०१६ रावणेन विभीषणवचननिराकरणम्

सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम्।
अब्रवीत् परुषं वाक्यं रावणः कालचोदितः ॥ 6.16.1 ॥
वसेत् सह सपत्नेन क्रुद्धेनाशीविषेण वा।
न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ॥ 6.16.2 ॥
जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस।
हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ॥ 6.16.3 ॥
प्रधानं साधनं वैद्यं धर्मशीलं च राक्षस।
ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च ॥ 6.16.4 ॥
नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः।
प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः ॥ 6.16.5 ॥
श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्वचित्।
पाशहस्तान्नरान् दृष्ट्वा शृणु तान् गदतो मम ॥ 6.16.6 ॥
नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः।
घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥ 6.16.7 ॥
उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः।
कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः ॥ 6.16.8 ॥
विद्यते गोषु सम्पन्नं विद्यते ब्रह्मणे दमः।
विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम् ॥ 6.16.9 ॥
ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः।
ऐश्वर्यमभिजातश्च ज्ञातीनां मूर्ध्न्यवस्थितः ॥ 6.16.10 ॥
यथा पुष्करपर्णेषु पतितास्तोयबिन्दवः।
न श्लोषमुपगच्छन्ति तथाऽनार्येषु सङ्गतम् ॥ 6.16.11 ॥
यथा मधुकरस्तर्षाद्रसं विन्द्रन्न विद्यते।
तथा त्वमपि तत्रैव तथाऽनार्येषु सौहृदम् ॥ 6.16.12 ॥
यथा पूर्वं गजः स्नात्वा गृह्य हस्तेन वै रजः।
दूषयत्यात्मनो देहं तथाऽनार्येषु सौहृदम् ॥ 6.16.13 ॥
यथा शरदि मेघानां सिञ्चतामपि गर्जताम्।
न भवत्यम्बुसङ्क्लेदस्तथाऽनार्येषु सौहृदम् ॥ 6.16.14 ॥
अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर।
अस्मिन् मुहूर्ते न भवेत्त्वां तु धिक् कुलपांसनम् ॥ 6.16.15 ॥
इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः।
उत्पपात गदापाणिश्चितुर्भिः सह राक्षसैः ॥ 6.16.16 ॥
अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः।
अन्तरिक्षगतः श्रीमान् भ्रातरं राक्षसाधिपम् ॥ 6.16.17 ॥
स त्वं भ्राताऽसि मे राजन् ब्रूहि मां यद्यदिच्छसि ॥ 6.16.18 ॥
ज्येष्ठो मान्यः पितृसमो न च धर्मपथे स्थितः।
इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव ॥ 6.16.19 ॥
सुनीतं हितकामेन वाक्यमुक्तं दशानन।
न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः ॥ 6.16.20 ॥
सुलभाः पुरुषा राजन् सततं प्रियवादिनः।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ 6.16.21 ॥
बद्धं कालस्य पाशेन सर्वभूतापहारिणा।
न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा ॥ 6.16.22 ॥
दीप्तपावकसङ्काशैः शितैः काञ्चनभूषणैः।
न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ॥ 6.16.23 ॥
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे।
कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥ 6.16.24 ॥
तन्मर्षयतु यच्चोक्तं गुरुत्वाद्धितमिच्छता।
आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् ॥ 6.16.25 ॥
स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥ 6.16.26 ॥
निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर।
परीतकाला हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ 6.16.27 ॥