तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम्।
निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥ 6.26.1 ॥
यदि मामभियुञ्जीरन् देवगन्धर्वदानवाः।
नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ 6.26.2 ॥
प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे।
को हि नाम सपत्नो मां समरे जेतुमर्हति ॥ 6.26.3 ॥
इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ॥ 6.26.4 ॥
आरुरोह ततः श्रीमान् प्रासादं हिमपाण्डरम्।
बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया ॥ 6.26.5 ॥
पश्यमानः समुद्रं च पर्वतांश्च वनानि च।
ददर्श पृथिवीदेशं सुसम्पूर्णं प्लवङ्गमैः ॥ 6.26.6 ॥
तदपारमसङ्ख्येयं वानराणां महद्बलम्।
आलोक्य रावणो राजा परिपप्रच्छ सारणम् ॥ 6.26.7 ॥
एषां वानरमुख्यानां के शूराः के महाबलाः।
के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः ॥ 6.26.8 ॥
केषां शृणोति सुग्रीवः के वा यूथपयूथपाः।
सारणाचक्ष्व तत्त्वेन के प्रधानाः प्लवङ्गमाः ॥ 6.26.9 ॥
सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः।
आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः ॥ 6.26.10 ॥
एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः।
यूथपानां सहस्राणां शतेन परिवारितः ॥ 6.26.11 ॥
यस्य घोषेण महता सप्राकारा सतोरणा।
लङ्का प्रवेपते सर्वा सशैलवनकानना ॥ 6.26.12 ॥
सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः।
बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः ॥ 6.26.13 ॥
बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान्।
लङ्कामभिमुखः क्रोधादभीक्ष्णं च विजृम्भते ॥ 6.26.14 ॥
गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसन्निभः ॥ 6.26.15 ॥
स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनःपुनः।
यस्य लाङ्गूलशब्देन स्वनन्ति प्र दिशो दश ॥ 6.26.16 ॥
एष वानरराजेन सुग्रीवेणाभिषेचितः।
योवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे ॥ 6.26.17 ॥
वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः।
राघवार्थे पराक्रान्तः शक्रार्थे वरुणो यथा ॥ 6.26.18 ॥
एतस्य सा मतिः सर्वा यद् दृष्टा जनकात्मजा।
हनूमता वेगवता राघवस्य हितैषिणा ॥ 6.26.19 ॥
बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान्।
परिगृह्याभियाति त्वां स्वेनानीकेन दुर्जयः ॥ 6.26.20 ॥
अनु वालिसुतस्यापि बलेन महता वृतः।
वीरस्तिष्ठति सङ्ग्रामे सेतुहेतुरयं नलः ॥ 6.26.21 ॥
ये तु विष्टभ्य गात्राणि क्ष्वेलयन्ति नदन्ति च।
उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः ॥ 6.26.22 ॥
एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः।
अष्टौ शतसहस्राणि दशकोटिशतानि च ॥ 6.26.23 ॥
य एनमनुगच्छन्ति वीराश्चन्दनवासिनः।
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ 6.26.24 ॥
श्वेतो रजतसङ्काशश्चपलो भीमविक्रमः।
बुद्धिमान् वानरो वीरस्त्रिषु लोकेषु विश्रुतः ॥ 6.26.25 ॥
तूर्णं सुग्रीवमागम्य पुनर्गच्छति सत्वरः।
विभजन् वानरीं सेनामनीकानि प्रहर्षयन् ॥ 6.26.26 ॥
नाम्ना सङ्कोचनो नाम नानानगयुतो गिरिः।
तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ॥ 6.26.27 ॥
योऽसौ शतसहस्राणां सहस्रं परिकर्षति ॥ 6.26.28 ॥
यस्य वाला बहुव्यामा दीर्घा लाङ्गूलमाश्रिताः।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥ 6.26.29 ॥
अदीनो रोषणश्चण्डः सङ्ग्राममभिकाङ्क्षति।
एषोऽप्याशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ 6.26.30 ॥
यस्त्वेष सिंहसङ्काशः कपिलो दीर्घलोचनः।
निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा ॥ 6.26.31 ॥
विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम्।
राजन् सततमध्यास्ते रम्भो नामैष यूथपः ॥ 6.26.32 ॥
यमेते वानराः शूराश्चण्डाश्चण्डपराक्रमाः।
परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा ॥ 6.26.33 ॥
यस्तु कर्णौ विवृणुते जृम्भते च पुनःपुनः।
न च संविजते मृत्योर्न च युद्धाद्विधावति ॥ 6.26.34 ॥
प्रकम्पते च रोषेण तिर्यक् च पुनरीक्षते।
पश्यन् लाङ्गूलमपि च क्ष्वेलते च महाबलः ॥ 6.26.35 ॥
महाजवो वीतभयो रम्यं साल्वेयपर्वतम्।
राजन् सततमध्यास्ते शरभो नाम यूथपः ॥ 6.26.36 ॥
एतस्य बलिनः सर्वे विहारा नाम यूथपाः।
राजन् शतसहस्राणि चत्वारिंशत्तथैव च ॥ 6.26.37 ॥
यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति।
मध्ये वानरवीराणां सुराणामिव वासवः ॥ 6.26.38 ॥
भेरीणामिव सन्नादो यस्यैष श्रूयते महान्।
घोषः शाखामृगेन्द्राणां सङ्ग्राममभिकाङ्क्षताम् ॥ 6.26.39 ॥
एष पर्वतमध्यास्ते पारियात्रमनुत्तमम्।
युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः ॥ 6.26.40 ॥
एनं शतसहस्राणां शतार्धं पर्युपासते।
यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः ॥ 6.26.41 ॥
यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन्।
स्थितां तीरे समुद्रस्य द्वितीय इव सागरः ॥ 6.26.42 ॥
एष दर्दरसङ्काशो विनतो नाम यूथपः।
पिबंश्चरति पर्णासां नदीनामुत्तमां नदीम् ॥ 6.26.43 ॥
षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः ॥ 6.26.44 ॥
त्वामाह्वयति युद्धाय क्रोधनो नाम यूथपः।
विक्रान्ता बलवन्तश्च यथायूथानि भागशः ॥ 6.26.45 ॥
यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः।
अवमत्य सदा सर्वान् वानरान् बलदर्पितान् ॥ 6.26.46 ॥
एनं शतसहस्राणि सप्ततिः पर्युपासते।
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ 6.26.47 ॥
एते दुष्प्रसहा घोरा बलिनः कामरूपिणः।
यूथपा यूथपश्रेष्ठा एषां यूथानि भागशः ॥ 6.26.48 ॥