०१४ विभीषणेन रामबाणशक्तिवर्णनम्

निशाचरेन्द्रस्य निशम्य वाक्यं स कुम्भकर्णस्य च गर्जितानि।
विभीषणो राक्षसराजमुख्यमुवाच वाक्यं हितमर्थयुक्तम् ॥ 6.14.1 ॥
वृतो हि बाह्वन्तरभोगराशिश्चिन्ताविषः सुस्मिततीक्ष्णदंष्ट्रः।
पञ्चाङ्गुलीपञ्चशिरोऽतिकायः सीतामहाहिस्तव केन राजन् ॥ 6.14.2 ॥
यावन्न लङ्कां समभिद्रवन्ति वलीमुखाः पर्वतकूटमात्राः।
दंष्ट्रायुधाश्चैव नखायुधाश्च प्रदीयतां दाशरथाय मैथिली ॥ 6.14.3 ॥
यावन्न गृह्णन्ति शिरांसि बाणा रामेरिता राक्षसपुङ्गवानाम्।
वज्रोपमा वायुसमानवेगाः प्रदीयतां दाशरथाय मैधिली ॥ 6.14.4 ॥
भित्त्वा न तावत् प्रविशन्ति कायं प्राणान्तिकास्तेऽशनितुल्यवेगाः।
शिताः शरा राघव विप्रमुक्ताः प्रहस्त तेनैव विकत्थसे त्वम् ॥ 6.14.5 ॥
न कुम्भकर्णेन्द्रजितौ न राजा तथा महापार्श्वमहोदरौ वा।
निकुम्भकुम्भौ च तथाऽतिकायः स्थातुं न शक्ता युधि राघवस्य ॥ 6.14.6 ॥
जीवंस्तु रामस्य न मोक्ष्यसे त्वं गुप्तः सवित्राप्यथवा मरुद्भिः।
न वासवस्याङ्कगतो न मृत्योर्नभो न पातालमनुप्रविष्टः ॥ 6.14.7 ॥
निशम्य वाक्यं तु विभीषणस्य ततः प्रहस्तो वचनं बभाषे।
न नो भयं विद्म न दैवतेभ्यो न दानवेभ्यो ह्यथवा कुतश्चित् ॥ 6.14.8 ॥
न यक्षगन्धर्वमहोरगेभ्यो भयं न सङ्ख्ये पतगोत्तमेभ्यः।
कथं नु रामाद् भविता भयं नो नरेन्द्रपुत्रात् समरे कदाचित् ॥ 6.14.9 ॥
प्रहस्तवाक्यं त्वहितं निशम्य विभीषणो राजहितानुकाङ्क्षी।
ततो महात्मा वचनं बभाषे धर्मार्थकामेषु निविष्टबुद्धिः ॥ 6.14.10 ॥
प्रहस्त राजा च महोदरश्च त्वं कुम्भकर्णश्च यथाऽर्थजातम्।
ब्रवीथ रामं प्रति तन्न शक्यं यथा गतिः स्वर्गमधर्मबुद्धेः ॥ 6.14.11 ॥
वधस्तु रामस्य मया त्वया वा प्रहस्त सर्वैरपि राक्षसैर्वा।
कथं भवेदर्थविशारदस्य महार्णवं तर्तुमिवाप्लवस्य ॥ 6.14.12 ॥
धर्मप्रधानस्य महारथस्य इक्ष्वाकुवंशप्रभवस्य राज्ञः।
प्रहस्त देवाश्च तथाविधस्य कृत्येषु शक्तस्य भवन्ति मूढाः ॥ 6.14.13 ॥
तीक्ष्णा नता यत्तव कङ्कपत्रा दुरासदा राघवविप्रमुक्ताः।
भित्त्वा शरीरं प्रविशन्ति बाणाः प्रहस्त तेनैव विकत्थसे त्वम् ॥ 6.14.14 ॥
न रावणो नातिबलस्त्रिशीर्षो न कुम्भकर्णोऽस्य सुतो निकुम्भः।
न चेन्द्रजिद्दाशरथिं प्रसोढुं त्वं वा रणे शक्रसमं समर्थाः ॥ 6.14.15 ॥
देवान्तको वापि नरान्तको वा तथातिकायोऽतिरथो महात्मा।
अकम्पनश्चाद्रिसमानसारः स्थातुं न शक्ता युधि राघवस्य ॥ 6.14.16 ॥
अयं हि राजा व्यसनाभिभूतो मित्रैरमित्रप्रतिमैर्भवद्भिः।
अन्वास्यते राक्षसनाशनार्थे तीक्ष्णः प्रकृत्या ह्यसमीक्ष्यकारी ॥ 6.14.17 ॥
अनन्तभोगेन सहस्रमूर्ध्ना नागेन भीमेन महाबलेन।
बलात्परिक्षिप्तमिमं भवन्तो राजानमुत्क्षिप्य विमोचयन्तु ॥ 6.14.18 ॥
यावद्धि केशग्रहणात् सुहृद्भिः समेत्य सर्वैः परिपूर्णकामैः।
निगृह्य राजा परिरक्षितव्यो भृतैर्यथा भीमबलैर्गृहीतः ॥ 6.14.19 ॥
संहारिणा राघवसागरेण प्रच्छाद्यमानस्तरसा भवद्भिः।
युक्तस्त्वयं तारयितुं समेत्य काकुत्स्थपातालमुखे पतन् सः ॥ 6.14.20 ॥
इदं पुरस्यास्य सराक्षसस्य राज्ञश्च पथ्यं ससुहृज्जनस्य।
सम्यग्घि वाक्यं स्वमतं ब्रवीमि नरैन्द्रपुत्राय ददाम पत्नीम् ॥ 6.14.21 ॥
परस्य वीर्यं स्वबलं च बुद्ध्वा स्थानं क्षयं चैव तथैव वृद्धिम्।
तथा स्वपक्षेऽप्यनुमृश्य बुद्ध्या वदेत् क्षमं स्वामिहितं च मन्त्री ॥ 6.14.22 ॥