०१२ रावणेन प्रहस्तप्रेषणम्

स तां परिषदं कृत्स्नां समीक्ष्य समितिञ्जयः।
प्रचोदयामास तदा प्रहस्तं वाहिनीपतिम् ॥ 6.12.1 ॥
सेनापते यथा ते स्युः कृतविद्याश्चतुर्विधाः।
योधानधिकरक्षायां तथा व्यादेष्टुमर्हसि ॥ 6.12.2 ॥
स प्रहस्तः प्रणीतात्मा चिकीर्षन् राजशासनम्।
विनिक्षिपद्बलं सर्वं बहिरन्तश्च मन्दिरे ॥ 6.12.3 ॥
ततो विनिक्षिप्य बलं पृथङ्नगरगुप्तये।
प्रहस्तः प्रमुखे राज्ञो निषसाद जगाद च ॥ 6.12.4 ॥
निहितं बहिरन्तश्च बलं बलवतस्तव।
कुरुष्वाविमनाः क्षिप्रं यदभिप्रेतमस्तु ते ॥ 6.12.5 ॥
प्रहस्तस्य वचः श्रुत्वा राजा राज्यहिते रतः।
सुखेप्सुः सुहृदां मध्ये व्याजहार स रावणः ॥ 6.12.6 ॥
प्रियाप्रिये सुखं दुःखं लाभालाभौ हिताहिते।
धर्मकामार्थकृच्छ्रेषु यूयमर्हथ वेदितुम् ॥ 6.12.7 ॥
सर्वकृत्यानि युष्माभिः समारब्धानि सर्वदा।
मन्त्रकर्मनियुक्तानि न जातु विफलानि मे ॥ 6.12.8 ॥
स सोमग्रहनक्षत्रैर्मरुद्भिरिव वासवः।
भवद्भिरहमत्यर्थं वृतः श्रियमवाप्नुयाम् ॥ 6.12.9 ॥
अहं तु खलु सर्वान् वः समर्थयितुमुद्यतः।
कुम्भकर्णस्य तु स्वप्नान्नेममर्थमचोदयम् ॥ 6.12.10 ॥
अयं हि सुप्तः षण्मासान् कुम्भकर्णो महाबलः।
सर्वशस्त्रभृतां मुख्यः स इदानीं समुत्थितः ॥ 6.12.11 ॥
इयं च दण्डकारण्याद्रामस्य महीषी प्रिया।
रक्षोभिश्चरिताद्देशादानीता जनकात्मजा ॥ 6.12.12 ॥
सा मे न शय्यामारोढुमिच्छत्यलसगामिनी।
त्रिषु लोकेषु चान्या मे न सीतासदृशी मता ॥ 6.12.13 ॥
तनुमध्या पृथुश्रोणी शारदेन्दुनिभानना।
हेमबिम्बनिभा सौम्या मायेव मयनिर्मिता ॥ 6.12.14 ॥
सुलोहिततलौ श्लक्ष्णौ चरणौ सुप्रतिष्ठितौ।
दृष्ट्वा ताम्रनखौ तस्या दीप्यते मे शरीरजः ॥ 6.12.15 ॥
हुताग्रेरर्चिसङ्काशामेनां सौरीमिव प्रभाम् ॥ 6.12.16 ॥
उन्नसं वदनं वल्गु विपुलं चारुलोचनम्।
पश्यंस्तदा वशस्तस्याः कामस्य वशमेयिवान् ॥ 6.12.17 ॥
क्रोधहर्षसमानेन दुर्वर्णकरणेन च।
शोकसन्तापनित्येन कामेन कलुषीकृतः ॥ 6.12.18 ॥
सा तु संवत्सरं कालं मामयाचत् भामिनी।
प्रतीक्षमाणा भर्तारं राममायतलोचना ॥ 6.12.19 ॥
तन्मया चारुनेत्रायाः प्रतिज्ञातं वचः शुभम्।
श्रान्तोऽहं सततं कामाद्यातो हय इवाध्वनि ॥ 6.12.20 ॥
कथं सागरमक्षोभ्यमुत्तरन्ति वनौकसः।
बहुसत्त्वझषाकीर्णं तौ वा दशरथात्मजौ ॥ 6.12.21 ॥
अथवा कपिनैकेन कृतं नः कदनं महत्।
दुर्ज्ञेयाः कार्यगतयो ब्रूत यस्य यथा मतिः ॥ 6.12.22 ॥
तदा देवासुरे युद्धे युष्माभिः सहितोऽजयम्।
ते मे भवन्तश्च तथा सुग्रीवप्रमुखान् हरीन् ॥ 6.12.23 ॥
परे पारे समुद्रस्य पुरस्कृत्य नृपात्मजौ।
सीतायाः पदवीं प्राप्तौ सम्प्राप्तौ वरुणालयम् ॥ 6.12.24 ॥
अदेया च यथा सीता वध्यौ दशरथात्मजौ।
भवद्भिर्मन्त्र्यतां मन्त्रः सुनीतं चाभिधीयताम् ॥ 6.12.25 ॥
न हि शक्तिं प्रपश्यामि जगत्यन्यस्य कस्यचित्।
सागरं वानरैस्तीर्त्वा निश्चयेन जयो मम ॥ 6.12.26 ॥
तस्य कामपरीतस्य निशम्य परिदेवितम्।
कुम्भकर्णः प्रचुक्रोध वचनं चेदमब्रवीत् ॥ 6.12.27 ॥
यदा तु रामस्य सलक्ष्मणस्य प्रसह्य सीता खलु सा इहाहृता।
सकृत् समीक्ष्यैव सुनिश्चितं तदा भजेत चित्तं यमुनेव यामुनम् ॥ 6.12.28 ॥
सर्वमेतन्महाराज कृतमप्रतिमं तव।
विधीयेत सहास्माभिरादावेवास्य कर्मणः ॥ 6.12.29 ॥
न्यायेन राजकार्याणि यः करोति दशानन।
न स सन्तप्यते पश्चान्निश्चितार्थमतिर्नृपः ॥ 6.12.30 ॥
अनुपायेन कर्माणि विपरीतानि यानि च।
क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव ॥ 6.12.31 ॥
यः पश्चात् पूर्वकार्याणि कर्माण्यभिचिकीर्षति।
पूर्वं चापरकार्याणि न स वेद नयानयौ ॥ 6.12.32 ॥
चपलस्य तु कृत्येषु प्रसमीक्ष्याधिकं बलम्।
क्षिप्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ 6.12.33 ॥
त्वयेदं महदारब्धं कार्यमप्रतिचिन्तितम्।
दिष्ट्या त्वां नावधीद्रामो विषमिश्रमिवामिषम् ॥ 6.12.34 ॥
तस्मात्त्वया समारब्धं कर्म ह्यप्रतिमं परैः।
अहं समीकरिष्यामि हत्वा शत्रूंस्तवानघ ॥ 6.12.35 ॥
यदि शक्रविवस्वन्तौ यदि पावकमारुतौ।
तावहं योधयिष्यामि कुबेरवरुणावपि ॥ 6.12.36 ॥
गिरिमात्रशरीरस्य महापरिघयोधिनः।
नर्दतस्तीक्ष्णदंष्ट्रस्य बिभियाद्वै पुरन्दरः ॥ 6.12.37 ॥
पुनर्मां स द्वितीयेन शरेण निहनिष्यति।
ततोऽहं तस्य पास्यामि रुधिरं काममाश्वस ॥ 6.12.38 ॥
वधेन वै दाशरथेः सुखावहं जयं तवाहर्तुमहं यतिष्ये।
हत्वा च रामं सह लक्ष्मणेन खादामि सर्वान् हरियूथमुख्यान् ॥ 6.12.39 ॥
रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कार्याणि हितानि विज्वरः।
मया तु रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥ 6.12.40 ॥