अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः।
अद्य त्वां शोषयिष्यामि सपातालं महार्णव ॥ 6.22.1 ॥
शरनिर्दग्धतोयस्य परिशुष्कस्य सागर।
मया शोषितसत्त्वस्य पांसुरुत्पद्यते महान् ॥ 6.22.2 ॥
मत्कार्मुकविसृष्टेन शरवर्षेण सागर।
पारं तेऽद्य गमिष्यन्ति पद्भिरेव प्लवङ्गमाः ॥ 6.22.3 ॥
विचिन्वन्नाभिजानासि पौरुषं वापि विक्रमम्।
दानवालय सन्तापं मत्तो नाधिगमिष्यसि ॥ 6.22.4 ॥
ब्राह्मेणस्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम्।
संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः ॥ 6.22.5 ॥
तस्मिन् विकृष्टे सहसा राघवेण शरासने।
रोदसी सम्पफालेव पर्वताश्च चकम्पिरे ॥ 6.22.6 ॥
तमश्च लोकमावव्रे दिशश्च न चकाशिरे।
परिचुक्षुभिरे चाशु सरांसि सरितस्तथा ॥ 6.22.7 ॥
तिर्यक् च सह नक्षत्रैः सङ्गतौ चन्द्रभास्करौ।
भास्करांशुभिरादीप्तं तमसा च समावृतम् ॥ 6.22.8 ॥
प्रचकाशे तदाऽऽकाशमुल्काशतविदीपितम्।
अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः ॥ 6.22.9 ॥
पुस्फुरुश्च घना दिव्या दिवि मारुतपङ्क्तयः ॥ 6.22.10 ॥
बभञ्ज च तदा वृक्षान् जलदानुद्वहन्नपि।
अरुजंश्चैव शेलाग्रान् शिखराणि प्रभञ्जनः ॥ 6.22.11 ॥
दिविस्पृशो महामेघाः सङ्गताः समहास्वनाः।
मुमुचुर्वैद्युतानग्नींस्ते महाशनयस्तदा ॥ 6.22.12 ॥
यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम्।
अदृश्यानि च भूतानि ममुचुर्भैरवस्वनम् ॥ 6.22.13 ॥
शिश्यिरे चापि भूतानि सन्त्रस्तान्युद्विजन्ति च।
सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात् ॥ 6.22.14 ॥
सह भूतैः सतोयोर्मिः सनागः सह राक्षसः।
सहसाऽभूत्ततो वेगाद्भीमवेगो महोदधिः ॥ 6.22.15 ॥
तं तदा समतिक्रान्तं नातिचक्राम राघवः।
समुद्धतममित्रघ्नो रामो नदनदीपतिम् ॥ 6.22.16 ॥
ततो मध्यात् समुद्रस्य सागरः स्वयमुत्थितः।
उदयन् हि महाशैलान्मेरोरिव दिवाकरः ॥ 6.22.17 ॥
पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत।
स्निग्धवैडूर्यसङ्काशो जाम्बूनदविभूषितः ॥ 6.22.18 ॥
रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः।
सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम् ॥ 6.22.19 ॥
जातरूपमयैश्चैव तपनीयविभूषितैः।
आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः ॥ 6.22.20 ॥
धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव।
एकावलीमध्यगतं तरलं पाण्डरप्रभम् ॥ 6.22.21 ॥
विपुलेनोरसा बिभ्रत् कौस्तुभस्य सहोदरम्।
आघूर्णिततरङ्गौघः कालिकानिलसङ्कुलः ॥ 6.22.22 ॥
सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान्।
अब्रवीत् प्राञ्जलिर्वाक्यं राघवं शरपाणिनम् ॥ 6.22.23 ॥
पृथिवी वायुराकाशमापो ज्योतिश्च राघव।
स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः ॥ 6.22.24 ॥
तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः।
विकारस्तु भवेद्गाध एतत्ते प्रवदाम्यहम् ॥ 6.22.25 ॥
न कामान्न च लोभाद्वा न भयात् पार्थिवात्मज।
ग्राहनक्राकुलजलं स्तम्भयेयं कथञ्चन ॥ 6.22.26 ॥
विधास्ये राम येनापि विषहिष्ये ह्यहं तथा।
ग्राहा न प्रहरिष्यन्ति यावत् सेना तरिष्यति ॥ 6.22.27 ॥
हरीणां तरणे राम करिष्यामि यथा स्थलम् ॥ 6.22.28 ॥
तमब्रवीत्तदा राम उद्यतो हि नदीपते।
अमोधोऽयं महाबाणः कस्मिन् देशे निपात्यताम् ॥ 6.22.29 ॥
रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम्।
महोदधिर्महातेजा राघवं वाक्यमब्रवीत् ॥ 6.22.30 ॥
उत्तरेणावकाशोऽस्ति कश्चित् पुण्यतमो मम।
द्रुमकुल्य इति ख्यतो लोके ख्यातो यथा भवान् ॥ 6.22.31 ॥
उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः।
आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम ॥ 6.22.32 ॥
तैस्तु संस्पर्शनं प्राप्तैर्न सहे पापकर्मभिः।
अमोघः क्रियतां राम तत्र तेषु शरोत्तमः ॥ 6.22.33 ॥
तस्य तद्वचनं श्रुत्वा सागरस्य स राघवः।
मुमोच तं शरं दीप्तं वीरः सागरदर्शनात् ॥ 6.22.34 ॥
तेन तं मरुकान्तारं पृथिव्यां खलु विश्रुतम्।
निपातितः शरो यत्र दीप्ताशनिसमप्रभः ॥ 6.22.35 ॥
ननाद च तदा तत्र वसुधा शल्यपीडिता।
तस्माद्व्रणमुखात्तोयमुत्पपात रसातलात् ॥ 6.22.36 ॥
स बभूव तदा कूपो व्रण इत्यभिविश्रुतः।
सततं चोत्थितं तोयं समुद्रस्येव दृश्यते ॥ 6.22.37 ॥
अवदारणशब्दश्च दारुणः समपद्यत ॥ 6.22.38 ॥
तस्मात्तद्बाणपातेन त्वपः कुक्षिष्वशोषयत् ॥ 6.22.39 ॥
विख्यातं त्रिषु लोकेषु मरुकान्तरामेव तत् ॥ 6.22.40 ॥
शोषयित्वा ततः कुक्षिं रामो दशरथात्मजः।
वरं तस्मै ददौ विद्वान् मरवेऽमरविक्रमः ॥ 6.22.41 ॥
पशव्यश्चाल्परोगश्च फलमूलरसायुतः।
बहुस्नेहो बहुक्षीरस्सुगन्धिर्विविधौषधः ॥ 6.22.42 ॥
एवमेतैर्गुणैर्युक्तो बहुभिः सततं मरुः।
रामस्य वरदानाच्च शिवः पन्था बभूव ह ॥ 6.22.43 ॥
तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरितां पतिः।
राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत् ॥ 6.22.44 ॥
अयं सौम्य नलो नाम तनुजो विश्वकर्मणः।
पित्रा दत्तवरः श्रीमान् प्रतिमो विश्वकर्मणा ॥ 6.22.45 ॥
एष सेतुं महोत्साहः करोतु मयि वानरः।
तमहं धारिष्यामि तथा ह्येष यथा पिता ॥ 6.22.46 ॥
एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्तदा।
अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः ॥ 6.22.47 ॥
अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये।
पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः ॥ 6.22.48 ॥
दण्ड एव वरो लोके पुरुषस्येति मे मतिः।
धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा ॥ 6.22.49 ॥
अयं हि सागरो भीमः सेतुकर्मदिदृक्षया।
ददौ दण्डभयाद्गाधं राघवाय महोदधिः ॥ 6.22.50 ॥
मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा।
औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा ॥ 6.22.51 ॥
स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः।
न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान् ॥ 6.22.52 ॥
समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये।
काममद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः ॥ 6.22.53 ॥
ततोऽतिसृष्टा रामेण सर्वतो हरियूथपाः।
अबिपेतुर्महारण्यं हृष्टाः शतसहस्रशः ॥ 6.22.54 ॥
ते नगान्नगसङ्काशाः शाखामृगगणर्षभाः।
बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम् ॥ 6.22.55 ॥
ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः।
कुटजैरर्जुनैस्तालैस्तिलकैस्तिमिशैरपि ॥ 6.22.56 ॥
बिल्वैश्च सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः।
चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन् ॥ 6.22.57 ॥
समूलांश्च विमूलांश्च पादपान् हरिसत्तमाः।
इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून् ॥ 6.22.58 ॥
तालान् दाडिमगुल्मांश्च नारिकेलान् विभीतकान्।
वकुलान् खदिरान्निम्बान् समाजह्रुः समन्ततः ॥ 6.22.59 ॥
हस्तिमात्रान् महाकायाः पाषाणांश्च महाबलाः।
पर्वतांश्च समुत्पाट्य यन्त्रैः परिवहन्ति च ॥ 6.22.60 ॥
प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम्।
समुत्पतितमाकाशमुपासर्पत्ततस्ततः ॥ 6.22.61 ॥
समुद्रं श्रोभयामासुर्वानराश्च समन्ततः।
सूत्राण्यन्ये प्रगृह्णन्ति व्यायतं शतयोजनम् ॥ 6.22.62 ॥
नलश्चक्रे महासेतुं मध्ये नदनदीपतेः।
स तथा क्रियते सेतुर्वानरैर्घोरकर्मभिः ॥ 6.22.63 ॥
दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथा परे ॥ 6.22.64 ॥
वानराः शतशस्तत्र रामस्याज्ञापुरस्सराः।
मेघाभैः पर्वताग्रैश्च तृणैः काष्ठैर्बबन्धिरे ॥ 6.22.65 ॥
पुष्पिताग्रैश्च तरुभिः सेतुं बध्नन्ति वानराः ॥ 6.22.66 ॥
पाषाणांश्च गिरिप्रख्यान् गिरीणां शिखराणि च।
दृश्यन्ते परिधावन्तो गृह्यवारणसन्निभाः ॥ 6.22.67 ॥
शिलानां क्षिप्यमाणानां शैलानां च निपात्यताम्।
बभूव तुमुलः शब्दस्तदा तस्मिन् महोदधौ ॥ 6.22.68 ॥
कृतानि प्रथमेनाह्ना योजनानि चतुर्दश।
प्रहृष्टैर्गजसङ्काशैस्त्वरमाणैः प्लवङ्गमैः ॥ 6.22.69 ॥
द्वितीयेन तथा चाह्ना योजनानि तु विंशतिः।
कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः ॥ 6.22.70 ॥
अह्ना तृतीयेन तथा योजनानि कृतानि तु।
त्वरमाणैर्महाकायैरेकविंशतिरेव च ॥ 6.22.71 ॥
चतुर्थेन तथा चाह्ना द्वाविंशतिरथापि च।
योजनानि महावेगैः कृतानि त्वरितैस्तु तैः ॥ 6.22.72 ॥
पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः।
योजनानि त्रयोविंशत्सुवेलमधिकृत्य वै ॥ 6.22.73 ॥
स वानरवरः श्रीमान् विश्वकर्मात्मजो बली।
बबन्ध सागरे सेतुं यथा चास्य पिता तथा ॥ 6.22.74 ॥
स नलेन कृतः सेतुः सागरे मकारालये।
शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे ॥ 6.22.75 ॥
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम् ॥ 6.22.76 ॥
दशयोजनविस्तीर्णं शतयोजनमायतम्।
ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम् ॥ 6.22.77 ॥
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥ 6.22.78 ॥
तदचिन्त्यमसह्यं च अद्भुतं रोमहर्षणम्।
ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् ॥ 6.22.79 ॥
तानि कोटिसहस्राणि वानराणां महौजसाम्।
बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः ॥ 6.22.80 ॥
विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः।
अशोभत महासेतुः सीमन्त इव सागरे ॥ 6.22.81 ॥
ततः पारे समुद्रस्य गदापाणिर्विभीषणः।
परेषामभिघातार्थमतिष्ठत् सचिवैः सह ॥ 6.22.82 ॥
सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम्।
हनुमन्तं त्वमारोह अङ्गदं चापि लक्ष्मणः ॥ 6.22.83 ॥
अयं हि विपुलो वीर सागरो मकारालयः।
वैहायसौ युवामेतौ वानरौ तारयिष्यतः ॥ 6.22.84 ॥
अग्रतस्तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः।
जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः ॥ 6.22.85 ॥
अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवङ्गमाः।
सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे ॥ 6.22.86 ॥
केचिद्वैहायसगताः सुपर्णा इव पुप्लुवुः ॥ 6.22.87 ॥
घोषेण महता तस्य सिन्धोर्घोषं समुच्छ्रितम्।
भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी ॥ 6.22.88 ॥
वानराणां हि सा तीर्णा वाहिनी नलसेतुना।
तीरे निविविशे राज्ञो बहुमूलफलोदके ॥ 6.22.89 ॥
तदद्भुतं राघवकर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः।
उपेत्य रामं सहसा महर्षिभिः समभ्यषिञ्चन् सुशुभैर्जलैः पृथक् ॥ 6.22.90 ॥
जय स्वशत्रून् नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः।
इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन् ॥ 6.22.91 ॥