स बभूव कृशो राजा मैथिलीकाममोहितः।
असम्मानाच्च सुहृदां पापः पापेन कर्मणा ॥ 6.11.1 ॥
अतीतसमये काले तस्मिन् वै युधि रावणः।
अमात्यैश्च सुहृद्धिश्च मन्त्रकालममन्यत ॥ 6.11.2 ॥
स हेमजालविततं मणिविद्रुमभूषितम्।
उपगम्य विनीताश्वमारुरोह महारथम् ॥ 6.11.3 ॥
तमास्थाय रथश्रेष्ठं महामेघसमस्वनम्।
प्रययौ राक्षसश्रेष्ठो दशग्रीवः सभां प्रति ॥ 6.11.4 ॥
असिचर्मधरा योधाः सर्वायुधधरास्तथा।
राक्षसा राक्षसेन्द्रस्य पुरतः सम्प्रतस्थिरे ॥ 6.11.5 ॥
नानाविकृतवेषाश्च नानाभूषणभूषिताः।
पार्श्वतः पृष्ठतश्चैनं परिवार्य ययुस्ततः ॥ 6.11.6 ॥
रथैश्चातिरथाः शीघ्रं मत्तैश्च वरवारणैः।
अनूत्पेतुर्दशग्रीवमाक्रीडद्भिश्च वाजिभिः ॥ 6.11.7 ॥
गदापरिघहस्ताश्च शक्तितोमरपाणयः।
परश्वधधराश्चान्ये तथाऽन्ये शूलपाणयः ॥ 6.11.8 ॥
ततस्तूर्यसहस्राणां सञ्जज्ञे निस्वनो महान्।
तुमुलः शङ्खशब्दश्च सभां गच्छति रावणे ॥ 6.11.9 ॥
स नेमिघोषेण महान् सहसाऽभिविनादयन्।
राजमार्गं श्रिया जुष्टं प्रतिपेदे महारथः ॥ 6.11.10 ॥
विमलं चातपत्राणं प्रगृहीतमशोभत।
पाण्डरं राक्षसेन्द्रस्य पूर्णस्ताराधिपो यथा ॥ 6.11.11 ॥
हेममञ्जरिगर्भे च शुद्धस्फटिकविग्रहे।
चामरव्यजने चास्य रेजतुः सव्यदक्षिणे ॥ 6.11.12 ॥
ते कृताञ्जलयः सर्वे रथस्थं पृथिवीस्थिताः।
राक्षसा राक्षसश्रेष्ठं शिरोभिस्तं ववन्दिरे ॥ 6.11.13 ॥
राक्षसैः स्तूयमानः सन् जयाशीर्भिररिन्दमः।
आससाद महातेजाः सभां सुविहितां शुभाम् ॥ 6.11.14 ॥
सुवर्णरजतस्थूणां विशुद्धस्फटिकान्तराम्।
विराजमानो वपुषा रुक्मपट्टोत्तरच्छदाम् ॥ 6.11.15 ॥
तां पिशाचशतैः षड्भिरभिगुप्तां सदा शुभाम्।
प्रविवेश महातेजाः सुकृतां विश्वकर्मणा ॥ 6.11.16 ॥
तस्यां तु वैडूर्यमयं प्रियकाजिनसंवृतम्।
महत् सोपाश्रयं भेजे रावणः परमासनम् ॥ 6.11.17 ॥
ततः शशासेश्वरवद् दूतान् लघुपराक्रमान्।
समानयत मे क्षिप्रमिहैतान् राक्षसानिति ॥ 6.11.18 ॥
कृत्यमस्ति महज्जातं समर्थ्यमिह नो महत् ॥ 6.11.19 ॥
अनुगेहमवस्थाय विहारशयनेषु च।
उद्यानेषु च रक्षांसि चोदयन्तो ह्यभीतवत् ॥ 6.11.20 ॥
ते रथान् रुचिरानेके दृप्तानेके पृथग्घयान्।
नागानन्येऽधिरुरुहुर्जग्मुश्चैके पदातयः ॥ 6.11.21 ॥
सा पुरी परमाकीर्णा रथकुञ्जरवाजिभिः।
सम्पतद्भिर्विरुरुचे गरुत्मद्भिरिवाम्बरम् ॥ 6.11.22 ॥
ते वाहनान्यवस्थाप्य यानानि विविधानि च।
सभां पद्भिः प्रविविशुः सिंहा गिरिगुहामिव ॥ 6.11.23 ॥
राज्ञः पादौ गृहीत्वा तु राज्ञा ते प्रतिपूजिताः।
पीठेष्वन्ये बृसीष्वन्ये भूमौ केचिदुपाविशन् ॥ 6.11.24 ॥
ते समेत्य सभायां वै राक्षसा राजशासनात्।
यथार्हमुपतस्थुस्ते रावणं राक्षसाधिपम् ॥ 6.11.25 ॥
मन्त्रिणश्च यथा मुख्या निश्चयार्थेषु पण्डिताः।
अमात्याश्च गुणोपेताः सर्वज्ञा बुद्धिदर्शनाः ॥ 6.11.26 ॥
रम्यायां राक्षसेन्द्रस्य समेयुस्तत्र सङ्घशः।
[ राक्षसा राक्षसश्रेष्ठं परिवार्योपतस्थिरे ] ॥ 6.11.27 ॥
ततो महात्मा विपुलं सुयुग्यं वरं रथं हेमविचित्रिताङ्गम्।
शुभं समास्थाय ययौ यशस्वी विभीषणः संसदमग्रजस्य ॥ 6.11.28 ॥
स पूर्वजायावरजः शशंस नामाथ पश्चाच्चरणौ ववन्दे।
शुकः प्रहस्तश्च तथैव तेभ्यो ददौ यथार्हं पृथगासनानि ॥ 6.11.29 ॥
सुवर्णनानामणिभूषणानां सुवाससां संसदि राक्षसानाम्।
तेषां परार्ध्यागरुचन्दनानां स्रजश्च गन्धाश्च ववुः समन्तात् ॥ 6.11.30 ॥
न चुक्रुशुर्नानृतमाह कश्चित् सभासदो नैव जजल्पुरुच्चैः।
संसिद्धार्थाः सर्व एवोग्रवीर्या भर्तुः सर्वे ददृशुश्चाननं ते ॥ 6.11.31 ॥
सरावणः शस्त्रभृतां मनस्विनां महाबलानां समितौ मनस्वी।
तस्यां सभायां प्रभया चकाशे मध्ये वसूनामिव वज्रहस्तः ॥ 6.11.32 ॥