बृहस्पतेस्तुल्यमतेर्वचस्तन्निशम्य यत्नेन विभीषणस्य।
ततो महात्मा वचनं बभाषे तत्रेन्द्रजिन्नैर्ऋतयोधमुख्यः ॥ 6.15.1 ॥
किं नाम ते तात कनिष्ठवाक्यमनर्थकं चैव सुभीतवच्च।
अस्मिन् कुले योऽपि भवेन्न जातः सोऽपीदृशं नैव वदेन्न कुर्यात् ॥ 6.15.2 ॥
सत्त्वेन वीर्येण परक्रमेण शौर्येण धैर्येण च तेजसा च।
एकः कुलेऽस्मिन् पुरुषो विमुक्तो विभीषणस्तात कनिष्ठ एषः ॥ 6.15.3 ॥
किं नाम तौ राक्षस राजपुत्रावस्माकमेकेन हि राक्षसेन।
सुप्राकृतेनापि रणे निहन्तुं शक्यौ कुतो भीषयसे स्म भीरो ॥ 6.15.4 ॥
त्रिलोकनाथो ननु देवराजः शक्रो मया भूमितले निविष्टः।
भयार्दिताश्चापि दिशः प्रपन्नाः सर्वे तथा देवगणाः समग्राः ॥ 6.15.5 ॥
ऐरावतो विस्वरमुन्नदन् स निपातितो भूमितले मया तु।
विकृष्य दन्तौ तु मया प्रसह्य वित्रासिता देवगणाः समग्राः ॥ 6.15.6 ॥
सोऽहं सुराणामपि दर्पहन्ता दैत्योत्तमानामपि शोकदाता।
कथं नरेन्द्रात्मजयोर्न शक्तो मनुष्ययोः प्राकृतयोः सुवीर्यः ॥ 6.15.7 ॥
अथेन्द्रकल्पस्य दुरासदस्य महौजसस्तद्वचनं निशम्य।
ततो महार्थं वचनं भभाषे विभीषणः शस्त्रभृतां वरिष्ठः ॥ 6.15.8 ॥
न तात मन्त्रे तव निश्चयोऽस्ति बालस्त्वमद्याप्यविपक्वबुद्धिः।
तस्मात्त्वया ह्यात्मविनाशनाय वचोऽर्थहीनं बहुविप्रलप्तम् ॥ 6.15.9 ॥
पुत्रप्रवादेन तु रावणस्य त्वमिन्द्रजिन्मित्रमुखोऽसि शत्रुः।
यस्येदृशं राघवतो विनाशं निशम्य मोहादनुमन्यसे त्वम् ॥ 6.15.10 ॥
त्वमेव वध्यश्च सुदुर्मतिश्च स चापि वध्यो य इहानयत्त्वाम्।
बालं दृढं साहसिकं च योऽद्य प्रावेशयन्मन्त्रकृतां समीपम् ॥ 6.15.11 ॥
मूढः प्रगल्भोऽविनयोपपन्नस्तीक्ष्णस्वभावोऽल्पमतिर्दुरात्मा।
मूर्खस्त्वमत्यन्तसुदुर्मतिश्च त्वमिन्द्रजिद् बालतया ब्रवीषि ॥ 6.15.12 ॥
को ब्रह्मदण्डप्रतिमप्रकाशानर्चिष्मतः कालनिकाशरूपान्।
सहेत बाणान् यमदण्डकल्पान् समक्षमुक्ताद् युधि राघवेण ॥ 6.15.13 ॥
धनानि रत्नानि विभूषणानि वासांसि दिव्यानि मणींश्च चित्रान्।
सीतां च रामाय निवेद्य देवीं वसेम राजन्निह वीतशोकाः ॥ 6.15.14 ॥