०२१ रामेण समुद्रक्रोधः

अञ्जलिं प्राङ्मुखः कृत्वा प्रतिशिश्ये महोदधेः।
बाहुं भुजगभोगाभमुपधायारिसूदनः ॥ 6.21.1 ॥
जातरूपमयैश्चैव भूषणैर्भूषितं पुरा ॥ 6.21.2 ॥
वरकाञ्चनकेयूरमुक्ताप्रवरभूषणैः।
भुजैः परमनारीणामभिमृष्टमनेकधा ॥ 6.21.3 ॥
चन्दनागरुभिश्चैव पुरस्तादधिवासितम्।
बालसूर्यप्रतीकाशैश्चन्दनैरुपशोभितम् ॥ 6.21.4 ॥
शयने चोत्तमाङ्गेन सीतायाः शोभितं पुरा।
तक्षकस्येव सम्भोगं गङ्गाजलनिषेवितम् ॥ 6.21.5 ॥
संयुगे युगसङ्काशं शत्रूणां शोकवर्द्धनम्।
सुहृदानन्दनं दीर्घं सागरान्तव्यपाश्रयम् ॥ 6.21.6 ॥
अस्यता च पुनः सव्यं ज्याघातविगतत्वचम्।
दक्षिणो दक्षिणं बाहुं महापरिघसन्निभम् ॥ 6.21.7 ॥
गोसहस्रप्रदातारमुपधाय महद्भुजम्।
अद्य मे मरणं वाऽथ तरणं सागरस्य वा ॥ 6.21.8 ॥
इति रामो मतिं कृत्वा महाबाहुर्महोदधिम्।
अधिशिश्ये स विधिवत् प्रयतो नियतो मुनिः ॥ 6.21.9 ॥
तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले।
नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः ॥ 6.21.10 ॥
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः।
उपासत तदा रामः सागरं सरितां पतिम् ॥ 6.21.11 ॥
न च दर्शयते मन्दस्तदा रामस्य सागरः।
प्रयतेनापि रामेण यथार्हमभिपूजितः ॥ 6.21.12 ॥
समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः।
समीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम् ॥ 6.21.13 ॥
अवलेपः समुद्रस्य न दर्शयति यत्स्वयम् ॥ 6.21.14 ॥
प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता।
असामर्थ्यं फलन्त्येते निर्गुणेषु सतां गुणाः ॥ 6.21.15 ॥
आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम्।
सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् ॥ 6.21.16 ॥
न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः।
प्राप्तुं लक्ष्मण लोकेऽस्मिन् जयो वा रणमूर्द्धनि ॥ 6.21.17 ॥
अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम्।
निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः ॥ 6.21.18 ॥
महाभोगानि मत्स्यानां करिणां च करानिह।
भोगिनां पश्य नागानां मया छिन्नानि लक्ष्मण ॥ 6.21.19 ॥
सशङ्खशुक्तिकाजालं समीनमकरं शरैः।
अद्य युद्धेन महता समुद्रं परिशोषये ॥ 6.21.20 ॥
क्षमया हि समायुक्तं मामयं मकरालयः।
असमर्थं विजानाति धिक् क्षमामीदृशे जने ॥ 6.21.21 ॥
न दर्शयति साम्ना मे सागरो रूपमात्मनः ॥ 6.21.22 ॥
चापमानय सौमित्रे शरांश्चाशीविषोपमान्।
सागरं शोषयिष्यामि पद्भ्यां यान्तु प्लवङ्गमाः ॥ 6.21.23 ॥
अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् ॥ 6.21.24 ॥
वेलासु कृतमर्यादं सहसोर्मिसमाकुलम्।
निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् ॥ 6.21.25 ॥
महार्णवं क्षोभयिष्ये महादानवसङ्कुलम् ॥ 6.21.26 ॥
एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः।
बभूव रामो दुर्द्धर्षो युगान्ताग्निरिव ज्वलन् ॥ 6.21.27 ॥
सम्पीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत्।
मुमोच विशिखानुग्रान् वज्रानिव शतक्रतुः ॥ 6.21.28 ॥
ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः।
प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् ॥ 6.21.29 ॥
तोयवेगः समुद्रस्य सनक्रमकरो महान्।
सम्बभूव महाघोरः समारुतरवस्तदा ॥ 6.21.30 ॥
महोर्मिमालाविततः शङ्खशुक्तिसमावृतः।
सधूमपरिवृत्तोर्मिः सहसाऽऽसीन्महोदधिः ॥ 6.21.31 ॥
व्यथिताः पन्नगाश्चासन् दीप्तास्या दीप्तलोचनाः।
दानवाश्च महावीर्याः पातालतलवासिनः ॥ 6.21.32 ॥
ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा।
बिन्ध्यमन्दरसङ्काशाः समुत्पेतुः सहस्रशः ॥ 6.21.33 ॥
आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः।
उद्वर्तितमहाग्राहः संवृत्तः सलिलाशयः ॥ 6.21.34 ॥
ततस्तु तं राघवमुग्रवेगं प्रकर्षमाणं धनुरप्रमेयम्।
सौमित्रिरुत्पत्य समुच्छ्वसन्तं मा मेति चोक्त्वा धनुराललम्बे ॥ 6.21.35 ॥