०२४ रामेण शुकनिर्बन्धनाज्ञा

सा वीरसमिती राज्ञा विरराज व्यवस्थिता।
शशिना शुभनक्षत्रा पौर्णमासीव शारदी ॥ 6.24.1 ॥
प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा।
पीड्यमाना बलौघेन तेन सागरवर्चसा ॥ 6.24.2 ॥
ततः शुश्रुवुराक्रुष्टं लङ्कायां काननोकसः।
भेरीमृदङ्गसङ्घुष्टं तुमुलं रोमहर्षणम् ॥ 6.24.3 ॥
बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः।
अमृष्यमाणास्तं घोषं विनेदुर्घोषवत्तरम् ॥ 6.24.4 ॥
राक्षसास्तु प्लवङ्गानां शुश्रुवुश्चापि गर्जितम्।
नर्दतामिव दृप्तानां मेघानामम्बरे स्वनम् ॥ 6.24.5 ॥
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम्।
जगाम मनसा सीतां दूयमानेन चेतसा ॥ 6.24.6 ॥
अत्र सा मृगशावाक्षी रावणेनोपरुद्ध्यते।
अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ॥ 6.24.7 ॥
दीर्घमुष्णं च निश्वस्य समुद्वीक्ष्य च लक्ष्मणम्।
उवाच वचनं वीरस्तत्कालहितमात्मनः ॥ 6.24.8 ॥
आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण।
मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा ॥ 6.24.9 ॥
विमानैर्बहुभिर्लङ्का सङ्कीर्णा भुवि राजते।
विष्णोः पदमिवाकाशं छादितं पाण्डरैर्घनैः ॥ 6.24.10 ॥
पुष्पितैः शोभिता लङ्का वनैश्चैत्ररथोपमैः।
नानापतङ्गसङ्घुष्टैः फलपुष्पोपगैः शुभैः ॥ 6.24.11 ॥
पश्य मत्तविहङ्गानि प्रलीनभ्रमराणि च।
कोकिलाकुलषण्डानि दोधवीति शिवोऽनिलः ॥ 6.24.12 ॥
इति दाशरथी रामो लक्ष्मणं समभाषत ॥ 6.24.13 ॥
बलं च तद्वै विभजन् शास्त्रदृष्टेन कर्मणा।
शशास कपिसेनाया बलमादाय वीर्यवान् ॥ 6.24.14 ॥
अङ्गदः सह नीलेन तिष्ठेदुरसि दुर्जयः ॥ 6.24.15 ॥
तिष्ठेद्वानरवाहिन्या वानरौघसमावृतः।
आश्रित्य दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ 6.24.16 ॥
गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः।
तिष्ठेद्वानरवाहिन्याः सव्यं पार्श्वं समाश्रितः ॥ 6.24.17 ॥
मूर्ध्नि स्थास्याम्यहं युक्तो लक्ष्मणेन समन्वितः ॥ 6.24.18 ॥
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः।
ऋक्षमुख्या महात्मानः कुक्षिं रक्षन्तु ते त्रयः ॥ 6.24.19 ॥
जघनं कपिसेनायाः कपिराजोऽभिरक्षतु।
पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः ॥ 6.24.20 ॥
सुविभक्तमहाव्यूहा महावानररक्षिता।
अनीकिनी सा विभभौ यथा द्यौः साभ्रसम्प्लवा ॥ 6.24.21 ॥
प्रगृह्य गिरिशृङ्गाणि महतश्च महीरुहान्।
आसेदुर्वानरा लङ्कां विमर्दयिषवो रणे ॥ 6.24.22 ॥
शिखरैर्विकिरामैनां लङ्कां मुष्टिभिरेव वा।
इति स्म दधिरे सर्वे मनांसि हरिसत्तमाः ॥ 6.24.23 ॥
ततो रामो महातेजाः सुग्रीवमिदमब्रवीत्।
सुविभक्तानि सैन्यानि शुक एष विमुच्यताम् ॥ 6.24.24 ॥
रामस्य वचनं श्रुत्वा वानरेन्द्रो महाबलः।
मोचयामास तं दूतं शुकं रामस्य शासनात् ॥ 6.24.25 ॥
मोचितो रामवाक्येन वानरैश्चाभिपीडितः।
शुकः परमसन्त्रस्तो रक्षोधिपमुपागमत् ॥ 6.24.26 ॥
किमिमौ ते सितौ पक्षौ लूनपक्षश्च दृश्यसे।
कच्चिन्नानेकचित्तानां तेषां त्वं वशमागतः ॥ 6.24.27 ॥
ततः स भयसंविग्नस्तथा राज्ञाऽभिचोदितः।
वचनं प्रत्युवाचेदं राक्षसाधिपमुत्तमम् ॥ 6.24.28 ॥
सागरस्योत्तरे तीरे ब्रुवंस्ते वचनं तथा।
यथासन्देशमक्लिष्टं सान्त्वयं श्लक्ष्णया गिरा ॥ 6.24.29 ॥
क्रुद्धैस्तैरहमुत्प्लुत्य दृष्टमात्रैः प्लवङ्गमेः।
गृहीतोऽस्म्यपि चारब्धो हन्तुं लोप्तुं च मुष्टिभिः ॥ 6.24.30 ॥
नैव सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते।
प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिप ॥ 6.24.31 ॥
स च हन्ता विराधस्य कबन्धस्य खरस्य च।
सुग्रीवसहितो रामः सीतायाः पदमागतः ॥ 6.24.32 ॥
स कृत्वा सागरे सेतुं तीर्त्वा च लवणोदधिम्।
एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ॥ 6.24.33 ॥
ऋक्षवानरसङ्घानामनीकानि सहस्रशः।
गिरिमेघनिकाशानां छादयन्ति वसुन्धराम् ॥ 6.24.34 ॥
राक्षसानां बलौघस्य वानरेन्द्रबलस्य च।
नैतयोर्विद्यते सन्धिर्देवदानवयोरिव ॥ 6.24.35 ॥
पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु।
सीतां वाऽस्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् ॥ 6.24.36 ॥
शुकस्य वचनं श्रुत्वा रावणो वाक्यमब्रवीत्।
रोषसंरक्तनयनो निर्दहन्निव चक्षुषा ॥ 6.24.37 ॥
यदि मां प्रति युद्ध्येरन् देवगन्धर्वदानवाः।
नैव सीतां प्रयच्छामि सर्वलोकभयादपि ॥ 6.24.38 ॥
कदा नामाभिधावन्ति राघवं मामकाः शराः।
वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम् ॥ 6.24.39 ॥
कदा तूणीशयैर्दीप्तैर्गणशः कार्मुकच्युतैः।
शरैरादीपयाम्येनमुल्काभिरिव कुञ्जरम् ॥ 6.24.40 ॥
तच्चास्य बलमादास्ये बलेन महता वृतः।
ज्योतिषामिव सर्वेषां प्रभामुद्यन् दिवाकरः ॥ 6.24.41 ॥
सागरस्येव मे वेगो मारुतस्येव मे गतिः।
न हि दाशरथिर्वेद तेन मां योद्धुमिच्छति ॥ 6.24.42 ॥
न मे तूणीशयान् बाणान् सविषानिव पन्नगान्।
रामः पश्यति सङ्ग्रामे तेन मां योद्धुमिच्छति ॥ 6.24.43 ॥
न जानाति पुरा वीर्यं मम युद्धे स राघवः ॥ 6.24.44 ॥
मम चापमयीं वीणां शरकोणैः प्रवादिताम्।
ज्याशब्दतुमुलां घोरामार्तभीतमहास्वनाम् ॥ 6.24.45 ॥
नाराचतलसन्नादां तां ममाहितवाहिनीम्।
अवगाह्य महारङ्गं वादयिष्याम्यहं रणे ॥ 6.24.46 ॥
न वासवेनापि सहस्रचक्षुषा यथाऽस्मि शक्यो वरुणेन वा स्वयम्।
यमेन वा धर्षयितुं शराग्निना महाहवे वैश्रवणेन वा पुनः ॥ 6.24.47 ॥