०२५ शुकेन रावणाय रामसैन्यबलवर्णनम्

सबले सागरं तीर्णे रामे दशरथात्मजे।
अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ ॥ 6.25.1 ॥
समग्रं सागरं तीर्णं दुस्तरं वानरं बलम्।
अभूतपूर्वं रामेण सागरे सेतुबन्धनम् ॥ 6.25.2 ॥
सागरे सेतुबन्धं तु न श्रद्दध्यां कथञ्चन।
अवश्यं चापि सङ्ख्येयं तन्मया वानरं बलम् ॥ 6.25.3 ॥
भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ।
परिमाणं च वीर्यं च ये च मुख्याः प्लवङ्गमाः ॥ 6.25.4 ॥
मन्त्रिणो ये च रामस्य सुग्रीवस्य च सम्मताः।
ये पूर्वमभिवर्तन्ते ये च शूराः प्लवङ्गमाः ॥ 6.25.5 ॥
स च सेतुर्यथा बद्धः सागरे सलिलार्णवे।
निवेशं यद्यथा तेषां वानराणां महात्मनाम् ॥ 6.25.6 ॥
रामस्य व्यवसायं च वीर्यं प्रहरणानि च।
लक्ष्मणस्य च वीर्यं च तत्त्वतो ज्ञातुमर्हथः ॥ 6.25.7 ॥
कश्च सेनापतिस्तेषां वानराणां महौजसाम्।
एतज्ज्ञात्वा यथातत्त्वं शीघ्रमागन्तुमर्हथः ॥ 6.25.8 ॥
इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ।
हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम् ॥ 6.25.9 ॥
ततस्तद्वानरं सैन्यमचिन्त्यं रोमहर्षणम्।
सङ्ख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ ॥ 6.25.10 ॥
संस्थितं पर्वताग्रेषु निर्दरेषु गुहासु च।
समुद्रस्य च तीरेषु वनेषूपवनेषु च ॥ 6.25.11 ॥
निविष्टं निविशच्चैव भीमनादं महाबलम्।
तद्बलार्णवमक्षोभ्यं ददृशाते निशाचरौ ॥ 6.25.12 ॥
तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः।
आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ ॥ 6.25.13 ॥
तस्येमौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ।
लङ्कायाः समनुप्राप्तौ चारौ परपुरञ्जय ॥ 6.25.14 ॥
तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा।
कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः ॥ 6.25.15 ॥
आवामिहागतौ सौम्य रावणप्रहितावुभौ।
परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन ॥ 6.25.16 ॥
तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः।
अब्रवीत् प्रहसन् वाक्यं सर्वभूतहिते रतः ॥ 6.25.17 ॥
यदि दृष्टं बलं कृत्स्रं वयं वा सुपरीक्षिताः।
यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम् ॥ 6.25.18 ॥
अथ किञ्चिददृष्टं वा भूयस्तद्द्रष्टुमर्हथः।
विभीषणो वा कार्त्स्न्येन भूयः सन्दर्शयिष्यति ॥ 6.25.19 ॥
न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति।
न्यस्तशस्त्रौ गृहीतौ वा न दूतौ वधमर्हथः ॥ 6.25.20 ॥
पृच्छमानौ विमुञ्चैतौ चारौ रात्रिञ्चरावुभौ।
शत्रुपक्षस्य सततं विभीषण विकर्षणौ ॥ 6.25.21 ॥
प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः।
वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम ॥ 6.25.22 ॥
यद्बलं च समाश्रित्य सीतां मे हृतवानसि।
तद्दर्शय यथाकामं ससैन्यः सहबान्धवः ॥ 6.25.23 ॥
श्वः काल्ये नगरीं लङ्कां सप्राकारां सतोरणाम्।
राक्षसं च बलं पश्य शरैर्विध्वंसितं मया ॥ 6.25.24 ॥
क्रोधं भीममहम्मोक्ष्ये ससैन्ये त्वयि रावण।
श्वः काल्ये वज्रवान् वज्रं दानवेष्विव वासवः ॥ 6.25.25 ॥
जयेति प्रतिनन्द्यैतौ राघवं धर्मवत्सलम्।
आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम् ॥ 6.25.26 ॥
विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर।
दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा ॥ 6.25.27 ॥
एकस्थानगता यत्र चत्वारः पुरुषर्षभाः।
लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः ॥ 6.25.28 ॥
रामो दाशरथिः श्रीमान् लक्ष्मणश्च विभीषणः।
सुग्रीवश्च महातेजा महेन्द्रसमाविक्रमः ॥ 6.25.29 ॥
एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्।
अत्पाट्य सङ्क्रामयितुं सर्वे तिष्ठन्तु वानराः ॥ 6.25.30 ॥
यादृशं तस्य रामस्य रूपं प्रहरणानि च।
वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः ॥ 6.25.31 ॥
रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी।
बभूव दुर्धर्षतरा सेन्द्रैरपि सुरासुरैः ॥ 6.25.32 ॥
प्रहृष्टरूपा ध्वजिनी वनौकसां महात्मनां सम्प्रति योद्धुमिच्छताम्।
अलं विरेधेन शमो विधीयतां प्रदीयतां दाशरथाय मैधिली ॥ 6.25.33 ॥