०२० रावणेन स्वामात्यशुकप्रेषणम्

ततो निविष्टां ध्वजिनीं सुग्रीवेणाभिपालिताम्।
ददर्श राक्षसोऽभ्येत्य शार्दूलो नाम वीर्यवान् ॥ 6.20.1 ॥
तां दृष्ट्वा सर्वतो व्यग्रं प्रतिगम्य स राक्षसः।
प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ॥ 6.20.2 ॥
एष वानरऋक्षौघो लङ्कां समभिवर्तते।
अगाधश्चाप्रमेयश्च द्वितीय इव सागरः ॥ 6.20.3 ॥
पुत्रौ दशरथस्येमौ भ्रातरौ रामलक्ष्मणौ।
उत्तमायुधसम्पन्नौ सीतायाः पदमागतौ ॥ 6.20.4 ॥
एतौ सागरमासाद्य सन्निविष्टौ महाद्युती ॥ 6.20.5 ॥
बलमाकाशमावृत्य सर्वतो दशयोजनम् ॥ 6.20.6 ॥
तत्त्वभूतं महाराज क्षिप्रं वेदितुमर्हसि।
तव दूता महाराज क्षिप्रमर्हन्त्यवेक्षितुम् ॥ 6.20.7 ॥
उपप्रदानं सान्त्वं वा भेदो वाऽत्र प्रयुज्यताम् ॥ 6.20.8 ॥
उवाच सहसा व्यग्रः सम्प्रधार्यार्थमात्मनः।
शुकं नाम तदा रक्षो वाक्यमर्थविदां वरम् ॥ 6.20.9 ॥
सुग्रीवं ब्रूहि गत्वा त्वं राजानं वचनान्मम।
यथासन्देशमक्लीबं श्लक्ष्णया परया गिरा ॥ 6.20.10 ॥
त्वं वै महाराजकुलप्रसूतो महाबलश्चर्क्षरजस्सुतश्च।
न कश्चिदर्थस्तव नास्त्यनर्थस्तथा हि मे भ्रातृसमो हरीश ॥ 6.20.11 ॥
अहं यद्यहरं भार्यां राजपुत्रस्य धीमतः।
किं तत्र तव सुग्रीव किष्किन्धां प्रति गम्यताम् ॥ 6.20.12 ॥
न हीयं हरिभिर्लङ्का शक्या प्राप्तुं कथञ्चन।
देवैरपि सगन्धर्वैः किं पुनर्नरवानरैः ॥ 6.20.13 ॥
स तथा राक्षसेन्द्रेण सन्दिष्टो रजनीचरः।
शुको विहङ्गमो भूत्वा तूर्णमाप्लुत्य चाम्बरम् ॥ 6.20.14 ॥
संस्थितो ह्यम्बरे वाक्यं सुग्रीवमिदमब्रवीत्।
सर्वमुक्तं यथादिष्टं रावणेन दुरात्मना ॥ 6.20.15 ॥
तं प्रापयन्तं वचनं तूर्णमाप्लुत्य वानराः।
प्रापद्यन्त दिवं क्षिप्रं लोप्तुं हन्तुं च मुष्टिभिः ॥ 6.20.16 ॥
स तैः प्लवङ्गैः प्रसभं निगृहीतो निशाचरः।
गगनाद्भूतले चाशु परिगृह्य निपातितः ॥ 6.20.17 ॥
वानरैः पीड्यमानस्तु शुको वचनमब्रवीत्।
न दूतान् घ्रन्ति काकुत्स्थ वार्यन्तां साधु वानराः ॥ 6.20.18 ॥
यस्तु हित्वा मतं भर्तुः स्वमतं सम्प्रभाषते।
अनुक्तवादी दूतः सन् स दूतो वधमर्हति ॥ 6.20.19 ॥
शुकस्य वचनं श्रुत्वा रामस्तु परिदेवितम्।
उवाच मा वधिष्ठेति घ्नतः शाखामृगर्षभान् ॥ 6.20.20 ॥
स च पत्रलघुर्भूत्वा हरिभिर्दर्शिते भये।
अन्तरिक्षस्थितो भूत्वा पुनर्वचनमब्रवीत् ॥ 6.20.21 ॥
सुग्रीव सत्त्वसम्पन्न महाबलपराक्रम।
किं मया खलु वक्तव्यो रावणो लोकरावणः ॥ 6.20.22 ॥
स एवमुक्तः प्लवगाधिपस्तदा प्लवङ्गमानामृषभो महाबलः।
उवाच वाक्यं रजनीचरस्य चारं शुकं तूर्णमदीनसत्त्वः ॥ 6.20.23 ॥
न मेऽसि मित्रं न तथाऽनुकम्प्यो न चोपकर्ताऽसि न मे प्रियोऽसि।
अरिश्च रामस्य सहानुबन्धः स मेऽसि वालीव वधार्ह वध्यः ॥ 6.20.24 ॥
निहन्म्यहं त्वां ससुतं सबन्धुं सज्ञातिवर्गं रजनीचरेश।
लङ्कां च सर्वां महता बलेन क्षिप्रं करिष्यामि समेत्य भस्म ॥ 6.20.25 ॥
अन्तर्हितः सूर्यपथं गतो वा तथैव पातालमनुप्रविष्टः।
[ गिरीशपादाम्बुजसङ्गतो वा हतोऽसि रामेण सहानुजस्त्वम् ] ॥ 6.20.26 ॥
तस्य ते त्रिष्टु लोकेषु न पिशाचं न राक्षसम्।
त्रातारमनुपश्यामि न गन्धर्वं न चासुरम् ॥ 6.20.27 ॥
अवधीर्यज्जरावृद्धमक्षम किं जटायुषम् ॥ 6.20.28 ॥
किं नु ते रामसान्निध्ये सकाशे लक्ष्मणस्य वा।
हृता सीता विशालाक्षी यां त्वं गृह्य न बुद्ध्यसे ॥ 6.20.29 ॥
महाबलं महात्मानं दुर्द्धर्षममरैरपि।
न बुद्ध्यसे रघुश्रेष्ठं यस्ते प्राणान् हरिष्यति ॥ 6.20.30 ॥
ततोऽब्रवीद्वालिसुतस्त्वङ्गदो हरिसत्तमः ॥ 6.20.31 ॥
तुलितं हि बलं सर्वमनेनात्रैव तिष्ठता।
गृह्यतां मा गमल्लङ्कामेतद्धि मम रोचते ॥ 6.20.32 ॥
ततो राज्ञा समादिष्टाः समुत्प्लुत्य वलीमुखाः।
जगृहुश्च बबन्धुश्च विलपन्तमनाथवत् ॥ 6.20.33 ॥
व्याक्रोशत महात्मानं रामं दशरथात्मजम्।
लुप्येते मे बलात्पक्षौ भिद्येते च तथाऽक्षिणी ॥ 6.20.34 ॥
एतस्मिन्नन्तरे काले यन्मया ह्यशुभं कृतम्।
सर्वं तदुपपद्येथा जह्यां चेद्यदि जीवितम् ॥ 6.20.35 ॥
नाघातयत्तदा रामः श्रुत्वा तत्परिदेवनम्।
वानरानब्रवीद्रामो मुच्यतां दूत आगतः ॥ 6.20.36 ॥