०१३ रावण-महापार्श्वसंवादः

रावणं क्रुद्धमाज्ञाय महापार्श्वो महाबलः।
मुहूर्तमनुसञ्चिन्त्य प्राञ्जलिर्वाक्यमब्रवीत् ॥ 6.13.1 ॥
यः खल्वपि वनं प्राप्य मृगव्यालसमाकुलम्।
न विबेन्मधु सम्प्राप्तं स नरो बालिशो भवेत् ॥ 6.13.2 ॥
ईश्वरस्येश्वरः कोऽस्ति तव शत्रुनिबर्हण।
रमस्व सह वैदेह्या शत्रूनाक्रम्य मूर्धसु ॥ 6.13.3 ॥
बलात् कुक्कुटवृत्तेन वर्तस्व सुमहाबल।
आक्रम्याक्रम्य सीतां वै तथा भुङ्क्ष्व रमस्व च ॥ 6.13.4 ॥
लब्धकामस्य ते पश्चादागमिष्यति यद्भयम्।
प्राप्तमप्राप्तकालं वा सर्वं प्रतिसहिष्यसि ॥ 6.13.5 ॥
कुम्भकर्णः सहास्माभिरिन्द्रजिच्च महाबलः।
प्रतिषेधयितुं शक्तौ सवज्रमपि वज्रिणम् ॥ 6.13.6 ॥
उपप्रदानं सान्त्वं वा भेदं वा कुशलैः कृतम्।
समतिक्रम्य दण्डेन सिद्धिमर्थेषु रोचय ॥ 6.13.7 ॥
इह प्राप्तान् वयं सर्वान् शत्रूंस्तव महाबल।
वशे शस्त्रप्रतापेन करिष्यामो न संशयः ॥ 6.13.8 ॥
एवमुक्तस्तदा राजा महापार्श्वेन रावणः।
तस्य सम्पूजयन् वाक्यमिदं वचनमब्रवीत् ॥ 6.13.9 ॥
महापार्श्व निबोध त्वं रहस्यं किञ्चिदात्मनः।
चिरवृत्तं तदाख्यास्ये यदवाप्तं मया पुरा ॥ 6.13.10 ॥
पितामहस्य भवनं गच्छन्तीं पुञ्जिकस्थलाम्।
चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥ 6.13.11 ॥
सा प्रसह्य मया भुक्ता कृता विवसना ततः।
स्वयम्भूभवनं प्राप्ता लोलिता नलिनी यथा ॥ 6.13.12 ॥
तस्य तच्च तदा मन्ये ज्ञातमासीन्महात्मनः।
अथ सङ्कुपितो देवो मामिदं वाक्यमब्रवीत् ॥ 6.13.13 ॥
अद्यप्रभृति यामन्यां बलान्नारीं गमिष्यसि।
तदा ते शतधा मूर्धा फलिष्यति न संशयः ॥ 6.13.14 ॥
इत्यहं तस्य शापस्य भीतः प्रसभमेव ताम्।
नारोपये बलात् सीतां वैदेहीं शयने शुभे ॥ 6.13.15 ॥
सागरस्येव मे वेगो मारुतस्येव मे गतिः।
नैतद्दाशरथिर्वेद ह्यासादयति तेन माम् ॥ 6.13.16 ॥
यस्तु सिंहमिवासीनं सुप्तं गिरिगुहाशये।
क्रुद्धं मृत्युमिवासीनं प्रबोधयितुमिच्छति ॥ 6.13.17 ॥
न मत्तो निशितान् बाणान् द्विजिह्वानिव पन्नगान्।
रामः पश्यति सङ्ग्रामे तेन मामभिगच्छति ॥ 6.13.18 ॥
क्षिप्रं वज्रोपमैर्बाणैः शतधा कार्मुकच्युतैः।
राममादीपयिष्यामि उल्काभिरिव कुञ्जरम् ॥ 6.13.19 ॥
तच्चास्य बलमादास्ये बलेन महता वृतः।
उदयन् सविता काले नक्षत्राणामिव प्रभाम् ॥ 6.13.20 ॥
न वासवेनापि सहस्रचक्षुषा युधाऽस्मि शक्यो वरुणेन वा पुनः।
मया त्वियं बाहुबलेन निर्जिता पुरी पुरा वैश्रवणेन पालिता ॥ 6.13.21 ॥