०१८ विभीषणेन रामसैन्यप्रवेशेच्छानिवेदनम्

अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह।
प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ॥ 6.18.1 ॥
ममापि तु विवक्षाऽस्ति काचित्प्रति विभीषणम्।
श्रोतुमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः ॥ 6.18.2 ॥
मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन।
दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम् ॥ 6.18.3 ॥
सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च।
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः ॥ 6.18.4 ॥
सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः ॥ 6.18.5 ॥
ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत्।
को नाम स भवेत्तस्य यमेष न परित्यजेत् ॥ 6.18.6 ॥
ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्ष्णम्।
इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः ॥ 6.18.7 ॥
अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च।
न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः ॥ 6.18.8 ॥
अस्ति सूक्ष्मतरं किञ्चिद्यदत्र प्रतिभाति मे।
प्रत्यक्षं लौकिकं वापि विद्यते सर्वराजसु ॥ 6.18.9 ॥
अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः।
व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः ॥ 6.18.10 ॥
अपापास्तत्कुलीनाश्च मानयन्ति स्वकान् हितान्।
एष प्रायो नरेन्द्राणां शङ्कनीयस्तु शोभनः ॥ 6.18.11 ॥
तत्र ते कीर्तयिष्यामि यथाशास्त्रमिदं शृणु।
न वयं तत्कुलीनाश्च राज्यकाङ्क्षी च राक्षसः ॥ 6.18.12 ॥
पण्डिता हि भविष्यन्ति तस्माद्ग्राह्यो विभीषणः ॥ 6.18.13 ॥
प्रवादश्च महानेष ततोऽस्य भयमागतम्।
इति भेदं गमिष्यन्ति तस्माद्ग्राह्यो विभीषणः ॥ 6.18.14 ॥
न सर्वे भ्रातरस्तात भवन्ति भरतोपमाः।
मद्विधा वा पितुः पुत्राः सुहृदो वा भवद्विधाः ॥ 6.18.15 ॥
एवमुक्तस्तु रामेण सुग्रीवः सहलक्ष्मणः।
उत्थायेदं महाप्राज्ञः प्रणतो वाक्यमब्रवीत् ॥ 6.18.16 ॥
रावणेन प्रणिहितं तमवेमि विभीषणम्।
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥ 6.18.17 ॥
राक्षसो जिह्मया बुद्ध्या सन्दिष्टोऽयमिहागतः।
प्रहर्तुं त्वयि विश्वस्ते प्रच्छन्नो मयि वाऽनघ ॥ 6.18.18 ॥
लक्ष्मणे वा महाबाहो स वध्यः सचिवैः सह।
रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ॥ 6.18.19 ॥
एवमुक्त्वा रघुश्रेष्ठं सुग्रीवो वाहिनीपतिः।
वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥ 6.18.20 ॥
सुग्रीवस्य तु तद्वाक्यं रामः श्रुत्वा विमृश्य च।
ततः शुभतरं वाक्यमुवाच हरिपुङ्गवम् ॥ 6.18.21 ॥
सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः।
सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथञ्चन ॥ 6.18.22 ॥
पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान्।
अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर ॥ 6.18.23 ॥
श्रूयते हि कपोतेन शत्रुः शरणमागतः।
अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः ॥ 6.18.24 ॥
स हि तं प्रतिजग्राह भार्याहर्तारमागतम्।
कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः ॥ 6.18.25 ॥
ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा।
शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना ॥ 6.18.26 ॥
बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्।
न हन्यादानृशंस्यार्थमपि शत्रुं परन्तप ॥ 6.18.27 ॥
आर्तो वा यदि वा दृप्तः परेषां शरणागतः।
अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना ॥ 6.18.28 ॥
स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति।
स्वया शक्त्या यथासत्त्वं तत्पापं लोकगर्हितम् ॥ 6.18.29 ॥
विनष्टः पश्यतस्तस्यारक्षिणः शरणागतः।
आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः ॥ 6.18.30 ॥
एवं दोषो महानत्र प्रपन्नानामरक्षणे ॥ 6.18.31 ॥
अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम् ॥ 6.18.32 ॥
करिष्यामि यथार्थं तु काण्डोर्वचनमुत्तमम् ॥ 6.18.33 ॥
धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये ॥ 6.18.34 ॥
सकृदेव प्रपन्नाय तवास्मीति च याचते।
अभयं सर्वभूतेभ्यो ददाम्येतद् व्रतं मम ॥ 6.18.35 ॥
आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया।
विभीषणो वा सुग्रीव यदि वा रावणः स्वयम् ॥ 6.18.36 ॥
रामस्य तु वचः श्रुत्वा सुग्रीवः प्लवगेश्वरः।
प्रत्यभाषत काकुत्स्थं सौहार्देन प्रचोदितः ॥ 6.18.37 ॥
किमत्र चित्रं धर्मज्ञ लोकनाथ सुखावह।
यत्त्वमार्यं प्रभाषेथाः सत्त्ववान् सत्पथे स्थितः ॥ 6.18.38 ॥
मम चाप्यन्तरात्माऽयं शुद्धं वेत्ति विभीषणम्।
अनुमानाच्च भावाच्च सर्वतः सुपरीक्षितः ॥ 6.18.39 ॥
तस्मात् क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव।
विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः ॥ 6.18.40 ॥
ततस्तु सुग्रीववचो निशम्य तद्धरीश्वरेणाभिहितं नरेश्वरः।
विभीषणेनाशु जगाम सङ्गमं पतत्रिराजेन यथा पुरन्दरः ॥ 6.18.41 ॥