०१७ विभीषणेन रामदर्शनम्

इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः।
आजगाम महूर्तेन यत्र रामः सलक्ष्मणः ॥ 6.17.1 ॥
तं मेरुशिखराकारं दीप्तामिव शतह्रदाम्।
गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः ॥ 6.17.2 ॥
तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः।
वानरैः सह दुर्द्धर्षश्चिन्तयामास बुद्धिमान् ॥ 6.17.3 ॥
चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह।
हनुमत्प्रमुखान् सर्वानिदं वचनमुत्तमम् ॥ 6.17.4 ॥
एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः।
राक्षसोऽभ्येति पश्यध्वमस्मान् हन्तुं न संशयः ॥ 6.17.5 ॥
सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः।
सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन् ॥ 6.17.6 ॥
शीघ्रं व्यादिश नो राजन् वधायैषां दुरात्मनाम्।
निपतन्तु हताश्चैते धरण्यामल्पतेजसः ॥ 6.17.7 ॥
तेषां सम्भाषमाणानामन्योन्यं स विभीषणः।
उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत ॥ 6.17.8 ॥
उवाच च महाप्राज्ञः स्वरेण महता महान्।
सुग्रीवं तांश्च सम्प्रेक्ष्य सर्वान् वानरयूथपान् ॥ 6.17.9 ॥
रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः।
तस्याहमनुजो भ्राता विभीषण इति श्रुतः ॥ 6.17.10 ॥
तेन सीता जनस्थानाद्धृता हत्वा जटायुषम्।
रुद्धा च विवशा दीना राक्षसीभिः सुरक्षिता ॥ 6.17.11 ॥
तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम्।
साधु निर्यात्यतां सीता रामायेति पुनःपुनः ॥ 6.17.12 ॥
स च न प्रतिजग्राह रावणः कालचोदितः।
उच्यमानं हितं वाक्यं विपरीत इवौषधम् ॥ 6.17.13 ॥
सोऽहं परुषितस्तेन दासवच्चावमानितः।
त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः ॥ 6.17.14 ॥
सर्वलोकशरण्याय राघवाय महात्मने।
निवेदयत मां क्षिप्रं विभीषणमुपस्थितम् ॥ 6.17.15 ॥
एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः।
लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत् ॥ 6.17.16 ॥
रावणस्यानुजो भ्राता विभीषण इति श्रुतः।
चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः ॥ 6.17.17 ॥
मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि।
वानराणां च भद्रन्ते परेषां च परन्तप ॥ 6.17.18 ॥
अन्तर्धानगता ह्येते राक्षसाः कामरूपिणः।
शूराश्च निकृतिज्ञाश्च तेषु जातु न विश्वसेत् ॥ 6.17.19 ॥
प्रणिधी राक्षसेन्द्रस्य रावणस्य भवेदयम्।
अनुप्रविश्य सोऽस्मासु भेदं कुर्यान्न संशयः ॥ 6.17.20 ॥
अथवा स्वयमेवैष छिद्रमासाद्य बुद्धिमान्।
अनुप्रविस्य विश्वस्ते कदाचित् प्रहरेदपि ॥ 6.17.21 ॥
मित्राटवीबलं चैव मौलं भृत्यबलं तथा।
सर्वमेतद्बलं ग्राह्यं वर्जयित्वा द्विषद्बलम् ॥ 6.17.22 ॥
प्रकृत्या राक्षसेन्द्रस्य भ्राताऽमित्रस्य ते प्रभो।
आगतश्च रिपोः पक्षात् कथमस्मिन् हि विश्वसेत् ॥ 6.17.23 ॥
रावणेन प्रणिहितं तमवेहि विभीषणम्।
तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर ॥ 6.17.24 ॥
राक्षसो जिह्मया बुद्ध्या सन्दिष्टोऽयमुपागतः।
प्रहर्तुं मायया च्छन्नो विश्वस्ते त्वयि राघव ॥ 6.17.25 ॥
प्रविष्टः शत्रुसैन्यं हि प्राज्ञः शत्रुरतर्कितः।
निहन्यादन्तरं लब्ध्वा उलूक इव वायसान् ॥ 6.17.26 ॥
वध्यतामेष दण्डेन तीव्रेण सचिवैः सह।
रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः ॥ 6.17.27 ॥
एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः।
वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत् ॥ 6.17.28 ॥
सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महायशाः।
समीपस्थानुवाचेदं हनुमत्प्रमुखान् हरीन् ॥ 6.17.29 ॥
यदुक्तं कपिराजेन रावणावरजं प्रति।
वाक्यं हेतुमदर्थ्यं च भवद्भिरपि तच्छ्रुतम् ॥ 6.17.30 ॥
सुहृदा ह्यर्थकृच्छ्रेषु युक्तं बुद्धिमता सता।
समर्थेनापि सन्देष्टुं शाश्वतीं भूतिमिच्छता ॥ 6.17.31 ॥
इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः।
सोपचारं तदा राममूचुर्हितचिकीर्षवः ॥ 6.17.32 ॥
अज्ञातं नास्ति ते किञ्चित् त्रिषु लोकेषु राघव।
आत्मानं सूचयन् जानन् पृच्छस्यस्मान् सुहृत्तया ॥ 6.17.33 ॥
त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः।
परीक्ष्यकारी स्मृतिमान् निसृष्टात्मा सुहृत्सु च ॥ 6.17.34 ॥
तस्मादेकैकशस्तावत् ब्रुवन्तु सचिवास्तव।
हेतुतो मतिसम्पन्नाः समर्थाश्च पुनःपुनः ॥ 6.17.35 ॥
इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः।
विभीषणपरीक्षार्थमुवाच वचनं हरिः ॥ 6.17.36 ॥
शत्रोः सकाशात् सम्प्राप्तः सर्वथा शङ्क्य एव हि।
विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः ॥ 6.17.37 ॥
छादयित्वाऽऽत्मभावं हि चरन्ति शठबुद्धयः।
प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत् ॥ 6.17.38 ॥
अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह।
गुणतः सङ्ग्रहं कुर्याद्दोषतस्तु विवर्जयेत् ॥ 6.17.39 ॥
यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम्।
गुणान् वपि बहून् ज्ञात्वा सङ्ग्रहः क्रियतां नृप ॥ 6.17.40 ॥
शरभस्त्वथ निश्चित्य साद्ध्यं वचनमब्रवीत्।
क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम् ॥ 6.17.41 ॥
प्रणिधाय हि चारेण यथावत् सूक्ष्मबुद्धिना।
परीक्ष्य च ततः कार्यो यथान्याय्यं परिग्रहः ॥ 6.17.42 ॥
जाम्बवांस्त्वथ सम्प्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः।
वाक्यं विज्ञापयामास गुणवद्दोषवर्जितम् ॥ 6.17.43 ॥
बद्धवैराच्च पापाच्च राक्षसेन्द्राद् विभीषणः।
अदेशकाले सम्प्राप्तः सर्वथा शङ्क्यतामयम् ॥ 6.17.44 ॥
ततो मैन्दस्तु सम्प्रेक्ष्य नयापनयकोविदः।
वाक्यं वचनसम्पन्नो बभाषे हेतुमत्तरम् ॥ 6.17.45 ॥
वचनं नाम तस्यैष रावणस्य विभीषणः।
पृच्छ्यतां मधुरेणायं शनैर्नरवरेश्वर ॥ 6.17.46 ॥
भावमस्य तु विज्ञाय ततस्तत्त्वं करिष्यसि।
यदि दुष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ ॥ 6.17.47 ॥
अथ संस्कारसम्पन्नो हनूमान् सचिवोत्तमः।
उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु ॥ 6.17.48 ॥
न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम्।
अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन् ॥ 6.17.49 ॥
न वादान्नापि सङ्घर्षान्नाधिक्यान्न च कामतः।
वक्ष्यामि वचनं राजन् यथार्थं राम गौरवात् ॥ 6.17.50 ॥
अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव।
तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते ॥ 6.17.51 ॥
ऋते नियोगात् सामर्थ्यमवबोद्धुं न शक्यते।
सहसा विनियोगो हि दोषवान् प्रति भाति मा ॥ 6.17.52 ॥
चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव।
अर्थस्यासम्भवात्तत्र कारणं नोपपद्यते ॥ 6.17.53 ॥
विविक्षा तत्र मेऽस्तीयं तां निबोध यथामति।
स एष देशः कालश्च भवतीति यथातथा ॥ 6.17.54 ॥
दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि।
युक्तमागमनं तस्य सदृशं तस्य बुद्धितः ॥ 6.17.55 ॥
अज्ञातरूपैः पुरुषैः स राजन् पृच्छ्यतामिति।
यदुक्तमत्र मे प्रेक्षा काचिदस्ति समीक्षिता ॥ 6.17.56 ॥
पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वचः।
तत्र मित्रं प्रदुष्येत मिथ्या पृष्टं सुखागतम् ॥ 6.17.57 ॥
अशक्यः सहसा राजन् भावो वेत्तुं परस्य वै।
अन्तःस्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम् ॥ 6.17.58 ॥
न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता।
प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः ॥ 6.17.59 ॥
अशङ्कितमतिः स्वस्थो न शठः परिसर्पति।
न चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः ॥ 6.17.60 ॥
आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम्।
बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम् ॥ 6.17.61 ॥
देशकालोपपन्नं च कार्यं कार्यविदां वर।
स्वफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम् ॥ 6.17.62 ॥
वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम्।
राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः ॥ 6.17.63 ॥
यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति।
त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर ॥ 6.17.64 ॥