निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः।
सौमित्रिं सम्परिष्वज्य इदं वचनमब्रवीत् ॥ 6.23.1 ॥
परिगृह्योदकं शीतं वनानि फलवन्ति च।
बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण ॥ 6.23.2 ॥
लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्।
निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥ 6.23.3 ॥
वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा।
पर्वताग्राणि वेपन्ते पतन्ति च महीरुहाः ॥ 6.23.4 ॥
मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः।
क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः ॥ 6.23.5 ॥
रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा।
ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥ 6.23.6 ॥
दीना दीनस्वराः क्रूराः सर्वतो मृगपाक्षिणः।
प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम् ॥ 6.23.7 ॥
रजन्यामप्रकाशस्तु सन्तापयति चन्द्रमाः ॥ 6.23.8 ॥
कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः।
ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः ॥ 6.23.9 ॥
आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते ॥ 6.23.10 ॥
रजसा महता चापि नक्षत्राणि हतानि च।
युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण ॥ 6.23.11 ॥
काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च।
शिवाश्चाप्यशिवान्नादान्नदन्ति सुमहाभयान् ॥ 6.23.12 ॥
शैलैः शूलैश्च खड्गैश्च विसृष्टैः कपिराक्षसैः।
भविष्यत्यावृता भूमिर्मांसशोणितकर्दमा ॥ 6.23.13 ॥
क्षिप्रमद्यैव दुर्धर्षां पुरीं रावणपालिताम्।
अभियाम जवेनैव सर्वतो हरिभिर्वृताः ॥ 6.23.14 ॥
इत्येवमुक्त्वा धर्मात्मा धन्वी सङ्ग्रामहर्षणः।
प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥ 6.23.15 ॥
सविभीषणसुग्रीवास्ततस्ते वानरर्षभाः।
प्रतस्थिरे विनर्दन्तो निश्चिता द्विषतां वधे ॥ 6.23.16 ॥
राघवस्य प्रियार्थं तु धृतानां वीर्यशालिनाम्।
हरीणां कर्मचेष्टाभिस्तुतोष रघुनन्दनः ॥ 6.23.17 ॥