ 6.28.37 ॥
शतं समुद्रसाहस्रमोघ इत्यभिधीयते।
शतमोघसहस्राणां महौघ इति विश्रुतः ॥ 6.28.38 ॥
एवं कोटिसहस्रेण शङ्खानां च शतेन च।
महाशङ्खसहस्रेण तथा वृन्दशतेन च ॥ 6.28.39 ॥
महावृन्दसहस्रेण तथा पद्मशतेन च।
महापद्मसहस्रेण तथा खर्वशतेन च ॥ 6.28.40 ॥
समुद्रेण शतेनैव महौघेन तथैव च।
एष कोटिमहौघेन समुद्रसदृशेन च ॥ 6.28.41 ॥
विभीषणेन सचिवै राक्षसैः परिवारितः।
सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभि वर्तते ॥ 6.28.42 ॥
महाबलवृतो नित्यं महाबलपराक्रमः ॥ 6.28.43 ॥
इमां महाराज समीक्ष्य वाहिनीमुपस्थितां प्रज्वलितग्रहोपमाम्।
ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराजयः ॥ 6.28.44 ॥